भीष्मः-
एवमेतन्महाबाहो नास्ति मिथ्याऽत्र किञ्चन
यथा ब्रवीषि कौरव्य नारीं प्रति नराधिप
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
यथा रक्षा कृता पूर्वं विपुलेन महात्मना
प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ
यदर्थं तच्च ते तात प्रवक्ष्याे भरतर्षभ
न हि स्त्रीभ्यः परं पुत्र पापीयः किञ्चिदस्ति वै
अस्ति हि प्रमदा दीप्ता माया च मयजा विभो
क्षुरधारा विषं सर्पो मृत्युरित्येकतस्स्त्रियः
इमाः प्रजा महाबाहो धार्मिका इति नश्श्रुतम्
स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम्
अथाभ्यागच्छन्देवास्ते पितामहमरिन्दम
निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः
तेषामन्तर्गतं ज्ञात्वा देवानां प्रपितामहः
मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः
पूर्वसर्गे हि कौन्तेय साध्व्यो नार्य इहाभवन्
असाध्व्यस्तु समुत्पन्नाः कृत्यासर्गात्प्रजापतेः
ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः
ताः कामलुब्धाः प्रमदाः प्रामथ्नन्ति नरांस्तदा
क्रोधं कामस्य देवेशस्सहायं चासृजत्प्रभुः
असज्जन्त प्रजास्तस्मात्कामक्रोधवशङ्गताः
द्विजानां च गुरूणां च महागुरुनृपादिनाम्
क्षणात्स्त्रीसङ्गकामोत्था यातनाऽहो निरन्तरा
अरक्तमनसां नित्यं ब्रह्मचर्यामलात्मनाम्
तपोदमार्चनाध्यानयुक्तानां शुद्धिरुत्तमा
न च स्त्रीणां क्रिया काश्चिदिति धर्मो व्यवस्थितः
निरिन्द्रिया ह्यमन्त्राश्च स्त्रियो नित्यमिति श्रुतिः
शय्यासनमलङ्कारमन्नपानमनार्यताम्
दुर्वाग्भावं रतिश्चैव ददौ स्त्रीभ्यः प्रजापतिः
न तासां रक्षणं कर्तुं पुंसां शक्यं कथञ्चन
अपि विश्वकृता तात कुतस्तु पुरुषैरिह
वाचा वाऽप्यथ बन्धैर्वा क्लेशैर्वा विविधैस्तथा
न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः
इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रतवानहम्
यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियाः
ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः
तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि
तस्या रूपेण सम्मत्ता देवगन्धर्वदानवाः
विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः
नारीणां चरितज्ञश्च देवशर्मा महाद्युतिः
यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत
पुरन्दरं च जानंश्च परस्त्रीकामचारिणम्
तस्माद्यत्नेन भार्याया रक्षणं स चकार ह
स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा
भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत्
रक्षाविधानं मनसा स विचिन्त्य महातपाः
आहूय दयितं विप्रं विपुलं प्राह भार्गवम्
देवशर्मा-
यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः
पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम्
अप्रमत्तेस्य ते भाव्यं सदा प्रति पुरन्दरम्
स तु रूपाणि कुरुते विविधानि भृगूद्वह
भीष्मः-
इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः
सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः
धर्मज्ञस्सत्यवादी च तथेति प्रत्यभाषत
पुनश्चैनं महाराज परिपप्रच्छ तं गुरुम्
विपुलः-
कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने
वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि
भीष्मः-
ततस्तु भगवांस्तस्मै विपुलाय महात्मने
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत
देवशर्मा-
बहुमायस्स विप्रर्षे बलहा पाकशासनः
तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः
किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः
भवत्यथ मुहूर्तेन चण्डालसमदर्शनः
शिखी जटी चीरवासाः पुनर्भवति पुत्रक
बृहच्छरीरश्च कृशः पीवरोऽथ पुनः कृशः
श्यामः कृष्णश् गौरश्च वर्णं विकुरुते पुनः
विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च
प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च
प्रतिलोमोऽनुलोमश्च भवत्यथ शतक्रतुः
शुकवायसरूपी च हंसकोकिलरूपवान्
सिंहव्याघ्रगजानां च रूपं धारयते पुनः
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च
सुकृशो वायुभक्षश्च शकुनिर्विकृतस्तथा
चतुष्पाद्ब्रह्मरूपश्च पुनर्भवति भार्गव
ब्राह्मणः क्षत्रियश्चैव वैश्यश्शूद्रस्तथैव च
वायुभूतश्च स पुनर्देवराजो भवत्युत
मक्षिकामशकादीनां वपुर्धारयते तथा
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित्
अपि विश्वसृजा तात येन सृष्टमिदं जगत्
पुनरन्तर्हितश्शक्रो रंस्यते ज्ञानचक्षुषा
एवंरूपाणि कुरुते सततं पाकशासनः
तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम्
यथा रुचिं नवलिहेद्देवेन्द्रो मुनिसत्तस
क्रतावुपहितं न्यस्तं हविश्श्वेव दुरात्मवान्
भीष्मः-
एवमाख्याय समुनिर्यज्ञकारोऽगमत्तदा
देवशर्मा महाभागस्ततो भरतसत्तम
विपुलस्तु वचश्श्रुत्वा गुरोश्चिन्तापरोऽभवत्
रक्षां च परमां चक्रे देवराजान्महाबलात्
किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणम्
मायावीह सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान्
नापिधायाश्रमं शक्यो रक्षितुं पाकशासनात्
कूटजं वा तथा ह्यस्य नानाविधसरूपता
वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत्
तस्मादिमां सम्प्रविश्य रुचिं स्थास्येऽहमद्य वै
अथ वा पौरुषेणेयं न शक्या रक्षितुं मया
बहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः
सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात्
गात्राणि गात्रैरस्याहं सम्प्रवेक्ष्येऽभिरक्षितुम्
यदा श्लिष्टामिमां पत्नीं मया पश्येत वै गुरुः
शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महाबलः
न चेयं रक्षितुं शक्या यथाऽन्या प्रमदा तथा
मायावीह सुरेन्द्रोऽसाविह प्राप्नोत्यसंशयम्
अवश्यं करणीयं हि गुरोरिह हि शासनम्
यदि त्विष्टमहं कुर्यामाश्चर्यं स्यात्कृतं मया
योगेनाहं प्रविश्येदं गुरुपत्न्याः कलेवरम्
असक्तः पद्मपर्णस्थो जलबिन्दुर्यथाऽचलः
एवमेव शरीरेऽस्या निवत्स्यामि समाहितः
भीष्मः-
इत्येवं धर्ममालोक्य वेदार्थांश्चैव सर्वशः
तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च
इति निश्चित्य मनसा रक्षां प्रति स भार्गवः
अतिष्ठत परं यत्नं यथावच्छृणु पार्थिव
गुरुपत्नीमुपासीनो विपुलस्सुमहातपाः
उपासीनामनिन्द्याङ्गी कथार्थैस्समलोभयत्
नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः
एवं स विपुलः कायं प्राविशत्पवनो यथा
लक्षणं लक्षणेनैव वदनं वदनेन च
अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः
ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेबरम्
उवास रक्षणे युक्तो न च सा तमबुध्यत
यं कालं नागतो राजन्गुरुस्तस्य महात्मनः
क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत
ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः
इदमन्तरमित्येव तदाऽभ्यागात्तदाश्रमम्
रूपमप्रतिमं कृत्वा लोभनीयं जनाधिपः
दर्शनीयतमो भूत्वा प्रविवेश तदाश्रमम्
स ददर्श तमासीनं विपुलस्य कलेबरम्
निश्चेष्टं स्तब्धनयनं यथाऽऽलेख्यगतं तथा
रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम्
पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम्
सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह
रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहैच्छत
उत्थातुकामा तु सती ह्यतिष्ठद्विपुलेन सा
निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम्
देवेन्द्रः-
तामाबभाषे देवेन्द्रस्साम्ना परमवल्गुना
त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते
क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पद्भवेन वै
तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते
भीष्मः-
तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः
गुरुपत्न्याश्शरीरस्थो ददर्श त्रिदशाधिपम्
न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता
वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा
आकारं गुरुपत्न्यास्तु स विज्ञाय स भृगूत्तमः
निजग्राह महातेजा योगेन बलवत्प्रभो
बबन्ध योगबन्धैश्च तस्यास्सर्वेन्द्रियाणि सः
निर्विकारां स दृष्ट्वैव पुनरेव शचीपतिः
उवाच व्रीहितो राजंस्तां योगबलमोहिताम्
एह्येहीति ततस्सा तं प्रतिवक्तुमियेष ह
स तां वाच्यं गुरोः पत्न्या विपुलः पर्यवर्तयत्
भोः किमागमने कृत्यमिति तस्याश्च निस्सृता
वक्त्राच्छशाङ्कप्रतिमद्वाणी संस्कारभूषणा
व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशं गदा
पुरन्दरस्तु सन्त्रस्तो बभूव विमनास्तदा
एतद्वैकृतमालक्ष्य देवराजो विशां पते
अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा
ददर्श च मुनिं तस्याश्शरीरान्तरगोचरम्
प्रतिबिम्बमिवादर्शे गुरुपत्न्याश्शरीरगम्
स तं घोरेण तपसा युक्तं दृष्ट्वा पुरन्दरः
प्रावेपत सुसन्त्रस्तो व्रीडितश्च तदा विभो
विमुच्य गुरुपत्नीं तां विपुलस्सुमहातपाः
स्वं कलेबरमाविश्य शक्रं भीतमथाब्रवीत्
विपुलः-
अजितेन्द्रिय दुर्बुद्धे पापात्मक पुरन्दर
न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा
किश्चैतद्विस्मृतं शक्र न तन्मनसि ते स्थितम्
गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः
जाने त्वां बालिशमतिमकृतात्मानमस्थिरम्
मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम्
नाहं त्वामद्य मूढात्मन्निर्दहेयं स्वतेजसा
कृपायमानस्तु न ते दग्धुमिच्छामि वासव
स च घोरतपा धीमान्गुरुर्मे पापचेतसम्
दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा
नैवं तु शक्र कर्तव्यं ननु मान्याश्च ते द्विजाः
मा गमस्सपुरामात्यो लयं ब्रह्मबलार्दितः
अमरोऽस्मीति यद्बुद्धिं एतामास्थाय वर्धसे
नावमंस्था न तपसामासाध्यं नाम विद्यते
भीष्मः-
तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः
न किञ्चिदुक्त्वा त्वरितं तत्रैवान्तरधीयत
याते मुहूर्ते शक्रे तु देवशर्मा महातपाः
कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम्
आगते तु गुरौ राजन्विपुलः प्रियकर्मकृत्
रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम्
अभिवाद्य च शान्तात्मा तं गुरुं गुरुवत्सलः
विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः
विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया
निवेदयामास तदा विपुलश्शक्रकर्म तत्
तच्छ्रुत्वा स मुनिस्तुष्टों विपुलस्य प्रतापवान्
बभूव शीलवृत्ताभ्यां तपसा नियमेन च
विपुलस्य तपोवृत्तिं भक्तिमात्मनि च प्रभुः
धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह
प्रतिनन्द्य च धर्मात्मा नित्यं धर्मपरायणः
वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः
अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः
तथैव देवशर्माऽपि सभार्यस्स महातपाः
निर्भयो बलवृत्रघ्नाच्चचार विजने वने
विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः
तपोयुक्तमथात्मानममन्यत च वीर्यवान्
स तेन कर्मणा स्वर्गं पृथिवीं पृथिवीपते
चचार गतभीः प्रीतो लब्धकीर्तिवरो नृषु
उभौ लोकौ जितौ राजन्नमन्यत महामुनिः
कर्मणा तेन कौरव्य तपसा विपुलेन च
अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन
रुच्या भगिन्या स्थानं तु बभूव धनधान्यवत्
एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना
बिभ्रती परमं रूपं जगामाथ विहायसा
तस्याश्शरीरात्पुष्पाणि पतितानि महीतले
तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत
पुष्पाणि तान्यगृह्णात्सा रुचिर्नलिनलोचना
तथा चित्रकस्तस्या ह्यङ्गेभ्यः क्षिप्रमागमत्
तस्या हि भगिनी तात स्मृता नाम्ना प्रभावती
भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै
पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी
आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहान्
पुष्पाणि तानि दृष्ट्वाऽथ तदाऽङ्गेन्द्रवराङ्गना
भगिनीं चोदयामास पुष्पार्थे चारुलोचनाम्
सा भर्त्रे सर्वमाचष्ट रुचिस्सुरुचिराङ्गना
भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत
ततो विपुलमानाय्य देवशर्मा महातपाः
पुष्पार्थं चोदयामास गच्छ गच्छेति भारत
विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः
स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह
यस्मिन्देशे तु तान्यासन्पतितानि नभस्स्थलात्
अथाम्लानानि तत्रासन्कुसुमान्यपराण्यपि
ततस्स तानि जग्राह दिव्यानि रुचिराण्यथ
प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत
सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः
ततो जगाम नगरीं चम्पां चम्पकमालिनीम्
स वने निर्जने तात ददर्श मिथुनं नृणाम्
चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम्
तत्रैकं तूर्णमगमत्तत्पदे परिवर्तयन्
एकं तु न तथा राजंस्चक्रतुः कलहं ततः
त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथा परः
पतितेति च तौ तात परस्परमथोचतुः
तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा
सहसोद्दिश्य विपुलं ततो वाक्यमथोचतुः
आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै
विपुलस्य परे लोके या गतिस्सा भवेदिति
विपुलः-
एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽवदत्
एतत्तीव्रतपाश्चायं कष्टश्चायं परिग्रहः
मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः
अनिष्टा सर्वभूतानां कीर्तिताऽनेन मेऽद्य वै
भीष्मः-
एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम
अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः
ततष्षडन्यान्पुरुषानक्षैः काञ्चनराजतैः
अपश्यद्दीव्यमानांश्च लोभामर्षान्वितांस्तदा
कुर्वतश्शपथं तं वै यः कृतो मिथुनेन वै
विपुलं वै समादिश्य तेऽपि वाक्यमथाब्रुवन्
पुरुषाः-
यो लोभमास्थायस्माकं विषमं कर्तुमुत्सहेत्
विपुलस्य परे लोके या गतिस्तामवाप्नुयात्
भीष्मः-
एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम्
जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः
सम्प्रदध्यौ महाजन्नग्नावग्निरिवाहितः
दह्यमानेन मनसा वचश्श्रुत्वा तथाविधम्
तत्र चिन्तयतस्तात बह्वीर्वाचो निशम्य तु
इदमासीन्मनसि च रुच्या रक्षणकारितम्
लक्षणं लक्षणेनैव वदनं वदनेन च
विधाय च मया चोक्तं सत्यमेतद्गुरोस्तथा
एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा
अमन्यत महाभाग तथा तच्च न संशयः
स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ
पूजयामास च गुरुं विधिवत्स गुरुप्रियः
तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत्
देवशर्मा महातेजा यत्तच्छृणु जनाधिप
देवशर्मा-
किं त्वया मिथुनं दृष्टं तस्मिन्नद्य महावने
ते त्वां जानन्ति निपुणा आत्मा च रुचिरेव च
विपुलः-
ब्रह्मर्षे मिथुनं किं तत्के च षट्पुरुषा विभो
ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि
देवशर्मा-
यद्वै तन्मिथुनं ब्रह्मिन्नहोरात्रं हि विद्धि तत्
चक्रवत्परिवर्तेत ते तज्जानाति दुष्कृतम्
ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत्
ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम्
न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत्
नरो मुह्यति पापात्मा पापकर्मा क्वचिद्द्विज
कुर्वाणं हि नरं क्षिप्रं पापं रहसि सर्वदा
पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत
त्वां तु वर्ष्मस्थितं दृष्ट्वा गुरोः कर्मानिवेदकम्
स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान्
अहोरात्रं विजानाति ऋतवश्चापि नित्यशः
पुरुषे पापकं कर्म शुभं वाऽशुभकर्म वा
तत्त्वया वै तथा कार्यं व्यभिचाराभयात्मकम्
नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज
ते चैव हि भवेयुस्ते लोकाः पापकृतां यथा
कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम्
तथाऽशक्याश्च दुर्वृत्ता रक्षितुं प्रमदा द्विज
न च त्वं कृतवान्किञ्चिदागः प्रीतोऽस्मि तेन ते
मनोदोषविहीनानां न दोषस्स्यात्तथा तव
अन्यथाऽऽलिङ्ग्यते कान्ता स्नेहेन दुहिताऽन्यथा
यतेश्च कामुकानां च योषिद्रूपेऽन्यथा मतिः
अशिक्षयैव मनसः प्रायो लोकस्तु वञ्च्यते
लालेत्युद्विजते लोको वक्त्रासव इति स्पृहा
अबन्धायोग्यमनसां यदि मन्त्रात्मदैवकम्
न रागस्नेहलोभान्धं कर्मिणां तन्महाफलम्
निष्कषायो विशुद्धस्त्वं रुच्यावेशान्न दूषितः
यदि त्वहं त्वां दुर्वृत्तमद्राक्षं द्विजसत्तम
शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा
सञ्जन्ते पुरुषे नार्यस्सोऽर्थः पुंसश्च पुष्कलः
अन्यथा रक्षतश्शापो भविष्यति मतिश्च मे
रक्षिता सा त्वया पुत्र मम चापि निवेदिता
अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि
भीष्मः-
इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः
मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः
इदमाख्यातवांश्चापि ममाख्यानं महाद्युतिः
मार्कण्डेयः पुरा राजन्गङ्गाकूले तथोन्तरे
तथा ब्रवीमि पार्थ त्वां स्त्रियस्सच्चासदैव च
उभयं दृश्यते स्त्रीषु सततं साध्वसाधु च
स्त्रियस्साध्व्यो महाभागास्सम्मता लोकमातरः
धारयन्ति महीं राजन्निमां सवनकाननाम्
असङ्ग्रह्याश्च दुर्वृत्ताः कुलघ्नाः पापनिश्चयाः
विज्ञेया लक्षणैर्दुष्टैस्स्वगात्रसहजैर्नृप
एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः
अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः
एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः
नासामस्ति प्रियो नाम मैथुने समो नृभिः
एताः कृत्याश्च कष्टाश्च कृतघ्ना भरतर्षभ
न चैकस्मिन्नमन्त्येताः पुरुषे पाण्डुनन्दन
नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर
खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि
अनृताविह पर्वादिदोषवर्जं नराधिप
विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन
सर्वथा राजशार्दूल युक्तस्सर्वत्र युज्यते
तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः
नान्यश्शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योषितः