युधिष्ठिरः-
अर्थाश्रयाद्वा कामाद्वा वर्णानां वाऽप्यनिर्णयात्
अज्ञानाद्वाऽपि वर्णानां जायते वर्णसङ्करः
तेषाञ्चानेन विधिना जातानां वर्णसङ्करे
को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह
भीष्मः-
चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम्
असृजत्स स यज्ञार्थैः पूर्वमेव प्रजापतिः
भार्याश्चतस्रो विप्रस्य द्वयोरात्माऽस्य जायते
आनुपूर्व्याच्च द्वौ हीनौ मातृजन्यौ प्रसूयतः
वरोंशभाग्ब्राह्मणस्यैव पुत्रश्शूद्रापुत्रं पारशवं तमाहुः
शुश्रूषकस्स्वस्य कुलस्य स स्यात्स्वं चारित्रं नित्यमथो न जह्यात्
सर्वानुपायानपि सम्प्रधार्य समुद्धरेत्स्वस्य कुलस्य तन्तुम्
ज्येष्ठो यवीयानपि स द्विजस्य शुश्रूषिता दानपरायणस्स्यात्
तिस्रः क्षत्रियसम्बन्धाद्द्वयोरात्माऽस्य जायते
हीनवर्णास्तृतीयायां शूद्रा उग्रा इति स्मृतः
द्वे चापि भार्ये वैश्यस्य द्वयोरात्माऽस्य जायते
शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते
ततोऽविशिष्टोऽप्यधमो गुरुदारप्रधर्षकः
ब्राह्यं वर्णं जनयति चातुर्वर्ण्याद्विगर्हितम्
अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोत्रक्रियापरम्
वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम्
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम्
ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनाः
एते मतिमतां श्रेष्ठ वर्णसङ्करजा प्रभो
वन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः
शूद्रान्निषादो मत्स्यघ्नः क्षत्रियाया व्यतिक्रमात्
शूद्रादायोगवश्चापि वैश्यायां ग्राम्यधर्मतः
ब्राह्मणैरप्रतिग्राह्यः क्षत्ता सवनजीवनः
एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु
मातृजात्या प्रसूयन्ते प्रहीना हीनयोनिषु
यथा चतुर्षु वर्णेषु द्वयोरात्माऽस्य जायते
आनन्तर्यात्प्रजायन्ते यथा बाह्या प्रधानतः
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु
परस्परस्य वर्तन्ते जनयन्ति विगर्हितान्
तथा च शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते
एवं बाह्यतरं चापि चातुर्वर्ण्यात्प्रसूयते
प्रतिलोमं तु वर्तन्ते बाह्यं बाह्यतरं पुनः
हीना हीनान्प्रसूयन्ते वर्णाः पञ्चदशैव ते
अगम्यागमनाच्चैव वर्धते वर्णसङ्करः
व्रात्यानामत्र जायन्ते सलिन्ध्र्या मागधीषु च
प्रसाधनोपचारज्ञमदासं दासजीवनम्
क्षत्ता ह्यायोगवं सूते क्रूरं मायोपजीवनम्
मैत्रेयकं च वैदेहं सम्प्रसूतेऽथ माध्यकम्
निषादो मुद्गरं सूते दाशं नावोपजीविनम्
मृतपं चापि चाण्डालश्श्वपाकमितिकुत्सिनम्
चतुरो मागधी सूते क्रूरान्मायोपजीविनः
मांसं स्वादुकरं सूदं सौगन्धमिति सञ्ज्ञितम्
वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम्
निषादमुद्गरं चापि खरयानप्रयायिनम्
चण्डालात्पुल्कसं चापि खराश्वगजभोजनम्
मृतचेलपरिच्छन्नं भिन्नभाजनभोजिनम्
आयोगवीषु जायन्ते हीनवर्णास्तु ते त्रयः
क्षुद्रो वैदेहकादन्धो बहिर्ग्रामप्रतिश्रयः
कारावनो निषाद्यां तु चर्मकारात्प्रसूयते
चाण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान्
आहिण्डको निषादेन वैदेह्यां वै प्रसूयते
चण्डालात्पाण्डुसौपाको मलव्यसनवृत्तिमान्
निषादी चापि चण्डालात्पुत्रमन्तावसायिनम्
श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम्
इत्येतात्सङ्करा जात्यः पितृमातृव्यतिक्रमात्
प्रच्छन्ना वा प्रकाशा वा वेदितव्यास्स्वकर्मभिः
चतुर्णामेव वर्णानां धर्मो नान्यत्र विद्यते
वर्णानामविरुद्धेषु सञ्ज्ञानार्हेषु कस्यचित्
यदृच्छयोपसम्पन्नैर्यज्ञसाधुबहिष्कृतैः
बाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम्
चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च
कार्ष्णायसमलङ्कारं परिगृह्य च नित्यशः
वसेयुरेतैर्विज्ञाता वर्तयन्तस्स्वकर्मभिः
युञ्जन्ते चाप्यलङ्कारांस्तथोपकरणानि च
गोब्राह्मणार्थे साहय्यं कुर्वाणा वै न संशयः
आनृशंस्यमनुक्रोशस्सत्यवाक्यमथ क्षमा
स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम्
भवति मनुजव्याघ्र सत्यं मे नास्ति संशयः
यथोपदेशं परिकीर्तितासु नरः प्रजायेत विचार्य बुद्धिमान्
विहीनयोनिर्हि सुतोऽवसादयेत्तितीर्षमाणं यथोपलः
अविद्वांसं बलाल्लोके विद्वांसमपि वा पुनः
नयन्ते ह्युपथं नार्यः कामक्रोधवशानुगम्
स्वभावश्चैव नारीणां नराणामिह दूषणम्
रत्यर्थं न प्रवर्तन्ते प्रमदासु विपश्चितः
युधिष्ठिरः-
वर्णापेतमविज्ञातं नरं कल्मषयोनिजम्
आर्यरूपमिवानार्यं कथं विद्यामहे वयम्
भीष्मः-
योनौ त्वकल्मषे जाता नानाचारसमाहिताः
कर्मभिस्सज्जनाचीर्णैर्विज्ञेयाश्शुद्धयोनिकाः
अनार्यत्वमनाचारः क्रूरत्वं निर्दयात्मता
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्
पित्र्यं वा भजते शीलं मातृजं वाऽथ चोभयम्
कथञ्च स न सङ्कीर्णः प्रकृतिं स्वां नियच्छति
यथैव सदृसो रूपे मातावित्रोः प्रजायते
व्याघ्रबिन्दोस्तथा योनिं पुरुषस्स्वां नियच्छति
कुलेस्रोतसि विच्छिन्ने यस्य स्याद्योनिसङ्करः
संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु
आर्यरूपसमाचारं चरन्तं कृतके पथि
सवर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये
नानावृत्तेषु भूतेषु नानाकर्मरतेषु च
जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते
शरीरमिह सत्त्वेन नरस्य परिकृष्यते
ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत्
आत्मानमाख्याति हि कर्मभिर्नरस्स्वशीलचारित्रकृतैश्शुभाशुभैः
प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशीकुरुते स्वकर्मभिः
योनिष्वेतासु सर्वासु सङ्कीर्णास्वितरासु च
यत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत्