युधिष्ठिरः-
इदं देयमिदं देयमितीयं श्रुतिचोदना
बहुदेयाश्च राजानः किंस्विद्देयमनुत्तमम्
भीष्मः-
अति दानानि सर्वाणि पृथिवीदानमुच्यते
अचला चाक्षया भूमिर्दोग्ध्री कामाननुत्तमान्
दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा
भूमिदस्सर्वभूतेषु शाश्वतीरेधते समाः
यावद्भूमेरायुरिह तावद्भूमिद एधते
न भूमिदानादिह तु परं किञ्चिद्युधिष्ठिर
अप्यल्पं प्रददुस्सर्वं पृथिव्या इति नश्श्रुतम्
भूमिमेव ददुस्सर्वे ये भूमिं भुञ्जते जनाः
स्वकर्म चोपजीवन्ति नरा इह परत्र च
भूमिः पतिं महादेवी दातारं कुरुते प्रियम्
य एतां दक्षिणां दद्यादक्षयां पृथिवीपते
पुना राजाऽवनिं प्राप्य भवेत्स पृथिवीपतिः
यथा दात्तं तथा भोग इति धर्मेषु निश्चयः
सङ्ग्रामे वा तनुं जह्याद्दद्याच्च पृथिवीमिमाम्
इत्येताः क्षत्रबन्धूनां वदन्ति परमाशिषः
पुनाति दत्ता पृथिवी दातारमिति शुश्रुम
अपि पापसमाचारं ब्रह्मघ्नमपि चानृतम्
सैव पापं पावयति सैव पापात्प्रमोचयेत्
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः
पृथिवीं नान्यदिच्छन्ति पावनं जगती यतः
नामास्याः प्रियदत्तेति गुह्यं देव्यास्सनातनम्
दानं वाऽप्यथवा ज्ञानं नाम्नोऽस्याः परमं प्रियम्
तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः
न भूमिपतिना भूमिरधिष्ठेया कथञ्चन
न च वस्त्रेण वा गूहेत्रान्तर्धानेन वा चरेत्
ये चान्ये भूमिमिच्छेयुः कुर्युरेव न संशयः
यस्साधोर्भूमिमादत्ते न भूमिं विन्दते नृप
भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव च
प्रेत्येह च स धर्मात्मा सम्प्राप्नोति महद्यशः
एकागारकरीं दत्त्वा षष्ठिसाहस्रमूर्ध्वगः
तावत्या हरणे पृथ्व्या नरकं द्विगुणोत्तरम्
यस्य विप्रानुशासन्ति साधोर्भूमिं सदैव हि
न तस्य शत्रवो राजन्प्रशंसन्ति वसुन्धराम्
यत्किञ्चित्पुरुषः पापं कुरुते वृत्तिकर्शितः
अपि गोचर्ममात्रेण भूमिदानेन पूयते
येऽपि सङ्कीर्णकर्माणो राजानो रौद्रकर्मिणः
तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम्
अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः
यो यजेदश्वमेधेन दद्याद्वा साधवे महीम्
अथ चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः
अशक्यमेकमेवैतद्भूमिदानमनुत्तमम्
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च
सर्वमेतन्महाप्राज्ञो ददाति वसुधां ददत्
तपो यज्ञश्श्रुतं शीलमद्रोहस्सत्यसन्धता
गुरुदैवतपूजा च नातिक्रामन्ति भूमिदम्
भर्तुनिश्श्रेयसे युक्तास्त्यक्तात्मानो रणे हताः
ब्रह्मलोकगतास्सिद्धा नातिक्रामन्ति भूमिदम्
यथा जनित्री क्षीरेण स्वपुत्रं क्षीरेण सदा
अनुगृह्णाति दातारं तथा सर्वरसैर्मही
मृत्युर्वै किङ्करा दण्डस्तापो वह्नेस्सुदारुणः
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम्
हलकृष्टां महीं दत्त्वा सबीजां सफलामपि
सोदकं वाऽपि शरणं तथा भवति कामदः
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम्
नरः प्रतिग्राह्य महीं न याति यमसादनम्
यथा चन्द्रमसो वृद्धिरहन्यहनि जायते
तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते
अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः
याश्श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै
मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ
अस्मिँल्लोके परे चैव ततश्च जनने पुनः
य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितं
श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति
कृत्यानामभिशप्तानामरिष्टशमनं महत्
प्रायश्चित्तं महद्दत्त्वा पुनात्युभयतो दश
पुनाति य इदं वेद वेद्मिचाहं तथैव तम्
प्रकृतिस्सर्वभूतानां भूमिर्वै शाश्वती मता
अभिषिच्यैव नृपतिं श्रावयेदिममागमम्
यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम्
सोऽहं कृत्स्ना ब्राह्मणार्था राजानश्चाप्यसंशयः
राजा हि धर्मकुशलः प्रथमं भूमिलक्षणम्
अथ येषामधर्मज्ञो राजा भवति नास्तिकः
न ते सुखं प्रबुध्यन्ति न सुखं प्रस्वपन्ति च
तस्य राज्ञश्शुभैः कार्यैः कर्मभिर्निर्वृताः प्रजाः
योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः
स कुलीनस्स पुरुषस्स बन्धुस्स च पुण्यकृत्
स राजा स च विक्रान्तो यो ददाति वसुन्धराम्
आदित्य इव दीप्येत तेजसा त्विह मानवाः
ददाति वसुधां स्फीतां यो वेदविदुषि द्विजे
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले
तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः
शूलिपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम्
भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्त्यपि
चतुर्विधो हि लोकोऽयं सोऽयं भूमिगुणात्मकः
एषा माता पिता चैव जगतः पृथिवीपते
नानया सदृशं भूतं किञ्चिदस्ति नराधिप
सौवर्णयन्त्रप्रसादा वसोर्धाराश्च कामदाः
गन्धर्वप्सरसो यत्र तत्र गच्छन्ति भूमिदाः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर
इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता
मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम्
इन्द्रः-
भगवन्येन दानेन स्वर्गे वै सुखमेधते
यदक्षयमहार्यं च तद्ब्रूहि वदतां वर
भीष्मः-
इत्युक्तस्स सुरेन्द्रेण ततो देवपुरोहितः
बृहस्पतिर्बृहत्तेजाः प्रत्युवाच शतक्रतुम्
ब्रहस्पतिः-
सुवर्णदानं गोदानं भूमिदानं च वृत्रहन्
विद्यादानं च कन्यानां दानं पापहरं परम्
दददेतान्महाप्राज्ञस्सर्वपापैः प्रमुच्यते
न भूमिदानाद्देवेन्द्र परं किञ्चिदिति प्रभो
विशिष्टमिति मन्येऽहं तथा प्राहुर्मनीषिणः
ब्राह्मणार्थे गवार्थे वा राष्ट्रघातेऽथ स्वामिनः
कुलस्त्रीणां परिभवे मृतास्ते भूमिपैस्समाः
ये शूराश्शयिता युद्धे स्वर्याता दानगृद्धिनः
सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम्
भर्तुर्निश्श्रेयसे युक्तास्त्यक्तात्मानो रणे हताः
ब्राह्मलोकं गताश्शूरा नातिक्रामन्ति भूमिदम्
पञ्च पूर्वा हि पुरुषाः षट्च ये च स्वधां गताः
एकादश ददद्भूमिं परित्रातीह मानवः
रत्नोपकीर्णां वसुधां यो ददाति पुरन्दर
स मुक्तस्सर्वकलुषैस्स्वर्गलोके महीयते
महीं स्फीतां ददद्राजा सर्वकामगुणान्विताम्
राजाधिराजो भवति तद्धि दानमनुत्तमम्
सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति
सर्वभूतानि मन्यन्ते मां ददातीति वासव
सर्वकामदुघां धेनुं सर्वकामपुरोगमाम्
ददाति यस्सहस्राक्ष स स्वर्गं याति मानवः
मधुसर्पिःप्रवाहिण्यः पयोदधिवहास्तथा
सरितस्तपर्यन्तीह सुरेन्द्र वसुधाप्रदम्
भूमिप्रदानान्नृपतिर्मुच्यते राज्यकिल्बिषात्
न हि भूमिप्रदानेन दानमन्यद्विशिष्यते
ददाति यस्समुन्द्रान्तां पृथिवीं शस्त्रनिर्जिताम्
तं जनाः कथयन्तीह यावद्धरति गौरियम्
पुण्यां रसभृतां भूमिं यो ददाति पुरन्दर
अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये
समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः
सागरान्सरितश्शैलान्काननानि च सर्वशः
सर्वमेतन्नरश्शक्र ददाति वसुधां ददत्
तटाकान्युदपानानि स्रोतांसि च सरांसि च
स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत्
ओषधीर्वीर्यसम्पन्ना नगान्पुष्पफलान्वितान्
काननोपलशैलांश्च ददाति वसुधां ददत्
अग्निष्टोमप्रभृतिर्दृष्ट्वा च स्वाप्तदक्षिणैः
म तत्फलमुपाश्नाति भूमिदानाद्यदश्नुते
दाता दशानुगृह्णाति दश हन्ति तथाऽऽक्षिपन्
पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति
न ददाति प्रतिश्रुत्य दत्त्वा वा हरेते तु यः
स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात्
आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम्
ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम्
ब्राह्मणेष्वृणभूतं स्यात्पार्थिवस्य पुरन्दर
इतरेषां तु वर्णानां तारयेद्भृशदुर्बलान्
नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप
ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश्चन
अथाश्रु पतितं तेषां दीनानामवसीदताम्
ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम्
भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः
तस्य वासस्सहस्राक्ष नाकपृष्ठे महीयते
इक्षुभिस्सन्ततां भूमिं यवगोधूमशाद्बलाम्
गोश्ववाहनसम्पूर्णां यो ददाति वसुन्धराम्
विमुक्तस्सर्वपापेभ्यस्स्वर्गलोके महीयते
निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम्
अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत्
विधूय कलुषं सर्वं विरजास्सम्मतस्सताम्
लोके महीयते सद्भिर्यो ददाति वसुन्धराम्
यथाऽप्सु पतितश्शक्र तैलबिन्दुर्विसर्पति
तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति
ये रणाग्रे महीपालाश्शूरास्समितिशोभनाः
वध्यन्तेऽभिमुखाश्शक्र ब्रह्मलोकं व्रजन्ति ते
नृत्तगीतपरा नार्यो दिव्यमाल्यविभूषिताः
उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि
मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः
यो ददाति महीं सम्यग्विधिनेह द्विजातये
शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः
उपतिष्ठन्ति देवेन्द्र ब्रह्मलोके धराप्रदम्
उपतिष्ठन्ति पुण्यानि सदा भूमिप्रदं नरम्
शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः
भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा
आज्ञा सदाऽप्रतिहता जयशब्दो भवत्यथ
भूमिदानस्य पुण्यानि फलं स्वर्गः पुरन्दर
हिरण्यपुष्पाण्योषध्यः बृहत्काञ्चनशाद्वलाः
अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत्
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः
भीष्मः-
एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम्
वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा
य इमं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम्
न तस्य रक्षसां भागो नासुराणां भवत्युत
अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः
तस्माच्छ्राद्धेष्विदं विप्रो भुञ्जतश्श्रावयेद्द्विजान्
इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ
मया भरतशार्दूल किं भूयश्श्रोतुमिच्छसि