युधिष्ठिरः-
ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक्
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते
भीष्मः-
विप्रवादास्सुबहुशश्श्रूयन्ते पुत्रकारिणाम्
अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि
आत्मा पुत्रस्तु विज्ञेयः प्रथमो बहुधा परे
स्वे क्षेत्रे संस्कृते यस्तु पुत्रमुत्पादयेत्स्वयम्
तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम्
अग्निं प्रजापतिं चेष्ट्वा वराय प्रतिपादिता
पुत्रिका स्याद्दुहितरि सङ्कल्पेनापि वा सुतः
तल्पे जातः प्रमीतस्य क्लीबस्य पतितस्य वा
स्वधर्मेण नियुक्तो यस्स पुत्रः क्षेत्रजस्स्मृतः
माता पिता च दद्यातां यमद्भिः पुत्रमापदि
सदृशं प्रीतिसंयुक्तो विज्ञेयो दत्रिमस्सुतः
सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम्
पुत्रं पुत्रगुणैर्युक्तं विज्ञेयस्तु तु कृत्रिमः
उत्पद्यते यस्य गूढं न च ज्ञायेत कस्यचित्
स भवेद्गूढजो नाम तस्य स्याद्यस्य तल्पजः
मातापितृभ्यामुत्सृष्टस्तयोरन्यतरेण वा
यं पुत्रं प्रतिगृह्णीयादपविद्धस्स उच्यते
पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः
कानीनं तं वदन्नाम्ना वोढुः कन्यासमुद्भवः
या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती
वोढुस्स गर्भो भवति सहोढ इति उच्यते
या पत्या वा परित्यक्ता अथ वा स्वेच्छयाऽपि वा
उत्पादयेदक्षतायां स पौनर्भव उच्यते
मातापितृविहीनो वा त्यक्तो वा स्यादकारणात्
आत्मानं स्पर्शयेद्यस्तु स्वयन्दत्तस्स उच्यते
क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात्
स सुतस्तस्य सदृशः क्रीतो नाम बुधैस्स्मृतः
द्वादशैते परे प्राहुरेवं धर्मस्य पारगाः
आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः
नियुक्तजश्च विज्ञेयस्सुतः प्रसृतजस्तथा
पतितस्य तु भार्याया भर्त्रा सुसमचेतसा
तथा दत्तः कृतः पुत्रो वध्वोढश्च तथाऽपरः
षडपध्वंसजाश्चापि कानीनापशदास्तथा
इत्येते ते समाख्यातास्तान्विजानीहि भारत
युधिष्ठिरः-
षडपध्वंसजाः के स्युः के वाऽप्यपशदास्तथा
एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि
भीष्मः-
त्रिषु वर्णेषु ते पुत्रा ब्राह्मणस्य युधिष्ठिर
वर्णयोश्च द्वयोस्स्यातां यौ राजन्यस्य भारत
एको द्विवर्ण एवाथ तथाऽत्रैवोपलक्षितः
षडपध्वंसजास्ते तु तथैवापशदाञ्शृणु
चाण्डालो व्रात्यवर्णौ तु ब्राह्मण्यां क्षत्रियासु च
वैश्यायां चैव शूद्रस्य लक्ष्यास्तेऽपशदास्त्रयः
मागधो नामकश्चैव द्वौ वैश्यस्योपलक्षितौ
ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु
ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदास्स्मृताः
पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप
युधिष्ठिरः-
क्षेत्रजं केचिदेवाहुस्सुतं केचित्तु शुक्लजम्
तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह
भीष्म उवाच
रेतजो वा भवेत्पुत्रः पुत्रो वा क्षत्रेजो भवेत्
अध्यूढमेव समयं हित्वेत्येतान्निबोध मे
युधिष्ठिरः-
रेतजं विद्म वै पुत्रं क्षत्रेजस्यागमः कथम्
अध्यूढं विद्म वै पुत्रं भित्त्वा तु समयं कथम्
भीष्मः-
आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरात्
न तत्र कारणं रेतस्स क्षेत्रस्वामिनो भवेत्
पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते
तत्र क्षेत्रं प्रमाणं स्यान्नैव तत्रात्मजस्सुतः
अन्यस्स क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ
न ह्यात्मा शक्यते हन्तुं दृष्टान्ताय गतो ह्यसौ
क्वचिच्च कुतकः पुत्रस्सङ्ग्रहादेव लक्ष्यते
न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर
युधिष्ठिरः-
कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते
शुक्लं क्षेत्रं प्रमाणं वा यत्र लक्ष्यं न भारत
भीष्मः-
मातापितृभ्यां सन्नयस्तं पथि जन्तुं प्रलक्षयेत्
न चास्य मातापितरौ ज्ञायेतां स हि कृत्रिमः
अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रति लक्ष्येत्
सवर्णस्तं च पोषेत सवर्णस्तस्य जायते
युधिष्ठिर उवाच
कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम्
देया कन्या कथं चेति तन्मे ब्रूहि पितामह
भीष्मः-
आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा
त्यक्तो मातापितृभ्यां यस्सवर्णं प्रतिपद्यते
ततोऽस्य वर्णस्तस्य कुर्यात्संस्कारमच्युत
अथ कन्या तु देया स्यात्तद्वर्णेन युधिष्ठिर
संस्कृत्य मातृगोत्रेण मातृवर्णविनिर्णये
कानीनोऽध्यूढजौ वाऽपि विज्ञेयौ पुत्रकिल्बिषौ
तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः
आत्मवद्वै प्रयुञ्जीरन्संस्कार ब्राह्मणादयः
क्षेत्रजो वाऽप्यपशदो येऽध्यूढास्तेषु चाप्यथ
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं पदृस्यते
एतत्ते सर्वमाख्यातं किं भूयः कथ्यतामिति