युधिष्ठिरः-
कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः
गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम
केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत
सर्वमेतन्महाराज फलं पुण्यकृतं महत्
दत्तं किं फलवद्राजन्निह लोके परत्र च
भगवञ्श्रोतुमिच्छामि तन्मे विस्तरतो वद
भीष्मः-
इममर्थं पुरा पृष्टो नारदो देवदर्शनः
यदुक्तवानसौ तन्मे गदतश्शृणु भारत
नारदः-
अन्नमेव प्रशंसन्ति देवास्सर्षिगणाः पुरा
लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम्
अन्नेन सदृशं दानं न भूतं न भविष्यति
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः
अन्नेन साध्यते सर्वं विश्वं जगदिदं प्रभो
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च
अन्नात्प्रभवति प्राणाः प्रत्यक्षं नात्र संशयः
कटुम्बं पीडयित्वाऽपि ब्राह्मणाय महात्मने
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता
ब्राह्मणायाभिरूपाय यो ददात्यन्नमर्थिने
निदधाति निधिश्रेष्ठं पारलौकिकमात्मनः
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम्
अर्ययेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम्
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः
अन्नदः प्राप्नुते राजन्दिवि चेह महत्सुखम्
नावमन्येदभिगतं न प्रणुद्यात्कथञ्चन
अपि श्वपाके शुनि वा ह्यन्नदानं प्रतिष्ठितम्
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते
श्रान्तायादृष्टपूर्वाय स महत्त्वमवाप्नुयात्
पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत्
कृत्वाऽपि पातकं कर्म यो दद्यादन्नमर्थिने
ब्राह्मणाय विशेषेण न स पापेन युज्यते
ब्राह्मणेष्वेव यद्दानमन्नं शूद्रे महाफलम्
अन्नदानं हि शूद्रे च ब्राह्मणे च विशिष्यते
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च
भिक्षितो ब्राह्मणेनान्नं दद्यादेवाविचारतः
अन्नदस्यान्नदा वृक्षास्सर्वकामफलन्विताः
भवन्तीह तथाऽमुत्र नृपते नात्र संशयः
आशंसन्ते हि पितरस्सुवृष्टिमिव कर्षकाः
अस्माकमपि पुत्रो वा पौत्रो वाऽन्नं प्रदास्यति
ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते
अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात्
ब्राह्मणस्सर्वभूतानामतिथिः प्रसृताग्रभुक्
विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा
सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते
महाभागे कुले जन्म प्रेत्य प्राप्नोति भारत
दत्त्वा त्वन्नं नरो लोके तस्य स्थानमनुत्तमम्
स्विष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः
अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम्
अन्नदः पशुमान्पुत्री धनवान्भोगवानपि
प्राणवांश्चापि भवति रूपवांश्च नराधिप
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः
अन्नं हि दत्त्वाऽतिथये ब्राह्मणाय यथाविधि
प्रदाता सर्वमाप्नोति दैवैश्चाप्यभिपूज्यते
ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत्
उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत्
प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत
अन्नाद्धि प्रभवं विद्धि रतिरन्नाद्धि पार्थिव
धर्मार्थावन्नतो विद्धि रोगनाशं तथाऽन्नतः
अन्नं ह्यमृतमित्याह पुरा काले प्रजापतिः
अन्नं दिवं भुवं खं च सर्वमन्ने प्रतिष्ठितम्
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः
बलं बलवतोऽपीह प्रणश्यत्यन्नहानिभिः
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा
न वर्तन्ते नरश्रेष्ठ ब्रह्म चानुप्रहीयते
अन्नतस्सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम्
त्रिषु लोकेषु धर्मार्थमन्नं देयं सदा बुधैः
अन्नदस्य मनुष्यस्य बलमोजो यशांसि च
कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव
मेघेषु कं सन्निधत्ते प्राणानां पवनश्शिवः
तच्च मेघगतं वारि शक्रो वर्षति भारत
आदत्ते च रसं भौममादित्यस्स्वगभस्तिभिः
वायुरादित्यतस्स्वं च रसादेव प्रजापतिः
तद्यदा मेघतो वारि पतितं भवति क्षितौ
तदा वसुमती देवी स्निग्धा भवति भारत
ततस्सस्यानि रोहन्ति येन वर्तयते जगत्
मांसमेदोस्थिशुक्लाणां प्रादुर्भावस्ततः पुनः
सम्भवन्ति ततश्शुक्लात्प्राणिनः पृथिवीपते
अग्नीषोमौ हि तच्छुक्लम्प्रजातं पुष्यतश्च ह
एवमन्नाञ्च सूर्यश्च पवनश्शुक्लमेव च
एक एव स्मृतो राशिस्तिर्यग्भूतानि जज्ञिरे
प्राणान्ददाति भूतानां तेजश्च भरतर्षभ
गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने
भीष्मः-
नारदेनैवमुक्तोऽहमन्नदानं सदा नृप
अनसूयुस्त्वमप्यन्नं तस्माद्देहि ततः परम्
दत्त्वाऽन्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो
यथावदनुरूपेभ्यस्ततस्स्वर्गमवाप्स्यसि
अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम्
नानासंस्थानरूपाणि नानास्तम्भान्वितानि च
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च
तरुणादित्यवर्णानि स्थावराणि चराणि च
अनेकशतभौमानि सान्तर्जलवनानि च
वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः
वाप्यो वीथ्यस्सभाः कूपा दीर्घिकाश्चापि सर्वशः
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः
भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च
क्षीरं स्रवन्त्यस्सरितस्तथा चैवान्नपर्वताः
प्रासादाः पाण्डुराभ्राभाश्शय्याश्च कनकोज्ज्वलाः
तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव
एते लोकाः पुण्यकृतामन्नदानां महात्मनाम्
तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि