युधिष्ठिरः-
युधिष्ठिरः-
दर्शने कीदृशस्स्नेहस्संवासे च पितामह
संशयो मे महाप्राज्ञ सुमहान्सागरोपम
महाभाग्यं गवां चैव तन्मे ब्रूहि यथातथम्
तं मे शृणु महाबाहो श्रुत्वा व्याख्यातुमर्हसि
भीष्मः-
हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते
कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो
नहुषस्य च संवादं महर्षेश्च्यवनस्य च
रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि
पुरा महर्षिश्च्यवनो भार्गवो नाम भारत
ब्राह्म बले सुपूर्णानामेतेषां च्यवनादिनाम्
उदवासकृतारम्भो बभूव स महाव्रतः
कथमेष समुत्पन्नो रामस्सत्यपराक्रमः
निहत्य मानं कामं च प्रहर्षं क्रोधमेव च
कथं ब्रह्मर्षिवंशे स क्षत्रधर्मा व्यजायत
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः
तदस्य सम्भवं राजन्निखिलेनानुकीर्तय
कौशिकश्च कथं वंशात्क्षात्राद्वै ब्राह्मणोऽभवत्
आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम्
अहो प्रभावस्सुमहानासीद्वै सुमहात्मनोः
जलेचरेषु सत्त्वेषु शीतहाऽग्निरिव प्रभुः
रामस्य च नरव्याघ्र विश्वामित्रस्य चैव हि
स्थाणुभूतश्शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च
कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत्
गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह
एष दोषो महाप्राज्ञ तन्मे व्याख्यातुमर्हसि
भीष्मः-
गङ्गायमुनयोर्वेगं सुभीमं सुमहास्वनम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रतिजग्राह सहसा वातवेगसमं जवे
च्यवनस्य च संवादं कुशिकस्य च भारत
गङ्गा च यमुना चैव सरितश्च तथाऽनुगाः
एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा
प्रदक्षिणमृषिं चक्रुर्न चैनं प्रत्यपीडयन्
आगामिनं महाबुद्धिस्स्ववंशे मुनिपुङ्गवः
अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः
सश्चित्य मनसा सर्वं गुणदोषबलाबलम्
पुनश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ
दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः
च्यवनः-
जलौकसां च सत्त्वानां बभूव प्रियदर्शनः
च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत्
उपाजिघ्रन्ति च तदा मत्स्यास्तं हृष्टमानसाः
वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ
तत्रापि वसतः कालस्समतीतोऽभवन्महान्
कुशिकः-
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः
भगवन्सहधर्मोऽयं पण्डितैरिह चर्यते
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते
प्रदानकाले कन्याया मुच्यते सर्वदा बुधैः
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चयाः
यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन
व्यायता बलिनश्शूरास्सलिलेष्वनुवर्तिनः
तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि
भीष्मः-
अथासनमुपादाय च्यवनस्य महामुनेः
अभ्याययुश्च तं देशं निश्चिता जालकर्मणि
कुशिको भार्यया सार्धमाजगाम महामुनिम्
जालं ते योजयामासुर्नवसूत्रकृतं दृढम्
प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत्
मत्स्योद्धरणमाकर्षस्तदा भरतसत्तम
कारयामास सर्वाश्च क्रियास्तस्य महात्मनः
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः
जालं तु विततं तेषां नवसूत्रकृतं तथा
ततस्स राजा च्यवनं मधुपर्कं यथाविधि
विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम्
गङ्गायमुनयोर्वारि जालेनावकिरन्ति ते
प्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः
कुशिकः-
सत्कृत्य स तथा विप्रमिदं वचनमब्रवीत्
भगवन्परवन्तस्स्मो ब्रूहि किं करवावहे
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम्
यदि राज्यं यदि धनं यदि गास्संशितव्रत
प्रकीर्य सर्वतस्सर्वे जालं चकृषिरे तदा
यज्ञदानानि च तथा ब्रूहि मे किं ददामि ते
अभीतरूपास्संहृष्टास्तेऽन्योन्यवशवर्तिनः
इदं गृहमिदं राज्यमिदं धर्मासनं च ते
बबन्धुस्तत्र मत्स्यांश्च तथाऽन्याञ्जलचारिणः
राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवांस्त्वया
भीष्मः-
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम्
एवमुक्ते तदा वाक्ये च्यवनो भार्गवस्तदा
आकर्षन्त महाराज जालेनाथ यदृच्छया
कुशिकं प्रत्युवाचेदं मुदा परमया युतः
च्यवनः-
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम्
न राज्यं कामये राजन्न च धर्मं न योषितः
लग्नं शङ्खगणैर्गात्रैः कोलैश्चित्रैरिवावृतम्
न च गा न च ते देशान्न यज्ञाञ्ज्ञायतामिदम्
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम्
नियमं किञ्चिदारप्स्ये युवयोर्यदि रोचते
सर्वे प्राञ्जलयो दाशाश्शिरोभिः प्रापतन्भुवि
परिचर्योपपन्नाभ्यां युवाभ्यामविशङ्कया
भीष्मः-
बन्धखेदपरित्रासाज्जालस्याकर्षणेन च
एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः
स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम्
प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत
बभूव कृपयाऽऽविष्टो निश्श्वसंश्च पुनःपनः
दाशाः-
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु
अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम्
करवाम वयं किं ते तन्नो ब्रूहि महामुने
गृहोद्देशं ततस्तत्र दर्शनीयमदर्शयत्
भीष्मः-
ऋषिः-
कौशिकः-
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत्
इयं शय्या भगवतो यथाकाममिहोष्यताम्
यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः
प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन
भीष्मः-
प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सदा
अथ सूर्योऽतिचक्राम तेषां संवदतां तथा
संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान्
अथर्षिश्चोदयामास पानमन्नं तथैव च
भीष्मः-
कौशिकः-
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः
तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा
सर्वे विवर्णवदना नहुषाय न्यवेदयन्
किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम्
भीष्मः-
भीष्मः-
नहुषस्तु ततश्श्रुत्वा च्यवनं तं तथा गतम्
ततस्स परया प्रीत्या प्रत्युवाच नराधिपम्
त्त्वरितः प्रययौ तत्र सहामात्यपुरोहितः
औपपत्तिकमाहारं प्रयच्छस्वेति भारत
तद्वचः पूजयन्नार्यस्तथेत्याह स पार्थिवः
सत्यव्रतं महात्मानं देवकल्पं विशां पते
यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिप
नहुषः-
करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि
ततस्स भगवन्भुक्त्वा दम्पती प्राह धर्मवित्
सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम्
स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिह प्रभो
च्यवनः-
श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः
ततश्शय्यागृहं प्राप्य भगवानृषिसत्तमः
मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैस्सह
संविवेश नरेन्द्रस्तु सपत्नीकस्स्थितोऽभवत्
नहुषः-
सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित
न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः
निष्क्रयार्थं भगवतो यथाऽऽह भृगुनन्दनः
संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि
च्यवनः-
सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप
अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित्
सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु
न प्राबोधयतां तं च तौ तदा रजनीक्षये
नहुषः-
सहस्राणां शतं विप्र निषोदेभ्यः प्रदीयताम्
यथाद्देशं महर्षेस्तु शुश्रूषापरमौ तदा
स्यादेतत्ते भगवन्मूल्यं किं वाऽन्यन्मन्यते द्विज
बभूवतुर्महाराज प्रयतौ चाथ दम्पती
च्यवनः-
नाहं शतसहस्रेण निमेयः पार्थिवर्षभ
ततस्स भगवान्विप्रस्समादिश्य नराधिपम्
दीयतां सदृशं मूल्यं सहामात्यैर्विचिन्तय
सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम्
नहुषः-
कोटिः परा हिता मूल्यं निषादेभ्यः प्रदीयताम्
स तु राजा निराहारस्सभार्यः कुरुनन्दन
एभिस्तदपि नौपम्यमतो भूयः प्रदीयताम्
पर्युपास्त सुसंहृष्टश्च्यवनाराधने रतः
च्यवनः-
राजन्नार्हाम्यहं कोटिं भूयोऽपि च महाद्युते
भार्गवस्तत उत्तस्थौ स्वयमेव तपोधनः
सदृशं दीयतां मूल्यं ऋषिभिस्सह चिन्तय
न किञ्चिदुक्त्वा तु गृहान्निश्चक्राम महामुनिः
नहुषः-
अर्धं राज्यं समग्रं वा निषादेभ्यः प्रदीयताम्
तमन्वगच्छतां तौ तु क्षुधितौ श्रमपीडितौ
एतत्तुल्यमहं मन्ये किं वाऽन्यन्मन्यसे द्विज
भार्यापती मुनिश्रेष्ठो न च तावभ्यवारयत्
च्यवनः-
अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव
तयोस्तु प्रेक्षतोरेवं भार्गवाणां कुलोद्वहः
सदृशं दीयतां मूल्यमृषिभिस्सह चिन्तय
अन्तर्हितोऽभूद्राजेन्द्र ततो राजाऽपतत्क्षितौ
भीष्मः-
महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः
ततो मुहूर्तादाश्वस्य सह देव्या महामुनेः
चिन्तयामास स तदा सहामात्यपुरोहितः
पुनरन्वेषणे यत्नमकरोत्स महीपतिः
तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः
नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः
स तमाभाष्य राजानमब्रवीद्द्विजसत्तमः
गविजातः-
तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति
नाहं मिथ्यावचो ब्रूयां खैरेष्वपि कुतोऽन्यथा
भवतो यदहं ब्रयां तत्कार्यमविशङ्कया
नहुषः-
ब्रवीतु भगवान्मूल्यं महर्षेस्सदृशं प्रभो
परित्रायस्व मामस्मद्विषयं च कुलं च मे
हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम्
किं पुनर्मानवं हीनं बाहुवीर्यपरायणम्
अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः
प्लवो भव महर्षे त्वं कुरु मूल्यस्य निश्चयम्
भीष्मः-
नहुषस्य वचश्श्रुत्वा गविजातः प्रतापवान्
उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम्
गविजातः-
ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम्
एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति
अनर्घार्हा महाराज द्विजा वर्णमहत्तमाः
गावश्च पृथिवीपाल गौर्मूल्यं तु प्रकल्प्यताम्
भीष्मः-
नहुषस्तु ततश्श्रुत्वा महर्षेर्वचनं नृप
हर्षेण महता युक्तस्सहामात्यपुरोहितः
अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम्
इदं प्रोवाच नृपतिर्वाचा सन्तर्पयन्निव
नहुषः-
उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव
एतन्मूल्यमहं मन्ये तव धर्मभृतां वर
च्यवनः-
उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ
गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव
गवां प्रशस्यते विप्रैस्सर्वपापहरं शिवम्
गावो लक्ष्म्यास्सदा मूलं गोषु पाप्मा न विद्यते
अन्नमेव सदा गावो देवानां परमं हविः
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ
गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य वै मुखम्
अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च
अमृतास्यायनं चैतास्स्वर्गलोकनमस्कृताः
तेजसा वपुषा चव गावो वह्निसमा भुवि
गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम्
विराजयति तं देशं पाप्मानं चापकर्षति
गावस्स्वर्गस्य सोपानं गावस्स्वर्गेऽपि पूजिताः
गावः कामदुघा देव्या नान्यत्किञ्चित्पुरा स्मृतम्
भीष्मः-
इत्येतद्गोषु मे प्रोक्तं महात्म्यं पार्थिवर्षभ
गुणैकदेशवचनं शक्यं पारायणं न तु
निषादाः-
दर्शनं कथनं चैव सहास्माभिः कृतं मुने
सतां साप्तपदं मैत्रं प्रसादं नः कुरु प्रभो
हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः
एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान्
प्रसादयामहे विप्र भवन्तं प्रणता वयम्
अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम्
अत्यन्तापदि मग्नानां परित्राणं हि कुर्वताम्
या गतिर्विदिता त्वद्य नरके शरणं भवान्
च्यवनः-
कृपणस्य च यच्चक्षुर्मुखमाशीविषस्य च
नरं समूलं दहति कक्षमग्निरिव ज्वलन्
प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः
दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैस्सह
भीष्मः-
ततस्तस्य प्रसादात्ते महर्षेर्भावितात्मनः
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः
ततस्स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान्
आरोहणं निषादानां मत्स्यानां चैव भारत
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः
वराभ्यामभिरूपाभ्यां छन्दयामासतुर्नृपम्
ततो राजा महावीर्यो नहुषः पृथिवीपतिः
परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम
ततो जग्राह धर्मेषु स्थितिमिन्द्रसमो नृपः
नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम्
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि
दर्शने यादृशस्स्नेहस्संवासे च युधिष्ठिर
महाभाग्यं गवां चैव तथा धर्मविनिश्चयम्
किं भूयः कथ्यतां तात किं ते हृदि विवक्षितम्