युधिष्ठिरः-
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह
भीष्मः-
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः
कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च
अद्भिरेव प्रदातव्या कन्या गुणवते भवेत्
ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर
आर्षेण चावहेदेवं यो दद्यादनुकूलिने
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः
अप्यभिप्रेतमुत्सृज्य कन्याभिप्रेत एष सः
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर
गान्धर्वमिति तं धर्मं आहुर्धर्मविदो जनाः
धनेन बहुधा क्रीत्वा सम्प्रलोभ्य च बान्धवान्
असुराणां नृपाणां वै धर्ममाहुर्मनीषिणः
हत्वा च्छित्त्वा च शीर्षाणि रुदतीं सुदतीं गृहात्
प्रसह्याहरणं तात राक्षसं धर्मलक्षणम्
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोगच्छति
स पापिष्ठो विवाहानां पैशाचः कथितोऽधमः
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः
तिस्त्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु
वैश्यस्स्वजातिं विन्देत तास्वपत्यं हितायति
द्विजस्य ब्राह्मणी श्रेष्ठा क्षत्रिया क्षत्रियस्य तु
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः
शूद्रायां जनयविन्प्रः प्रायश्चित्तमवाप्नुयात्
नातिबालां वहन्त्यन्ते अनित्यत्वात्प्रजार्थिनः
वहन्ति कर्मिणस्तस्यामन्तश्शुद्धिव्यपेक्षया
अपरान्वयसम्भूतां दुस्वप्नादिविवर्जिताम्
कामो यस्यां निषिद्धश्च केचिदिच्छन्ति चापदि
त्रिंशद्वर्षो दशवर्षां यो विन्देत न नग्निकाम्
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात्
यस्यास्तु न भवेद्भ्राता पिता माता च भारत
नोपयच्छेत तां जातु पुत्रिकाधर्मिका हि सा
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती
चतुर्थेऽत्वथ सम्प्राप्ते स्वयं भर्तारमव्रजेत्
प्रजानो हीयते तस्या रतिश्च भरतर्षभ
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः
असपिण्डा च या मातुरसगोत्रा च या पितुः
इत्येतामुपयच्छेत तं धर्मं मनुरब्रवीत्
युधिष्ठिरः-
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत्
पाणिं ग्रहीता त्वन्यस्स्यात्कस्य कन्या पितामह
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्
भीष्मः-
यत्किञ्चित्कर्म मानुष्यं सन्तानाय प्रवर्तते
मन्त्रवन्मन्त्रततस्या मृषावादस्त्वपातकः
भार्यापत्यृत्विगाचार्याश्शिष्योपाध्याय एव च
मृषोक्तौ दण्डमर्हन्ति नेत्याहुरपरे जनाः
न ह्यकामेन संवादं मनुरेवं प्रशंसति
अयशस्यमधर्म्यं च यन्मृषा धर्मगोपनम्
नैकान्तदोष एकस्मिन्नुद्यानेनोपलभ्यते
धर्मतो यां प्रयच्छन्ति यां वा क्रीणन्ति भारत SV-13-01-040-027c
तदा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन
यस्त्वत्र मन्त्रस्समये भार्यापत्योर्मिथः कृतः
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात्
स दैवी मानुषीं वाचमनृतां पर्युदस्यति
युधिष्ठिरः-
कन्यायां प्राप्तसुल्कायां ज्यायांश्चेदाव्रजेद्वरः
धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा
तस्मिन्नुभयतो दोषे कुर्वञ्श्रेयस्समाचरेत्
अयं तु सर्वधर्माणां धर्मश्चिन्त्यतमो मतः
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम्
भीष्मः-
नै व निष्ठाकरं शुल्कं जात्वासीत्तेन नानृतम्
न हि शुल्कपरास्सन्तः कन्यां ददति कर्हिचित्
अन्यैर्गुणैरुपेतं तु शुल्कं वाञ्छन्ति बान्धवाः
अलङ्कृतां वहस्वेति यो दद्यादनुकूलतः
तच्च तावद्ददात्येवं न शुल्कं विक्रयो हि सः
प्रतिगृह्य भवेद्देयमेष धर्मस्सनातनः
दास्यामि भवते कन्यामिति पूर्वं न भाषितम्
ये चावाहुर्ये च नाहुर्ये ये चावश्यं ददत्युत
तस्मादाग्रहणात्पाणेर्येवदन्ति परस्परम्
कन्यावरः पुरा दत्तो मरुद्भिरिति नश्श्रुतम्
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदना
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः
समीक्ष्य च बहून्दोषान्संवादे विद्विषाणयोः
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु
अहं विचित्रवीर्यस्य द्वे कन्ये समुदावहम्
जित्वाऽङ्गमागधान्सर्वान्काशीनपि च कोसलान्
गृहीतपाणिरेकाऽऽसीत्प्राप्तशुल्काऽपराऽभवत्
पाणौ गृहीता तत्रैव विसर्ज्या इति मे पिता
अब्रवीदितरां कन्यामावहत्स तु कौरवः
अप्यन्याननुपप्रच्छ शङ्कमानः पितुर्वचः
अतीव ह्यस्य धर्मेप्सा भ्रातुर्मेऽभ्यधिकाऽभवत्
ततोऽहमब्रवं राजन्नाचारेप्सुरिदं वचः
आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः
ततो मयैवमुक्ते तु वाक्ये वाक्यविदां वरः
पिता मम महाराज बीह्लीकोः वाक्यमब्रवीत्
यदि व शुल्कतो निष्ठा न पाणिग्रहणं तथा
लाजोप्तारमुपासीत प्राप्तशुल्क पतिव्रता
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतस्स्मृति
येषां वै शुल्कतो निष्ठा न पाणिग्रहणं ततः
प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः
नैव तेभ्यः प्रदातव्या न विक्रेया कथञ्चन
ये च क्रीणन्ति दासीवद्ये च विक्रीणते द्विजाः
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम्
अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः
जनाः-
कन्यायां प्राप्तशुल्कायां शुल्कदः प्रवसेद्यदि
पाणिं ग्रहीता नान्यस्स्यादत्र नो धर्मसंशयः
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसत्तमः
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्
भीष्मः-
तानेवं ब्रुवतस्सर्वान्सत्यवान्वाक्यमब्रवीत्
सत्यवान्-
यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा
कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः
देवरं प्रविशेत्कन्या तप्येद्वाऽपि महत्तपः
तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा
लिखत्वैव तु केषाञ्चिदपरेषां शतैरपि
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः
तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते
सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे
पाणिग्रहस्य भार्याय यस्याचाद्भिः प्रदीयते
अनुकूलामनुवशां भ्रात्रा दत्तामुपापिकाम्
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः