युधिष्ठिरः-
इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते
भीष्मः-
व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम्
तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाश्शृणु
चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते
इति पृष्टो मया राजन्पराशरशरीरजः
अब्रवीन्निपुणो धर्मे निस्संशयमनुत्तमम्
व्यासः-
ब्राह्मणं स्वयमाहूय भैक्षार्थे कृशवृत्तिनम्
ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातकम्
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम्
गोकुलस्य तृषार्तस्य जलार्थमभिधावतः
उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम्
यः प्रवृत्तां श्रुतिं सम्यकू शास्त्रं वा मुनिभिः कृतम्
दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम्
जातितो ब्राह्मणानां हि महापरिभवात्तथा
तद्वृत्तिच्छेदनाच्चैव तद्दारपरिभावनात्
आत्मजां रूपसम्पन्नां महतीं सदृशे वरे
न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातकम्
अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु
दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम्
चक्षुषा विप्रहीणस्य पङ्गोरथ जडस्य वा
आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे
हरेत यश्च वित्तानि तं विद्याद्ब्रह्मघातिनम्
अग्निं समुत्सृजेत्क्रोधात्तं विद्याद्ब्रह्मघातिनम्