युधिष्ठिरः-
अपूर्वं वा भवेत्पात्रमथवाऽपि चिरोषितम्
दूरादभ्यागतं वाऽपि किं पात्रं स्यात्पितामह
भीष्मः-
क्रिया भवति केषाञ्चिदुपांशुव्रतमुत्तमम्
यो नो याचेत यत्किञ्चित्सर्वं दद्याम इत्युत
अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम
पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति
अपूर्वं चापि यत्पात्रं यच्चापि स्याच्चिरोषितम्
दूरादभ्यागतं चापि न तत्पात्रं न विदुर्बुधाः
युधिष्ठिरः-
अपीडया च भूत्यानां धर्मस्याहिंसया तथा
पात्रं विद्यामतत्त्वेन यस्मै दत्तं न सन्तपेत्
भीष्मः-
ऋत्विक्पुरोहिताचार्याश्शिष्यास्सम्बन्धिबान्धवाः
सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः
अतोऽन्यथा वर्तमानास्सर्वे नार्हन्ति सत्क्रियाम्
तस्माद्गुणैः परीक्षेत पुरुषान्प्रणिधाय वै
अक्रोधस्सत्यवचनमहिंसा दम आर्जवम्
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा तपश्शमः
यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत
भावतो विनिविष्टानि तत्पात्रं मानमर्हति
तथा चिरोषितं चापि सम्प्रत्यागतमेव च
अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्
सर्वत्र चानवस्थानमेतन्नाशनमात्मनः
भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम्
हेतुवादान्बुवन्सत्सु विजेताऽहेतुवादिनः
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि
सर्वाभिशङ्की मूढश्च बालकः कटुकवागपि
बोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः
यथा श्वा भषितुं चैव हन्तु चैवावसृज्यते
एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च
अल्पश्रुताः कुतर्काश्च दृष्टास्सृष्टाः कुपण्डिताः
श्रुतिस्मृती चेतिहासपुराणारण्यवेदिनः
अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञांश्चैव पण्डितः
लोकयात्रा च द्रष्टव्या धर्मश्चात्महिताय च
एवं नरो वर्तमानश्शाश्वतीरेधते समाः
ऋणमुद्यम्य देवानामृषीणां च महात्मानाम्
पितॄणामथ भूतानामतिथीनां च पञ्चमम्
पर्यायेण विमुक्तो यस्सुनिर्णिक्तेन कर्मणा
एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते