युधिष्ठिरः-
सर्वशास्त्रविधानज्ञ राजर्षे धर्मवित्तम
अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ
कश्चित्तु संशयोऽस्माकं तन्मे छिन्धि पितामह
अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम्
यथा च येन कर्तव्यं धर्मससनातनः
एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति
चतस्रो विहिता भार्या ब्राह्मणस्य पितामह
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः
तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम
आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति
केन वा किं ततो ग्राह्यं पितृवित्तात्पितामह
एतदिच्छामि कथितुं विभागस्तेषु कस्स्मृतः
भीष्मः-
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर
वैषम्यादथ लोभात्कामाद्वाऽपि परन्तप
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टा न तु स्मृता
शूद्रां शयनमारोप्य ब्राह्मणः पतितो भवेत्
प्रायश्चित्तीयते चापि विधिदृष्टेन कर्मणा
तत्र जातेषु पुत्रेषु विगुणस्य युधिष्ठिर
अतस्ते नियमं वित्ते सम्प्रवक्ष्यामि भारत
दशधा प्रविभक्तस्य धनस्यैव भवेत्क्रमः
सवर्णासु प्रजातानां समान्भागान्प्रकल्पयेत्
अब्राह्मणं तु मन्यन्ते शूद्रापुत्रं तु भारत
आनृशंस्यं परो धर्म इति तस्मै प्रदीयते
यदि वाप्येकपुत्रस्स्यादपुत्रो यदि वा भवेत्
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत
स्मृत एकश्चतुर्भागः कन्याभागस्तु धर्मतः
अभ्रातृका समग्राहा चार्धास्येत्यपरे विदुः
त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु
यजेत तेन द्रव्येण न वृथा साधयेद्धनम्
त्रिसहस्रपरो दायस्स्त्रिया देयो धनस्य वै
तच्चतुर्धा धनं दत्तं नादत्तं भोक्तुमर्हति
स्त्रीणां तु पतिदायाद्यमुपभोगफलं धनम्
नापहारं स्त्रियः कुर्युः पितृवित्तात्कथञ्चन
स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर
ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथाऽस्य सा
सा हि पुत्रसमा राजन्विहिता कुरुनन्दन
एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ
एवं धर्ममनुस्मृत्य न वृथा साधयेद्धनम्
युधिष्ठिरः-
शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनस्स्मृतः
केन प्रतिविशेषेण दशमो हस्य दीयते
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणस्स्यान्न संशयः
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि
कस्मात्ते विषमं भागं भजेरन्नृपसत्तम
यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति
भीष्मः-
दारा इत्युच्यते लोके नाम्नैकेन परन्तप
प्रोक्तेन चैकनाम्नाऽयं विशेषस्सुमहान्भवेत्
तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम्
सा च ज्येष्ठा सा च पूज्या सा च ताभ्यो गरीयसी
स्नानं प्रसाधनं भर्तुर्दन्तधावनमुञ्जनम्
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं गृहे भवेत्
न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति
ब्राह्मणीत्वेव कुर्याद्ब्राह्मणस्य युधिष्ठिर
अन्नं पानं च माल्यं च वासांस्याभरणानि च
ब्राह्मण्यैतानि देयानि भर्त्रा सा हि गरीयसी
मनुना विहितं शास्त्रं यच्चापि कुरुनन्दन
धात्राऽप्येष महाराज दृष्टो धर्मस्सनातनः
अथ चेदन्यथा कुर्याद्यथाकामं युधिष्ठिर
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः
ब्राह्मण्यास्सदृशः पुत्रः क्षत्रियायाश्च यो भवेत्
राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि
न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत्
ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम
भूयोऽपि भूयसा भाव्यं पितृवित्ताद्युधिष्ठिर
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत्
क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत्
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर
विहिता दृश्यते राजन्सागरान्तां च मेदिनी
क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम्
राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात्
ब्राह्मणा हि महाभाग देवानामपि देवताः
तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम्
प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम्
लुप्यमानास्स्वधर्मेण क्षत्रियो रक्षति प्रजाः
दस्युभिर्ह्रियमाणं च धनं दारांश्च सर्वशः
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः
भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः
भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर
युधिष्ठिरः-
उक्तो विभागो विधिवद्ब्राह्मणस्वे पितामह
इतरेषां तु वर्णानां कथं तु नियमो भवेत्
भीष्मः-
क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन
तृतीया या भवेच्छूद्रा न तु दृष्टा न तु स्मृता
एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर
अष्टधा तु भवेत्कार्यं क्षत्रियाणां युधिष्ठिर
क्षत्रियाया हरेत्पुत्रश्चतुरोंशान्पितुर्धनात्
युद्धावहारिकं यच्च पितुस्स्यात्स हरेत्तु तत्
वैश्यापुत्रस्तु भागांस्त्रीञ्शूद्रापुत्रस्तथाष्टमम्
सोऽपि दत्तं हरेत्पित्रा नादत्तं कर्तुमर्हति
एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन
द्वितीया या भवेच्छूद्रा न तु दृष्टा न तु स्मृता
वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ
शूद्रायाश्चैव कौन्तेय तयोर्विनियमस्स्मृतः
पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ
तयोरपीह वक्ष्यामि विभागं च जनाधिप
वैश्यापुत्रेण हर्तव्याश्चत्वारोंशाः पितुर्धनात्
पञ्चमस्तु भवेद्भागश्शूद्रापुत्राय भारत
सोऽपि दत्तं हरेत्पित्रा नादत्तं कर्तुमर्हति
त्रिभिर्वर्णैस्तथा जातश्शूद्रो देयधनो भवेत्
शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथञ्चन
शूद्रस्य समभागस्स्याद्यदि पुत्रशतं भवेत्
जातानां समवर्णासु पुत्राणामविशेषतः
सर्वेषामेव वर्णानां समो भागोऽयमीप्सितः
ज्येष्ठस्य भागो ज्येष्ठस्स्यादेकांशो यः प्रधानतः
एष दायविधिः पार्थ पूर्वमुक्तस्स्वयम्भुवा
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप
विवाहवैषम्यकृतः पूर्वपूर्वो विशिष्यते
हरेज्ज्येष्ठः प्रधानांशमेकभार्यासुतेष्वपि
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम्
एवं जातिषु सर्वासु सवर्णज्येष्ठतां गतः
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत्