युधिष्ठिरः-
तीर्थानां दर्शनं श्रेयस्स्नानं च भरतर्षभ
श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ
वक्तुमर्हसि मे तात श्रोतास्मि नियतः प्रभो
भीष्मः-
इममङ्गिरसा प्रोक्तं तीर्थवंशं महामते
श्रोतुमर्हसि धर्मज्ञ प्राप्स्यसे धर्ममुत्तमम्
तपोवनगतं विप्रमभिवाद्य महामुनिम्
पप्रच्छाङ्गिरसं वीर गौतमस्संशितव्रतम्
गौतमः-
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने
उपस्पृश्य फलं किं स्यात्केषु तीर्थेषु वै मुने
प्रेत्यभावे महाप्राज्ञ तद्यथाऽस्ति तथा वद
अङ्गिराः-
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम्
विगाह्य वै निराहारो निर्मलो मुनिवद्भवेत्
काश्मीरमण्डले नद्यो याः पतन्ति महास्वनम्
ता नदीस्सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात्
पुष्करं च प्रभासं च नैमिशं सागरोदकम्
देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च
विबुध्यते विमानस्थस्सोऽप्सरोभिरभिष्टुतः
हिरण्यबिन्दुमालक्ष्य प्रयतश्चाभिवाद्य तम्
कुशेशये च देवत्वं पूयते तस्य किल्बिषम्
इन्द्रतोयां समासाद्य गन्धमादनसन्निधौ
करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः
अश्वमेधमवाप्नोति विगाह्य नियतश्शुचिः
गङ्गाद्वारे कुशावर्ते बिल्वके कुलपर्वते
ततः कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत्
अपांह्रदमुपस्पृश्य वाजपेयफलं लभेत्
ब्रह्मचारी जितक्रोधस्सत्यसन्धस्त्वहिंसकः
यत्र भागीरथी गङ्गा वहते दिशमुत्तराम्
महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते
एकमासं निराहारस्स्वयं पश्यति देवताः
सप्तगङ्गेति गङ्गेति चन्द्रमार्गेति तर्पयन्
अर्थान्वै लभते तत्र भोक्तुं योऽभिलषेन्नरः
बिम्बाश्रममुपस्पृश्य योऽग्निहोत्रपरश्शुचिः
एकमासं निराहारस्सिद्धिं मासेन स व्रजेत्
महाह्रदमुपस्पृश्य भृगुतुन्दमलोलुपः
त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया
कन्याहोत्रमुपस्पृश्य योऽग्निहोत्रपरश्शुचिः
देवेषु कीर्तिं लभते यशसा च विराजते
एककालमुपस्पृश्य तथा सुन्दरिकाह्रदे
अश्विभ्यां रूपवर्चस्त्वं प्रेत्यासौ लभते नरः
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा
पक्षमेकं निराहारस्स्वर्गमाप्नोति कर्मतः
वैमानिकमुपस्पृश्य कर्णिकस्याश्रमे तथा
निवासेऽप्सरसां दिव्ये कामचारी महीयते
कालिकाश्रममासाद्य विपाशायां कृतोदकः
ब्रह्मचारी जितक्रोधस्त्रिरात्रं मुच्यते भयात्
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन्
तोषयित्वा महादेवं निर्मलस्स्वर्गमाप्नुयात्
महाकूपमुपस्पृश्य त्रिरात्रोपोषितो नरः
त्रसानां स्थावराणां च द्विपदत्वाद्भयं त्यजेत्
देवदारुवने स्नात्वा धूतपापः कृतोदकः
देवशब्दमवाप्नोति त्रिरात्रोपोषितो नरः
केशाब्दे तु शरस्तम्बे द्रोणशर्मपदे तथा
अापः प्रपर्तने सौम्य सेव्यते चाप्सरोगणैः
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले
विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति
श्यामायास्त्वाश्रमं गत्वा उपौष्यैवाभिषिच्य च
एकपक्षं निराहारो ह्यन्तर्धानफलं लभेत्
कौशिकीपारमासाद्य वायुभक्षस्त्वलोलुपः
एकविंशतिरात्रेण स्वर्गमारोहते नरः
मतङ्गवाप्यां यस्स्नायादेकरात्रेण सिध्यति
विगाहितोऽप्यनालम्बे अन्वक्षं वै सनातनम्
नैमिशे स्वर्गप्रस्थेषु उपस्पृश्य जितेन्द्रियः
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः
गङ्गाह्रदमुपस्पृस्य तथा चैवोत्पलावृतम्
अर्धाश्वमेधमप्नोति तत्र मासं कृतोदकः
गङ्गायमुनयोर्मध्ये तीर्थे कालञ्जरे गिरौ
दशाश्वमेधानाप्नोति तत्र मासं कृतोदकः
यष्टिह्रदमुपस्पृश्य दानं नान्यद्विशिष्यते
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथाऽपराः
समागच्छन्त्यमावास्यां प्रयागे भरतर्षभ
माघमासप्रयागे तु नियतस्संशितव्रतः
स्नात्वा तु भरतश्रेष्ठ निर्मलस्स्वर्गमाप्नुयात्
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः
वैवस्वते च तीर्थे च तीर्थभूतो भवेन्नरः
अथा ब्रह्मशिरस्स्नात्वा भागीरथ्यां कृतोदकः
एकमासं निराहारस्सोमलोकमवाप्नुयात्
कृपोतके नरस्स्नात्वा अष्टावक्रे कृतोदकः
तृतीयक्रौञ्चपादे च ब्रह्महत्यां विशोधयेत्
कलापिकामुपस्पृश्य वेदांश्च बहुशो जलम्
अग्नेः पुरे नरस्स्नात्वा विशालायां कृतोदकः
द्वादशाहं विशेषेण कल्मषाद्विप्रमुच्यते
महाह्रदमुपस्पृश्य शुद्धेन मनसा नरः
एकमासं निराहारो जमदग्निगतिं लभेत्
विन्ध्ये सन्ताप्य चात्मानं सत्यसन्धस्त्वहिंसकः
द्वादशाहं निराहारो नरमेधफलं लभेत्
मुण्डे ब्रह्मगवा चैव निरिचिं देवपर्वतम्
देवह्रदमुपस्पृश्य ब्रह्मभूतो विराजते
तथा प्रवृत्तनन्दां च महानन्दां च सेवते
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः
ऊर्वशीकृत्तिकायोगे कृतवासस्समाहितः
लौहित्ये विधिवत्स्नात्वा पौण्डरीकफलं लभेत्
रामह्रदमुपस्पृश्य विशालायां कृतोदकः
एकपक्षं निराहारः कल्मषाद्विप्रमुच्यते
कुमारपदमास्थाय मासेनैकेन शुध्यति
नर्मदायामुपस्पृश्य तथा शूर्पारकोदके
एकपक्षं निराहारो राजपुत्रो विधीयते
जम्बूमार्गे त्रिभिर्मासैस्संयतस्सुसमाहितः
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति
कोकामुखे विगाह्याथ गत्वा तण्डुलिकाश्रमम्
शाकभक्षश्चीरवासाः कुमार्यो विन्दते दश
वैवस्वतस्य सदनं न स गच्छेद्वै कदाचन
यस्य कन्याह्रदे वासो देवलोकं स गच्छति
प्रभासे त्वेकरात्रेण अमावास्यां समाहितः
सिद्ध्यत्यत्र महाबाहो यो नरो जायतेऽमरः
गुञ्जानदमुपस्पृस्य आर्ष्टिषेणस्य चाश्रमे
गङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम्
अश्वमेधमवाप्नोति त्रिरात्रोपोषितश्शुचिः
पिण्डारक उपस्पृश्य त्रिरात्रोपोषितो नरः
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम्
पुण्डरीकमवाप्नोति प्रभातां शर्वरीं शुचिः
मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च
कामं जित्वा च वै मोहं सर्वमेधफलं लभेत्
विख्यातो हिमवान्पुण्यश्शङ्करश्वशुरो गिरिः
आकरस्सर्वरत्नानां सिद्धचारणसेवितः
दर्शनाद्गमनात्पूतो भवेदनशनादपि
अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः
अभ्यर्च्य देवांस्तत्रस्थो नमस्कृत्य मुनींस्तथा
ततस्सिद्धो मुनिर्गच्छेद्ब्रह्मलोकं सनातनम्
कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत्
न तेन किञ्चिदप्राप्यं तीर्थाभिगमनाद्भवेत्
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च
मनसा तानि गम्यानि सर्वतीर्थे समासतः
इदं मेध्यमिदं मान्यमिदं स्वर्गस्य वै मुखम्
इदं रहस्यं वेदानामाप्लाव्यानां च पावनम्
इदं दद्याद्द्विजातीनां साधूनामात्मजस्य वा
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा
भीष्मः-
दत्तवान्गौतमस्यैतदङ्गिरा वै महातपाः
गुरुभिस्समनुज्ञातः काश्यपेन च धीमता
महर्षीणामिदं जप्यं पावनानां तथोत्तमम्
जपंश्चाभ्युत्थितस्सम्यङ्निर्मलस्स्वर्गमाप्नुयात्
य इदं चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम्
उत्तमे च कुले जन्म लभेज्जातिं च संस्मरेत्