युधिष्ठिर उवाच
किं राज्ञस्सर्वकृत्यानां गरीयस्स्यात्पितामह
किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते
भीष्मः-
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत
ब्राह्मणानां रक्षणं च पूजा च सुखमिच्छतः
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत्
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान्
सान्त्वेन भोगदानेन नमस्कारैस्सदाऽर्चयेत्
एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत्
यथाऽऽत्मानं यथा पुत्रांस्तथैतान्प्रतिपालयेत्
ये चाप्येषां पूज्यतमास्तान्तादृशान्प्रतिपूजयेत्
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते
ते पूज्यास्ते नमस्कार्यास्सततं पितरो यथा
तेष्वेव यात्रा लोकस्य भूतानामिव वासवे
अभिचारैरुपायैश्च हरेयुर्बलतेजसी
निश्शेषं कुपिताः कुर्युरुग्रास्सत्यपराक्रमाः
नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः
कुपितास्समुदीक्षन्ते दावेष्वग्निशिखा इव
बिभ्यत्येषां साहसिका गुणास्तेषामतीव हि
कूपा इव तृणच्छन्ना निगूढा द्यौरिवाम्बुदैः
प्रसह्यकारिणः केचित्कार्पण्यमृदवोऽपरे
मान्यास्तेषां साधवो ये न निन्द्याश्चाप्यसाधवः
सन्ति चैषामतिशठास्तथा चान्ये तपस्विनः
कृषिगोरक्षमप्यन्ये भैक्ष्यमन्ये प्रतिष्ठिताः
चोराश्चान्ये भृताश्चान्ये तथाऽन्ये नटनर्तकाः
सर्वकर्मसु दृश्यन्ते प्रशान्तोष्वितरेषु च
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ
नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम्
सर्वज्ञानां सतां तेषां नित्यमेवानुवर्तयेत्
पितॄणां देवतानां च मनुष्योरगरक्षसाम्
पुरोहिता महाभागा ब्राह्मणा वै नराधिप
नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्
यमिच्छेयुस्स राजा स्याद्यं द्विष्युस्स पराभवेत्
अतिवादं च ये कुर्युर्ब्राह्मणानामचेतसः
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरायणाः
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः
ब्राह्मणा यं प्रशंसन्ति पुरुषस्स प्रवर्तते
ब्राह्मणैर्यः पराकृष्टः पराभूयात्क्षणाद्धि सः
शका यवनकाम्भोजास्तास्ताः क्षत्रियजातयः
वृषलत्वं परिगता ब्राह्मणानामदर्शनात्
द्रामिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः
कोलिस्सर्वा महिषिकास्तास्ताः क्षत्रियजातयः
वृषलत्वं परिगता ब्राह्मणानामदर्शनात्
श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर
यस्तु सर्वमिदं हन्याद्ब्राह्मणाश्च न तत्समम्
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः
परिवादो द्विजाग्र्याणां न श्रोतव्यः कथञ्चन
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा
न स जातो जनिष्यो वा पृथिव्यामिह कश्चन
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत्
दुर्ग्राह्यो मुष्टिना वायुरस्पर्शः पाणिना शशी
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि
ब्राह्मणानेव सुभृशं सततं परिपूजयेत्
एते हि सोमराजान ईश्वरास्सुखदुःखयोः
एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः
प्रतिपूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः
अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात्
ज्ञानवान्ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणश्शुचिः
महारथश्च राजन्य एष्टव्यश्शत्रुतापनः
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम्
बोजयीत गृहे राजन्न तस्मात्परमस्ति वै
ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः
पितरस्सर्वभूतानां नैतेभ्यो विद्यते परम्
आदित्यश्चन्द्रमा विष्णुश्शङ्करोऽग्निः प्रजापतिः
सर्वे ब्राह्मणमाविश्य सदाऽन्नमुपभुञ्जते
न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते
देवताश्चास्य नाश्नन्ति पापस्य ब्राह्मणद्विषः
ब्राह्मणेषु सुतुष्टेषु प्रीयन्ते पितरस्सदा
तथैव देवता राजन्नात्र कार्या विचारणा
तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः
न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम्
येनैव हविषा राजन्ब्राह्मणांस्तर्पयोद्द्विजः
ते तेनैव तृप्यन्ते पितरो दैवतानि च
ब्राह्मणो देव तद्भूतं प्रभवन्ति यतः प्रजाः
यतश्चायं प्रभवति प्रेत्य यत्रापि गच्छति
वेदैष मार्गं स्वर्गस्य नरकस्य तथैव च
आगतानागते चोभे ब्राह्मणो द्विपदां वरः
ब्राह्मणो द्विपदां श्रेष्ठस्स्वधर्मं चैव वेद यः
ये चैनमनुवर्तन्ते ते न यान्ति परां गतिम्
न ते प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम्
ये ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति चैव हि
कृतात्मानो महात्मानस्ते यान्ति परामां गतिम्
क्षत्रियाणां प्रतपतां तेजसा च बलेन च
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च
भृगवोऽजयंस्तालजङ्घान्नीपानाङ्गिरसोऽजयन्
भरद्वाजो वैतहव्यानेलांश्च भरतर्षभ
चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः
प्रक्षिप्य यश्च कुम्भ्यां वै पुरगामिजमाहरेत्
यत्ञ्चित्कथ्यते लोके श्रूयते दृश्यतेऽपि वा
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं वासुदेवस्य पृथिव्या भरतर्षभ
श्रीभगवान्-
मातरं सर्वभूतानां पृच्छे त्वां संशयं शुभे
केनस्वित्कर्मणा पापं व्यपोहति नरो गृही
पृथिवी-
ब्राह्मणानेव सेवेत सततं ह्येतदुत्तमम्
ब्राह्मणान्सेवमानस्य पापं सर्वं प्रयास्यति
अतो भूतितरा कीर्तिरतो बुद्धिः प्रजायते
परेषामपरेषां च परेभ्यश्चैव ये परे
ब्राह्मणा यं प्रशंसन्ति पुरुषस्स प्रवर्धते
अथ यो ब्राह्मणान्क्रुष्टः पराभवति सोऽचिरात्
यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति
तथा दुश्चरितं विप्रे पराभावाय कल्पते
पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम्
तथा भगसहस्रेण महेन्द्रः परिचिह्नितः
तेषामेव प्रभावेन सहस्रनयनोऽभवत्
शतक्रतुस्समभवत्पश्य माधव यादृशम्
इच्छन्भूतिं च कीर्तिं च भोगांश्च मधुसूदन
ब्राह्मणानुमते तिष्ठेत्पुरुषश्शुचिरात्मवान्
भीष्मः
इत्येतद्वचनं श्रुत्वा मेदिन्या मधूसूदनः
साधु साध्विति तामुक्त्वा मेदिनीं पर्यपूजयत्
एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान्
सततं पूजयेथास्त्वं तत्र श्रेयोऽभिपत्स्यसे
जन्मनैव महाभागो ब्राह्मणो नाम जायते
नमस्यस्सर्वभूतानामतिथिः प्रश्रिताग्रभुक्
सर्वेषां सुहृदस्तात ब्राह्मणास्सुमनोमुखाः
सर्वानेते हनिष्यन्ति ब्राह्मणा जातमन्यवः
गीर्भिर्मङ्गलयुक्ताभिरनुध्येयुस्सुपूजिताः
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः
गीर्भिर्दारुणयुक्ताभिर्हन्युश्चैते ह्यपूजिताः
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः
सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत्
धाता-
न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वायनं विधि
युक्ता गोपायत ब्रह्मा श्रेयो वस्त्वस्तु शोभनम्
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति
ब्राह्मण्यं सर्वभूतानां प्रग्रहं च भविष्यथ
न शौद्रकर्म कर्तव्यं ब्राह्मणेन विपश्चिता
शौद्रं हि कुर्वतः कर्म ब्राह्मी श्रीरुपरुध्यते
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी
स्वाध्यायेनैव महात्म्यं विमलं प्रतिपत्स्यथ
हुत्वा चाहवनीयादि महाभाग्ये प्रतिष्ठिताः
अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्याऽनुकल्पिताः
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया
दमस्वाध्यायनिरतास्सर्वान्कामानवाप्स्यथ
यच्चैव मानुषे लोके यच्च देवेषु किञ्चन
सर्वं वस्तपसा साध्यं ज्ञानेन विनयेन च
युष्मत्सम्माननात्प्रीतिं पावनैः क्षत्रियाश्श्रियम्
अमुत्रेह समायान्ति वैश्यशूद्रादिकास्तथा
अरक्षिताश्च युष्माभिर्विरुद्धा यान्ति विप्लवम्
युष्मत्तेजोधृता लोकास्तद्रक्ष्यथ जगत्त्रयम्
भीष्मः-
इत्येता ब्रह्मगीतास्तास्समाख्याता मया तव
विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता
भूयस्तेषां फलं मन्ये यथा राज्ञस्समुत्थितम्
दुरासदाश्च चण्डाश्च तपसा क्षिप्रकारिणः
सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथाऽपरे
वराहमृगसत्त्वाश्च गजसत्त्वास्तथैव च
कार्पसमृदवः केचित्तथाऽन्ये मकरस्पृशः
विभाव्यभाविनः केचित्तथा चक्षुर्हणः परे
विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर
मेखलाद्रमिलाः काचाः पुण्ड्राः कोकाङ्गिरास्तथा
शौण्डिका गरदा दार्वाश्चोलाश्च कृशतस्कराः
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः
वृपलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात्
ब्राह्मणानां परिभवादसुरास्सलिलेशयाः
ब्राह्मणानां प्रसादाच्च देवास्स्वर्गनिवासिनः
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः
अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि
न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धराम्
ब्राह्मणा हि महात्मानो देवानामपि देवताः
तान्पूजयस्व सततं दानेन परिचर्यया
यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम्
प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ
प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयाऽनघ