युधिष्ठिरः-
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ
यत्फलं तस्य भवति तन्मे ब्रूहि पितामह
भीष्मः-
उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यस्समाहितः
मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि
स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते
युधिष्ठिरः-
यत्फलं तिलदाने च भूमिदाने च कीर्तितम्
गोदाने चान्नदाने च भूयस्तद्ब्रूहि कौरव
भीष्मः-
शृणु त्वमपि कौन्तैय तिलदानस्य यत्फलम्
निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम
पितॄणां प्रथमं भोज्यं तिलास्सृष्टास्स्वयम्भुवा
तिलदानेन वै पुण्यं पितृलोके प्रमोदते
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति
सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति
सर्वकामैस्स यजति यस्तिलैर्यजते पितॄन्
न चाकामेन दातव्यं तिलैश्श्राद्धं कथञ्चन
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः
ततो दिव्यं गता भावं प्रदानेन तिलाः प्रभो
पौष्टिका रूपदाश्चैव तथा पापविनाशनाः
तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते
आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा
महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः
तिलहोमरता विप्रास्सर्वे संयतमैथुनाः
समं गव्येन हविषा विप्रवृत्तिषु संस्थिताः
सर्वेषामन्नदानानां तिलदानं परं स्मृतम्
अक्षय्यं सर्वदानानां तिलदानमिहोच्यते
उत्सर्गे च पुरा हव्ये कुशिकर्षिः परन्तपः
तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम्
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम्
विधानं योगविधिना तिलानामिह शस्यते
अत ऊर्ध्वं निबोधेमं देवानां यष्टुमिच्छताम्
समागमं महाराज ब्रह्मणा वै स्वयम्भुवा
देवास्समेत्य ब्रह्माणं भूमिभागमियक्षवः
शुभं देशमयाचन्त यजेम इति पार्थिव
देवाः-
भगवंस्त्वं प्रभुर्भूमेस्सर्वस्य त्रिदिवस्य च
यजेम हि महाभाग यज्ञं भवदनुज्ञया
त्वदनुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते
त्वं हि सर्वस्य जगतस्स्थावरस्य चरस्य च
प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि
ब्रह्मा-
ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः
यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः
देवाः-
भगवन्कृतकामास्तु यक्ष्यामः प्राप्तदक्षिणाः
शुद्धं तु देशं मुनयः पर्युपासन्तु नित्यदा
भीष्मः-
ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः
असितो देवलश्चैव देवयज्ञमुपागमन्
ततो देवा महात्मान ईजिरे यज्ञमच्युतम्
तथा समापयामासुर्यथाकालं सुरर्षभाः
ततस्तु यष्ट्वा त्रिदशा हिमवत्यचलोत्तमे
षष्ठमंशं क्रतोस्तस्य भूमिदातुः प्रचक्रिरे
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतः
न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते
शीतवातातपसहां यागभूमिं सुसंस्कृताम्
प्रदाय सुरलोकस्थः पुण्यान्तं हि न चाप्नुते
मुदितो वसति प्राज्ञश्शक्रेण सह पार्थिव
पतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते
अध्यापककुले जातश्श्रोत्रियो नियतेन्द्रियः
गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते
तथा गवार्थे शरणं शीतवातसहं महत्
आसप्तमं तारयति कुलं भरतसत्तम
क्षेत्रभूमिं ददल्लोके पत्रश्रियमवाप्नुयात्
रत्नभूमिं प्रदत्त्वा तु कुलवंशं बिवर्धयेत्
न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन
न श्मशानपरीतां च न च पापनिषेविताम्
पारक्ये भूमिदेशे च पितॄणां निर्वपेत्तु यः
तद्भूमिस्वामिपितृभिश्श्राद्धकर्म विहन्यते
तस्मात्क्रीत्वा महीं दत्त्वा स्वल्पामपि विचक्षणः
पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः
अटवी पर्वताश्चैव नद्यस्तीर्थानि यानि च
सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः
इत्येतद्भूमिदानस्य फलमुक्तं विशां पते
अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च
तस्मान्महेश्वरो देवस्तपस्ताभिस्समास्थितः
ब्राह्मलोके वसन्त्येतास्सोमेन भरतर्षभ
यां तां ब्रह्मर्षयस्सिद्धाः प्राप्नुवन्ति परां गतिम्
पयसा हविषा दध्ना शकृताप्यथ चर्मणा
अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत
नासां शीतातपौ स्यातां यदेताः कर्म कुर्वते
न वर्षविषयं वाऽपि दुःखमासां भवत्युत
ब्राह्मणैस्सहिता यान्ति तस्मात्पारतरं पदम्
एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः
ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः
ता इमा विप्रमुख्येभ्यो यो ददाति महीपते
निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव
गवां सहस्रदः प्रेत्य नरकं नैव प्रपद्यते
सर्वत्र विजयं चापि लभते मनुजाधिप
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः
तस्माद्ददाति यो धेनुममृतं स प्रयच्छति
अाकुञ्चितमपि ह्येतद्धव्यं वेदविदो विदुः
हव्यं ददाति यो धेनुं स हव्यं सम्प्रयच्छति
स्वर्गो वै मूर्तिमांस्तेषामृषभं वै गवां पतिम्
विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ
तस्माद्ददाति यो धेनुं प्राणान्वै सम्प्रयच्छति
गावश्शरण्या भूतानामिति वेदविदो विदुः
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके
गोजीविने न दातव्या तथा गौः पुरुषर्षभ
गोरसानां न विक्रेतेरपञ्चयजनस्य च
ददात्येतादृशानां यो नरो गाः पापकर्मणाम्
अक्षय्यं नरकं यातीत्येवमाहुर्मनीषिणः
न कृशां वाऽपवत्सां वा वन्ध्यां क्रोधान्वितां तथा
न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै
दशगोसहस्रदस्सम्यक् शक्रेण सह मोदते
अक्षय्यानश्नुते लोकान्नरश्शतसहस्रशः
इत्येवं गोप्रदानं च तिलदानं च कीर्तितम्
तथा भूमिप्रदानं च शृणुष्वान्ने च भारत
अन्नदानं प्रधानं च कौन्तेय परिचक्षते
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप
स्वायम्भुवं महाभागं स पश्यति नराधिप
न हिरण्यैर्न वासोभिर्नाश्वदानेन भारत
प्राप्नुवन्ति नराश्श्रेयो यथेह्यन्नप्रदाः प्रभो
अन्नं हि प्ररमं द्रव्यमन्नं श्रीश्च परा मता
अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा
सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः
न स दुर्गाण्यवाप्नोति तमेवाह पराशरः
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत्
यदन्ना हि नरा राजंस्तदन्नास्तस्य देवताः
कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत
स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते
अभुक्त्वाऽतिथये चान्नं प्रयच्छेद्यस्समाहितः
स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत्
पापं तरति चैवेह दुष्कृतं चापकर्षति
इत्येतदन्नदानस्य तिलदानस्य चैव ह
भूमिदानस्य च फलं गोदानस्य च कीर्तितम्