वैशम्पायनः-
बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणस्समम्
पराक्रमे शक्रसममादित्यसमतेजसम्
गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम्
भ्रातृभिस्सहितोऽन्यैश्च पर्युपासद्युधिष्ठिरः
शयानं वीरशयने कालाकाङ्क्षिणमच्युतम्
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः
अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः
अङ्गिरा गौतमोऽगस्त्यस्सुमतिस्त्वायुरात्मवान्
विश्वामित्रस्स्थूलगिरास्संवर्तः प्रतिमर्दनः
उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः
भरद्वाजश्च रैभ्यश्चक यवक्रीतस्त्रितस्तथा
स्थूलाक्षश्शकटाक्षश्च कण्वो मेधातिथिः कृतः
नारदः पर्वतश्चैव सुधन्वा चैकतो द्विजः
नितन्तुः कवषो धौम्यश्शतानन्दोऽकृतव्रणः
जामदग्र्यस्तथा रामः कचश्चेत्येवमादयः
समागता महात्मानो भीष्मं द्रष्टुं महर्षयः
तेषां महात्मनां पूजामागतानां युधिष्ठिरः
भ्रातृभिस्सहितश्चक्रे यथावदनुपूर्वशः
ते पूजितास्सुमासीनाः कथाश्रक्रुर्महर्षयः
भीष्माश्रितास्सुमधुरास्सर्वेन्द्रियमनोहराः
भीष्मस्तेषां कथाश्श्रुत्वा ऋषीणां भावितात्मनाम्
मेने दिविष्ठमात्मानं तुष्ट्या परमया युतः
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः
अन्तर्धानं गतास्सर्वे सर्वेषामेव पश्यताम्
तानृषीन्सुमहाभागानन्तर्धानगतानपि
पाण्डवास्तुष्टुवुस्सर्वे प्रणेमुश्च मुहुर्मुहुः
प्रसन्नमनसस्सर्वे गाङ्गेयं कुरुसत्तमाः
उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः
प्रभावं तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः
प्रकाशन्तो दिशस्सर्वा विस्मयं परमं ययुः
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते
पाण्डवास्सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः
कथान्ते शिरसा स्पृष्ट्वा पादौ भीष्मस्य धीमतः
धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः
के देशाः के जनपदा केऽऽश्रमाः के च पर्वताः
प्रकृष्टाः पुण्यतः कास्स्विद्याश्च नद्यस्तदुच्यताम्
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शिलोञ्छवृत्तेस्संवादं सिद्धस्य च युधिष्ठिर
इह कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम्
असकृद्द्विपदां श्रेष्ठश्श्रेष्ठस्य गृहमेधिनः
सिलवृत्तेर्गृहं प्राप्तस्स तेन विधिनाऽर्चितः
कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं गृही
तौ समेत्य महात्मानौ सुखासीनौ कथाश्शुभाः
चक्रतुर्वेदसम्बद्धास्तच्छीलकृतलक्षणाः
सिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि
सिलोञ्छवृत्तिः-
के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः
प्रकृष्टाः पुण्यतः कास्स्विज्ज्ञेया नद्यस्तदुच्यताम्
सिद्धः-
ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः
येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः
गतिं तां न लभेद्राजन्गङ्गां संसेव्य यां लभेत्
स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम्
त्यक्तानि यानि वै येषां त्यागात्स्वर्गाे विधीयते
ये वा यथाविधि स्नाता गङ्गायां साघमर्षणाः
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्ति परां गतिम्
युक्ताश्च पातकैस्त्यक्त्वा देहं शुद्धा भवन्ति ते
मुच्यन्ते देहसन्त्यागाद्गङ्गायमुनसङ्गमे
स्नातानां प्रयतैस्तोयैर्गाङ्गेयैः प्रयतात्मनाम्
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि
यावदस्थि मनुष्याणां गङ्गातोयेषु तिष्ठति
तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते
अपहत्य तमस्तीव्रं यथा भात्युदये रविः
तथाऽपहत्य पाप्मानं भाति गङ्गाजलोक्षितः
विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा
तद्वद्देशा दिशश्चैव हीना गङ्गाजलैश्शुभैः
वर्णाश्रमा यथा सर्वे स्वधर्मा ज्ञानवर्जिताः
क्रतवश्च यथाऽसोमास्तथा गङ्गां विना जगत्
यथा हीनं नभोऽर्केण भूश्शैलैः खं च वायुना
तथा देशा दिशश्चैव गङ्गाहीना न संशयः
त्रिषु लोकेषु ये केचित्प्राणिनस्सर्व एव ते
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैश्शुभैः
अन्ये च देवा मुनयः प्रेतानि पितृभिस्सह
तर्पितास्तृप्तिमायान्ति त्रिषु लोकेषु सर्वशः
यथा सूर्यांशुनिष्टप्तं गाङ्गेयं पिबते जलम्
गवां निर्हरनिर्मुक्ताद्यावकात्तद्विशिष्यते
इन्द्रव्रतसहस्रं तु चरेद्यः कायशोधनम्
पिबेद्यश्चापि गङ्गाम्भस्समौ स्यातां न वा समौ
तिष्ठेद्युगसहस्रं तु पदेनैकेन यः पुमान्
एकाहं वा स गङ्गायां समौ स्यातां न वा सभौ
लम्बेदवाक्शिरा यस्तु युगानामयुतं पुनः
संवत्सरं जले वासं गङ्गायां तत्समं मतम्
अग्नौ प्रास्तं प्रदूयेत यथा तूलं द्विजोत्तम
तथा गङ्गावगाढस्य सर्वपापं प्रदूयते
भूतानामिह सर्वेषां दुःखोपहतचेतसाम्
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः
भवन्ति निर्विषास्सर्पा यथा तार्क्ष्यस्य दर्शनात्
गङ्गाया दर्शनात्सद्यः पापानि विविधानि च
अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये
येषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च
प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान्
पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत्
ते संविभक्ता मुनिभिर्नूनं देवैस्सवासवैः
ये हि गच्छन्ति सततं गङ्गामभिगतां सुरैः
विनयाचारहीनाश्चप्यशिवाश्च नराधमाः
ते भवन्त्यशिवा विप्र ये वै गङ्गामुपाश्रिताः
यथा सुराणाममृतं पितॄणां च यथा स्वधा
यथा सुधा च नागानां तथा गङ्गाजलं नृणाम्
उपासते यथा बाला मातरं क्षुधयाऽर्दिताः
श्रेयस्कामास्तथा गङ्गामुपासन्ती हि देहिनः
उपजीव्या यथा धेनुर्लोकानां ब्राह्ममेव वा
हविषां च यथा सोमस्तरणेषु तथाक्षयम्
स्वायम्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते
स्थानानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते
यथोपजीविनां धेनुर्देवादीनां परा स्मृता
तथोपजीविनां गङ्गा सर्वप्राणभृतामिह
देवास्सोमार्कसंस्थभिर्यथा सङ्ख्यादिभिर्मखैः
अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः
जाह्नवीपुलिनोत्थाभिस्सिकताभिस्समुक्षितम्
मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम्
जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः
बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम्
गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा
स्पृशते सोऽपि तेनाघं सद्य एवाभिमार्जति
व्यसनैरभितप्तस्य नरस्य विनशिष्यतः
गङ्गादर्शनजा प्रीतिर्व्यसनान्यपमार्जति
हंसकारण्डवातालैर्नादैरन्यैश्च पक्षिणाम्
पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान्
हंसादिभिस्सुबहुभिर्विविधैः पक्षिभिर्वृताम्
गङ्गां गोकुलसम्पन्नां दृष्ट्वा स्वर्गोऽपि विस्मृतः
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः
अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम्
वाङ्मनःकायजैर्ग्रस्तः पापैरपि पुमानिह
वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः
सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे
सर्वांस्तारयते गङ्गां वीक्ष्य स्पृश्यवगाह्य च
श्रुताऽभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिता
गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः
तत्तीरगानां तपसा श्राद्धपारायणादिभिः
गङ्गाद्वारप्रभृतिभिस्तत्तीर्थैर्न परं नृणाम्
सायं प्रातस्स्मरेद्गङ्गां नित्यं स्नाने तु कीर्तयेत्
तर्पणे पितृपूजासु मरणे चापि संस्मरेत्
दर्शनात्स्पर्शनात्पानात्यथा गङ्गेति कीर्तनात्
पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा
न श्रुतैर्न च वृत्तेन कर्मणा न च तत्फलम्
प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात्
जात्यन्धैरेह तुल्यास्ते नराः पङ्गुभिरेव च
समर्था ये न पश्यन्ति गङ्गां पुण्यजलाशयाम्
भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम्
देवैस्सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः
विद्यावद्भिश्श्रितां गङ्गां पुमान्को नाम नाश्रयेत्
उत्कामद्भिश्च यः प्राणैः प्रयतश्शिष्टसम्मतैः
चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत्
न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः
आदेहपतनाद्गङ्गामुपास्ते यः पुमानिह
गगनाद्गां पतन्तीं वै महापुण्यां महेश्वरः
दधार शिरसा देवीं तामेव दिवि देवताः
अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्स्थिताः
यस्तु तस्या जलं सेवेत्क्रतकृत्यः पुमानिह
दिवि ज्योतिष्विवादित्यः पितॄणामिव चन्द्रमाः
नरेन्द्रश्च यथा नॄणां गङ्गेह सरितां वरा
मातापितृसुतैर्दारैर्वियुक्तस्य धनेन वा
न भवेत्तुतथा दुःखं यथा गङ्गावियोगतः
न पुण्यैर्नेष्टविषयैर्न धनैर्न सुतागमैः
तथा प्रसादो भवति गङ्गां वीक्ष्य यथा भवेत्
पूर्णमिन्दुं यथा दृष्ट्वा नृणां बुद्धिः प्रसीदति
गङ्गा त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति
तन्नित्यस्तद्गतमनास्तन्निष्ठस्तत्परायणः
गङ्गां योऽनुगतो वीक्ष्य स तस्याः प्रियतां व्रजेत्
भूस्थैस्खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि
गङ्गा विगाह्या सततमेतत्कार्यतमं मतम्
त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रश्रितं यशः
दुर्मृताननपत्यांश्च सा मृताननयद्दिवम्
या पुत्रान्सगरस्यैतान्भस्माख्याननयद्दिवम्
वातेरिताभिस्सुमनोहराभिर्द्रुताभिरत्यर्थसमुच्छ्रिताभिः
गङ्गोर्मिभिर्भानुमतीभिरिद्धास्सहस्ररश्मिप्रतिमा विभान्ति
पयस्विनीं ह्रादिनीमत्युदारां संवर्धिनीं वेगिनीं दुर्विषह्याम्
गङ्गां गत्वा यैश्शरीरं विसृष्टं गता वीरास्ते विबुधैस्समत्वम्
अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा पयस्विनी बृहती विश्वरूपा
देवैस्सेन्द्रैर्मुनिभिर्दानवैश्च निषेविता सर्वकामैर्युनक्ति
ऊर्जस्वतीं मधुमतीं महापुण्यां त्रिवर्त्मिनीम्
त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्त्रिदिवं गताः
यो योक्ष्यते द्रक्ष्यते योऽपि मर्त्यस्तस्मै प्रयच्छन्ति सुखानि देवाः
तद्भावितस्पर्शनदर्शने च तस्मै देवा गतिमिष्टां दिशन्ति
दक्षां पृथ्वीं बृहतीं विप्रकृष्टां शिवामृतां सुरसां सुप्रसन्नाम्
विभावरीं सर्वभूतप्रतिष्ठां गङ्गां गता ये त्रिदिवं गतास्ते
ख्यातिर्यस्याः खं दिवं गां च नित्यामूर्ध्वं दिशो विदिशश्चाधितिष्ठेत्
तस्या जलं सेव्य सरिद्वराया मर्त्यास्सर्वे कृतकृत्या भवन्ति
इयं गङ्गेति नियता प्रतिष्ठा गुह्यस्य रुद्रस्य च गर्भयोषा
प्रातस्त्रिमार्गेषु कृतावगाहा पापापहा पापिनां विश्वभोक्तत्री
नारायणादक्षयात्पूर्वजाता विष्णोः पादाच्छिंशुमाराद्ध्रुवाच्च
सोमात्सूर्यान्मेरुरूपाच्च विष्णोस्समागता शिवमूर्ध्नो हिमाद्रिम्
सत्यावती द्रव्यपरस्य वर्या दिवो भुवश्चापि रक्ष्यानुरूपा
भव्या पृथिव्यां पावनी भाति ब्रह्मन्गङ्गा लोकानां पृण्यदा वै त्रयाणाम्
मधुप्रवाहा घृतारागोद्धताभिर्महोर्मिभिश्शोधिता ब्राह्मणैश्च
दिवश्च्युता विधृता या भवेन गङ्गाऽभिमान्या त्रिदिवस्य मान्या
योनिर्वरिष्ठा विरजा वितन्वी पुष्पापहा परिवाहा यशोदा
विश्वाकृती चाकृतिरृद्धिरिद्धा गङ्गोक्षितानां भुवनस्य पन्थाः
क्षान्त्या मह्याश्शोभते धारणेन दीप्त्या कृशानोस्तपनस्य चैव
तुल्या गङ्गा सम्मता ब्राह्मणानां गुहाऽस्य ब्रह्मण्यतया च नित्यम्
ऋषिष्टुतां विष्णुपदीं पुराणां सुपुण्यतोयां मनसाऽपि लोके
सर्वात्मना जाह्नवीं ये प्रपन्नास्ते ब्रह्मणस्सदनं सम्प्रयाताः
लोकानिमान्नयति या जननीव पुत्रान्सर्वात्मना सर्वगुणोपपन्ना
स्वस्थानमेभिर्हि समीप्समानैर्गङ्गा सदैवात्मवशैरुपास्या
नदैर्जुष्टां रुशतीं विश्वतोयामिरावज्ञां रवेतीं भूधराणाम्
शिष्टाश्रयाममृतां पुण्यकान्तां गङ्गां श्रयेदार्जवात्सिद्धिकामः
प्रसाद्य देवान्सविभुस्समस्तान्भगीरथस्तपसोग्रेण गङ्गाम्
गामानयद्यामभिगम्य शश्वत्पुंसां भयं नेह नामुत्र विद्यात्
उदाहृतस्सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बृद्ध्या
शक्तिर्न मे काचिदिहास्ति वक्तुं सर्वान्गुणान्परिमातुं तथैव
मेरोस्समुद्रस्य च सर्वयत्नसङ्ख्योदधीनामुदकस्य चैव
वक्तुं शक्या नेह गङ्गागुणानां सङ्ख्यातुं वा परिमातुं तथैव
तस्मादिमान्परया श्रद्धयोक्तान्सर्वान्गुणाञ्जाह्नवीयान्स्तथैव
भवेद्वाचा मनसा कर्मणा च भुक्त्या युक्तः परया श्रद्दधानः
लोकानिमांस्त्रीन्विजित्येह सिद्धस्सिद्धिं प्राप्तो महतीं तां दुरापाम्
गङ्गाकृतानचिरेणैव लोकान्यथेष्टमिष्टान्विहरिष्यसे त्वम्
तव मम च गुणैर्महानुभावा जुषतु मतिं सततं स्वधर्मयुक्ताम्
अभिजनगुणवत्सला हि गङ्गा भजति युनक्ति सुखैश्च भक्तिमन्तम्
भीष्मः-
इति परमगुणाननेकभेदाञ्सिलरतये त्रिपथाश्रयानुरूपान्
बहुविधमनुगम्य तस्य रूपान्गगनतलं द्युतिमान्विवेश सिद्धः
शिलवृत्तिस्तु सिद्धस्य वाक्यैस्सम्भावितस्तदा
गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तस्सुदुर्लभाम्
तस्मात्त्वमपि कौन्तेय भक्त्या परमया युतः
गङ्गामभ्येत्य सततं प्राप्स्यसे सिद्धिमुत्तमाम्
वैशम्पायनः-
श्रुत्वेतिहासं भीष्मोक्तं गङ्गायास्स्तवसंयुतम्
युधिष्ठिरः परां प्रीतिमगच्छद्धातृभिस्सह
इतिहासमिमं पुण्यं श्रृणुयाच्च पठेत वा
गङ्गायास्स्तवसंयुक्तं स मुच्येद्व्याधिकिल्बिषैः