भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शक्रशम्बरसंवादं तन्निवोध युधिष्ठिर
शक्रो ह्यज्ञातरूपेण जटी भूत्वा सुदारुणः
विप्ररूपं समास्थाय प्रश्नं पप्रच्छ शम्बरम्
शक्रः-
केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि
श्रेष्ठं त्वां केऽनुमन्यन्ते तन्मे ब्रूहीह पृच्छते
शम्बरः-
नासूयामि सदा विप्रान्ब्राह्मणं च पितामहम्
शास्त्राणि वदतो विप्रान्मानयामि यथासुखम्
श्रुत्वा च नावजानामि नापविध्यामि कर्हिचित्
अभ्यर्चयामि पृच्छामि पादौ गृह्णामि धीमताम्
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि
ते मां शास्त्रपथे सक्तं ब्रह्मवर्त्मानसूयकम्
समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः
यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधया
समाधिमात्मनो नित्यमतुलामनुचिन्तयन्
सोऽहं वागग्र्यमृष्टानां रसानामनुलेहिनाम्
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम्
यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते
एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा
युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम्
पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम्
सोमः-
ब्राह्मणास्तपसा सिद्धा दृश्यन्ते वाग्बलास्सदा
भुजवीर्या हि राजानो वाग्बलाश्च द्विजातयः
प्रवसन्वाऽप्यधीयीत ब्राह्मीर्दुर्वसतीर्वसन्
निर्मन्युरपि निर्मानो यदि स्यात्समदर्शनः
अपि चज्ज्ञानसम्पन्नस्सर्वान्वेदान्पितुर्गृहे
श्लाघमान इवाधीयाद्ग्राम्य इत्येव तं विदुः
भूमिरेतौ निगिरति सर्पौ बिलशयाविव
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम्
अभिमानश्श्रियं हन्ति पुरुषस्याल्पमेधसः
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः
विद्याविदो लोकविदस्तपोबलसमन्विताः
नित्यपूज्याश्च वन्द्याश्च द्विजा लोकद्वयेच्छुभिः
शम्बरः-
इत्येतन्मे श्रावश्रुत्वा सोमादद्भुतदर्शनात्
ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान्
भीष्मः-
श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम्
द्विजान्सम्पूजयामास महेन्द्रत्वमवाप च