युधिष्ठिरः-
तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा
भार्या च सुमहाभागा तन्मे ब्रूहि पितामह
भीष्मः-
अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया
परिश्रान्तो निववृते व्रीडितो नष्टचेतनः
स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन
तदेव चिन्तयामास च्यवनस्य विचेष्टितम्
अथ शून्येन मनसा प्रविवेश गृहं नृपः
ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम्
विस्मितोऽभूत्तु तं दृष्ट्वा तदाश्चर्यं प्रचिन्तयन्
सन्दर्शनात्तस्य मुनेर्विश्रान्तौ सम्बभूवतुः
यथास्थानं ततो गत्वा तत्पादौ संववाहतुः
अथापरेण पार्श्वेन सुष्वाप मुनिसत्तमः
तेनैव च स कालेन सम्प्राबुद्ध्यत वीर्यवान्
न च तौ चक्रतुः किञ्चिद्विवरं भयशङ्कितौ
अथाह भगवांस्तौ तु प्रतिबुद्धो विशां पते
तैलाभ्यङ्गं प्रयच्छेतां स्नातुमिच्छामि पार्थिव
तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ
शतपाकेन तैलेन महार्हेणोपतस्थतुः
ततस्सुखासीनमृषिं वाग्यतौ सम्बभूवतुः
न च पर्याप्तमित्याह भार्गवस्सुमहातपाः
यदा तौ निर्विकारौ तु लक्षमायास भार्गवः
तत उत्थाय सहसा स्नानशालामुपागमत्
क्लृप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम्
असत्कृत्य च तत्सर्वं तत्रैवान्तरधीयत
स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा
नासूयां चक्रतुस्तौ तु दम्पती भरतर्षभ
अथ स्नातस्स भगवान्सिंहासनगतः प्रभुः
दर्शयामास कुशिकं सभार्यं भृगुनन्दनः
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम्
सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत्
आनीयतामिति मुनिस्तं चोवाच जनाधिपम्
राजा च समुपाजह्रे तदन्नं भार्यया सह
मांसप्रकारान्विविधाञ्शाकानि विविधानि च
लेह्यपिष्टविकारांश्च पानान्यतिलघूनि च
रसालापूपकांश्चित्रान्मोदकानथ षड्रसान्
रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम्
फलानि च विचित्राणि तदा भोज्यानि भूरिशः
बदरेङ्गुदकाश्मर्यभल्लातकफलानि च
गृहस्थानां च सम्भोज्यं यच्चापि वनवासिनाम्
सर्वमाहारयामास राजा शापभयान्मुनेः
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत्
ततस्सर्वं समानीय तच्च शय्यासनं मुनिः
वस्त्रैश्शुद्धैरवच्छाद्य भोजनोपस्करैस्सह
सर्वमादीपयामास च्यवनो भृगुनन्दनः
न च तौ चक्रतुः क्रोधं दम्पती सुमहाव्रतौ
तयोस्सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत्
तथैव च स राजर्षिस्तस्थौ तां रजनीं तदा
सभार्यो वाग्यतश्श्रीमान्न चैनं कोप आविशत्
नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि
शयनानि च मुख्यानि परिवेषाश्च पुष्कलाः
वस्त्रं च विविधाकारमभवत्समुपार्जितम्
न शशाक ततो द्रष्टमन्तरं च्यवनस्तदा
पुनरेव च विप्रर्षिरवोचत्कुशिकं नृपम्
च्यवनः-
भीष्मः-
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम्
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम्
कुशिकः-
क्रीडारथोऽस्तु भगवन्नुत साङ्ग्रामिको रथः
भीष्मः-
इत्युक्तस्तु मुनिस्तेन राज्ञा तेन हृष्टेन तद्वचः
च्यवनः प्रत्युवाचेदं हृष्टः परपुरञ्जयम्
च्यवनः-
सज्जीकुरु रथं क्षिप्रं यस्ते साङ्ग्रामिको रथः
सायुधस्सपताकश्च सशक्तिः कृतयष्टिकः
किङ्किणीकृतनिर्घोषो युक्तस्तोमरकर्पणैः
गदास्वङ्गनिबद्धश्च परमेषुशतान्वितः
भीष्मः-
ततस्स तं तथेत्युक्त्वा कल्पयित्वा महारथम्
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा
त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत्
सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत्
कुशिकः-
भीष्मः-
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दन
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः
एवमुक्तस्स भगवान्प्रत्युवाचाथ तं नृपम्
च्यवनः-
इतः प्रभृति यातव्यं पदकं पदकं शनैः
श्रमो मम यथा न स्यात्तथा स्वच्छन्दचारिणः
सुखं चैवास्मि वोढव्यो जनस्सर्वश्च पश्यतु
नोत्सार्याः पथि कश्चिच्च वसु दास्यामि तेष्वहम्
ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि
भीष्मः-
सर्वान्दास्याम्यशेषेण धनरत्नानि चैव हि
क्रियतां निखिलेनैतन्मा विचारय पार्थिव
तस्य तद्वचनं श्रुत्वा राजाऽमात्यांस्तथाऽब्रवीत्
कुशिकः-
यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः
भीष्मः-
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम्
कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः
हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत्
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ
पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः
वेपमानौ निराहारौ पञ्चाशद्रात्रकर्शितौ
कथञ्चिदूहतुर्धैर्याद्दम्पती तं रथोत्तमम्
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम्
ददृशाते महाराज पुष्पिताविव किंशुकौ
तौ दृष्ट्वा पौरवर्गस्तु भृशं कोपपरायणः
अभिशापभयत्रस्तो न तं किञ्चिदुवाच ह
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम्
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शुक्नुमः
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः
राज्ञश्चास्य सभार्यस्य धैर्यं पश्यत यादृशम्
श्रान्तावपि तु कच्छ्रेण रथमेकं समूहतुः
न चैतयोर्विकारं वै ददर्श भृगुनन्दनः
ततस्तु निर्विकारौ तौ मुनिर्दृष्ट्वा भृगूद्वहः
वसु विश्राणयामास यथा वैश्रवणस्तथा
तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत्
ततोऽस्य भगवान्प्रीतो ह्यभवमुनिसत्तमः
अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह
विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह
स्निग्धगम्भीरया वाचा भार्गवस्सुप्रसन्नया
ददामि वां वरं श्रेष्ठं तं ब्रूतामिति भारत
सुकुमारौ च तौ विद्वान्कराभ्यां स मुनिस्तदा
पस्पर्शामृतकल्पाभ्यां स स्नेहाद्भरतर्षभ
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह
विश्रान्तौ स्वप्रभावात्ते ध्यानेनैवेह भार्गव
अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा
च्यवनः-
न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति
रमणीयोऽयमुद्देशो गङ्गातीरमिदं शुभम्
किञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप
न च मन्युस्त्वया कार्यश्श्रेयस्त्वां समुपस्थितम्
यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं हि भविष्यति
भीष्मः-
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत्
कुशिकः-
न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वया
संवृतौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ
प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया
तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया
इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम्
श्रिया परमया युक्ता तथा दृष्ट्वा महत्तपः
तव प्रसादात्संवृत्तमिदं सर्वं महामुने
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रमे
भीष्मः-
इत्युक्तः प्रत्युवाचेदं कुशिकं च्यवनस्तदा
आगच्छेथास्सभार्यश्च त्वमिहेति नराधिप
इत्युक्तस्समनुज्ञातो राजा तमभिवाद्य च
प्रययौ वपुषा युक्तो नगरं देवराजवत्
तत एनमुपाजग्मुरमात्यास्सपुरोहिताः
बलस्थाः क्षत्रिया युक्तास्सर्वाः प्रकृतयस्तथा
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन्
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः
ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकीः क्रियाः
भुक्त्वा सभार्यो रजनीमुवास स महीपतिः
ततस्तु तौ नवमभिवीक्ष्य यौवनं परस्परं विगतजराविवामरौ
ननन्दतुस्सदनगतौ वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तया
स चाप्यृषिर्भृगुकुलकीर्तिवर्धनस्तपोधनो वनमभिराममृद्धिमत्
मनीषया बहुविधरत्नभूषितं ससर्ज यन्नास्ति शतक्रतोरपि
ततो राजा रजन्यन्ते प्रतिबुद्धो महामनाः
कृतसर्वाह्निकः प्रायात्सभार्यस्तद्वनं प्रति
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम्
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम्
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा
पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः
चित्रशालाश्च विविधाश्शरणानि च भारत
शाड्वलोपहितां भूमिं तथा काञ्चनकुट्टिमाम्
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान्
अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान्
चम्पकांस्तिलकान्सर्जानसनानर्जुनानपि
पुष्पितान्कर्णिकारांश्च तत्रतत्र ददर्श ह
श्यामं वारणपुष्पं श्च तथाऽष्टपदिकां लताम्
तत्र तत्र परिक्षिप्तां ददर्श स महीपतिः
वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा
विमानच्छन्दकांश्चापि प्रासादान्पद्मसन्निभान्
शीतलानि च तोयानि क्वचिदुष्णानि भारत
आसनानि विचित्राणि शयनप्रस्तराणि च
पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तराणास्तृतान्
भक्ष्यं भोज्यमनेकं च तत्र तत्रोपकल्पितम्
वाणीवाहाञ्छुकांश्चापि शारिका भृङ्गराजकान्
कोकिलाञ्छतपत्रांश्च कोयष्टिमणिककुक्कुटान्
मयूरान्कुररांश्चापि पुत्रकाञ्जीवजीवकान्
चकोरान्वानरान्हंसीश्चक्रवाकसमाह्वयान्
समन्ततः प्रणदतो ददर्श सुमनोहरान्
क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव
कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह
न ददर्श तदाभूयो ददर्श च पुनर्नृपः
गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम्
हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः
तद्दृष्ट्वाऽत्यद्भुतं राजा मनसाऽचिन्तयत्तदा
कुशिकः-
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु
अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम्
उत्तरान्वा कुरून्पुण्यानथवाऽप्यमरावतीम्
किन्न्विदं महदाश्चर्यं सत्यं पश्यामि चिन्तयत्
भीष्मः-
एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम्
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले
महार्हशयने दिव्ये शयानं भृगुनन्दनम्
तमभ्ययात्प्रहर्षेण नरेन्द्रस्सह भार्यया
अन्तर्हितस्ततो भूयो मुनिश्च शयनं च तत्
ततोऽन्यस्मिन्वेनोद्देशे पुनरेव ददर्श तम्
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम्
एवं योगबलाद्विप्रो मोहयामास पार्थिवम्
क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत
निश्शब्दमभवच्चापि गङ्गाकूलं पुनर्नृप
कुशवल्मीकभूयिष्ठं बभूव च यथापुरम्
ततस्स राजा कुशिकस्सभार्यस्तेन कर्मणा
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम्
ततः प्रोवाच कुशिको भार्यां हाससमन्वितः
कुशिकः-
पश्य भद्रे यथा भावा दृष्टाश्चित्रास्सुदुर्लभाः
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात्
तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते
तपसा हि सुतप्तेनि क्रीडत्येष तपोधनः
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः
इच्छयैष तपोवीर्यादन्याँल्लोकान्सृजेदपि
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणा
उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते
ब्राह्मण्यं एव जायेरन्पुण्यवाग्बुद्धिकर्मिणः
सिद्धिस्तत्रापि दुष्प्रापा सिद्धेरपि परा गतिः
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत्
भीष्मः-
इत्येवं चिन्तयानस्सन्विदितश्च्यवनस्य वै
सम्प्रेक्ष्योवाच नृपतिं क्षिप्रमागम्यतामिति
इत्युक्तस्सहभार्यस्तमभ्यगच्छन्महामुनिम्
शिरसा वन्दनीयं तमवन्दत च पार्थिवः
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभम्
ततः प्रकृतिसमापन्नो भार्गवो नृपते नृपम्
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत
च्यवनः-
राजन्सम्यङ्निर्जितानि पञ्च पञ्चस्तु यत्त्वया
मनष्षष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै
सम्यगाराधितः पुत्र त्वयाऽहं वदतां वर
न हि ते वृजिनं किञ्चित्सुसूक्ष्ममपि दृश्यते
अनुजानीहि मां राजन्गमिष्यामि यथागतम्
प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम्
कुशिकः-
अग्निमध्ये गतेनेदं भगवन्सन्निधौ मया
वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन
यत्प्रीतोऽसि ममाचारैः कुलं पूतं ममानघ
एष मेऽनुग्रहो विप्र जीवितेऽपि प्रयोजनम्
एतद्राज्यफलं चैव तपश्चैतत्परं मम
यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि
च्यवनः-
वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि
तं च ब्रूहि नरश्रेष्ठ सर्वं सम्पादयामि ते
कुशिकः-
यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव
कारणं श्रोतुमिच्छमि मद्गृहे वासकारितम्
शयनं चैकपार्श्वेन दिवसानेकविंशतिम्
न किञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गवः
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम्
पुनश्च शयनं विप्र दिवसानेकविंशतिम्
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम
समुपानीय विविधं यद्दग्धं जातवेदसा
निर्याणं च रथेनाशु सहसा यत्कृतं त्वया
धनानां च विसर्गश्च जलस्यापि च दर्शनम्
प्रासादानां बहूनां च काञ्चनानां महामुने
मणिविद्रुमपादानां पर्यङ्काणां च दर्शनम्
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम्
अतीव ह्यत्र मुह्यामि चिन्तयानो द्विजर्षभ
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम्
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन
च्यवनः-
शृणु सर्वमशेषेणि यदिदं येन हेतुना
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव
पितामहस्य वदतः पुरा देवसमागमे
श्रुतवानस्मि यद्राजंस्तन्मे निगदतश्शृणु
ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः
ततस्स्वकुलरक्षार्थमहं त्वां समुपागतः
चिकीर्षन्कुशिकोच्छेदं सन्दिधक्षुः कुलं तव
ततोऽहमागम्य पुरे त्वामवोचं महीपते
नियमं कञ्चिदारप्सश्शुश्रूषा क्रियतामिति
न च ते दुष्कृतं किञ्चिदहमासादयं गृहे
तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा
एतां बुद्धिं समास्थाय दिवसानेकविंशतिम्
सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव
यदा त्वया सभार्येण संसुप्तो न प्रबोधितः
अहं तदैव ते प्रीतोऽस्मि मनसा राजसत्तम
उत्थाय चापि निष्क्रान्तो यदि मां त्वं महीपते
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो
अन्तर्हितश्चास्मि विभो पुनरेव च ते गृहे
योगमास्थाय संसुप्तो दिवसानेकविंशतिम्
क्षुधितौ नाभ्यसूत्येवं श्रमाद्वाऽति नराधिप
एतां बुद्धिं समास्थाय कर्शितो वा मया क्षुधा
न च ते वाक्सुसूक्ष्माऽपि मन्युर्मनसि पार्थिव
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम्
भोजनं च समानाय्य यत्तदा दीपितं मया
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च मे
रथेन वाहितश्चापि श्रमात्क्रोधोद्भवाय ते
ततोऽहं रथमारुह्य त्वामवोचं नराधिप
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा
अथाविशं नरपते प्रीतोऽहं चापि तेन ते
धनोत्सर्गेऽपि च कृते न त्वां क्रोधोऽप्यधर्षयत्
ततः प्रीतेन ते राजन्पुनरेवं कृतं ततः
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप
प्रीत्यर्थं तव चैतन्मे स्वर्गसन्दर्शनं कृतम्
यत्ते वनेऽस्मिन्नृपते दृष्टवांस्त्वं निदर्शनम्
स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव
मुहूर्तमनुभूतोऽयं सभार्येण नृपोत्तम
निदर्शनार्थं तपसो धर्मस्य च परन्तप
तत्र नासीत्स्पृहा राजंस्तच्चापि विदितं मम
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते
अवमत्य नरेन्द्रत्वं देवत्वं चापि पार्थिव
एवमेतद्यथातत्त्वं ब्राह्मण्यं तात दुर्लभम्
ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः
तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा
पौत्रस्ते भविता विप्रस्तपस्वी पावकद्युतिः
यस्स देवमनुष्याणां भयमुत्पादयिष्यति
जमदग्नौ महाबाघ तपसा भावितात्मनि
स चापि णृगुशार्दूलस्तवेदं धारयिष्यति
त्रयाणां चैव लोकानां सत्यमेतद्भविष्यति
वरं गृहाण राजर्षे यस्ते मनसि वर्तते
तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते
कुशिकः-
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने
भवत्वेतद्यथाऽऽत्थ त्वं तथा पौत्रो ममानघ
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन
कश्चासौ भविता बन्धुर्मम कश्च पितामहः
च्यवनः
अवश्यं कथनीयं मे तवैतन्नरपुङ्गव
यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप
भृगूणां क्षत्रिया याज्या नित्यमेव नराधिप
ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना
क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप
आगर्भादनुकृन्तन्तो देवदण्डनिपीडिताः
तत उत्पत्स्यतेऽस्माकं कुलगोत्रविवर्धनः
और्वो नाम महातेजा ज्वलितार्कसमद्युतिः
स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति
महीं सपर्वतवनां यः करिष्यति भस्मसात्
कञ्चित्कालं तु तं वह्निं स एव शमयिष्यति
समुद्रे बडबावक्त्रे प्रक्षिप्य मुनिसत्तमः
पुत्रं तस्य महाभागमृचीकं भृगुनन्दनम्
साक्षात्स्नेहाद्धनुर्वेदस्समुपस्थास्यतेऽनघ
क्षत्रियाणामभावाय दैवयुक्तेनु हेतुना
स तु तं प्रतिगृह्यैव पुत्रे सङ्क्रामयिष्यति
जमदग्नौ महाभागे तपसा भावितात्मनि
स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति
कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति
क्षत्रहन्ता भवेद्धिंस्र इति दैवं सनातनम्
नारायणमुपास्यास्य वरात्तं पुत्रमृच्छति
उत्थापनार्थं भवतो वंशस्य नृपसत्तम
गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः
ब्राह्मणं क्षत्रधर्माणं पुत्रमुत्पादयिष्यति
क्षत्रियं विप्रधर्माणं बृहस्पतिमिवौजसा
विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम्
तपसा महता युक्तं प्रदास्यति महातपाः
स्त्रियौ तु कारणं तत्र परिवत्तौ भविष्यतः
पितामहनियोगाद्वै नान्यथैतद्भविष्यति
तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति
भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम्
भीष्मः-
कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः
श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह
एवमस्त्विति धर्मात्मा तदा भरतसत्तम
च्यवनस्तु महातेजाः पुनरेव नराधिपम्
वरार्थं चोदयामास तमुवाच स पार्थिवः
कुशिकः-
बाढमेव ग्रहीष्यामि कामांस्त्वत्तो महामुने
ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत्
भीष्मः-
तथेऽत्युक्तस्तथेत्येव प्रत्युक्त्वा च्यवनो मुनिः
अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा
एतत्ते कथितं सर्वमशेषेण मया नृप
भृगूणां कुशिकानां च प्रतिसम्बन्धकारणम्
यथोक्तं मुनिना चापि तथा तदभवन्नृप
जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव ह