युधिष्ठिरः-SV-13-01-029-001a
इच्छामि तत्त्वयाऽऽख्यातं विहितं यत्सुरर्षिभिः
भीष्मः-
दैवं पौर्वाह्णिके कुर्यादपराह्णे तु पैतृकम्
मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान्
मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः
कालहीनं तु यद्दानं तद्भागं रक्षसां विदुः
परोच्छिष्टं यत्तुं कृतं परिभुक्तं च यद्भवेत्
दैवे पित्र्ये च सततं तद्भागं रक्षसां विदुः
लङ्घितं चावलीढं च लाकपूर्वं च यत्कृतम्
रजस्वलाभिदृष्टं च तद्भागं रक्षसां विदुः
केशकीटावपतितं क्षुतं श्वभिरवेक्षितम्
रुदितं चावधूतं च तद्भागं रक्षसां विदुः
निरोङ्कारेण यद्भुक्तं सशस्त्रेण च भारत
दुरात्मना च यद्भुक्तं तद्भागं रक्षसां विदुः
आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते
दुराचारैश्च यद्भुक्तं तद्भागं रक्षसां विदुः
ये भागा रक्षसां प्राप्तास्त उक्ता भरतर्षभ
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु
यावन्तः पतिताः प्रोक्ता जडोन्मत्तास्तथैव च
दैवे वाऽप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम्
श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः
अपस्मारी च यश्चापि राजन्नार्हन्ति सत्कृतिम्
चिकित्सका देवलका वृथा नियमधारिणः
सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम्
गायका नर्तकाश्चैव प्लवका वादकास्तथा
दूतका नर्तकाश्चैव राजन्नार्हन्ति केतनम्
होतारो वृषलानां च वृषलाध्यापकास्तथा
तथा वृषलमित्राश्च वृषलान्नभुजस्तथा
अनग्नयश्च ये विप्रा मृतानिर्यातकास्तथा
स्तेना मोत्रद्रुहश्चैव राजन्नार्हन्ति केतनम्
अपरिज्ञातपूर्वश्च गणपूर्वश्च भारत
पुत्रिकापूर्वपुत्रश्च श्राद्धे नार्हन्ति केतनम्
ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः
प्राणिविक्रयवृत्तिश्च राजन्नार्हति केतनम्
अनुयोक्ता च यो विप्रो ह्यनुयुक्तश्च भारत
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ
अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः
ब्राह्मणस्सर्वविद्योऽपि राजन्नार्हति केतनम्
स्त्रीपूर्वाः परपुत्राश्च यावन्तो भरतर्षभ
आजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम्
श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः
चीर्णव्रता गुणैर्युक्ता भवेयुर्ये च कर्शिताः
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः
क्षात्रधर्मिणमप्याजौ केतयेत्कुशलं पुनः
न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत्
अग्निहोत्री च यो विप्रो ग्रामयाजी च यो भवेत्
अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः
अकल्कः क्रोधकल्कश्च ब्राह्मणो भरतर्षभ
ससञ्ज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः
अव्रती कितवस्स्तेनः प्राणिविक्रयिको वणिक्
सनिष्कृतिः पुनस्सोमं पीतवान्केतनक्षमः
अर्जयित्वा धनं पूर्वं दारुणैः क्रूरकर्मभिः
भवेत्सर्वातिथिः पश्चात्सोऽपि केतनमर्हति
ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम्
अदेयं पितृदेवेभ्यो यच्च क्लीबादुपार्जितम्
क्रियमाणेऽपवर्गे तु यो द्विजो भरतर्षभ
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम्
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा
सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर
मुहूर्तानां त्रयं पूर्वमह्नः प्रातरिति स्मृतम्
जपध्यानादिभिस्तस्मिन्विप्रैः कार्यं शुभव्रतम्
सङ्गवाख्यं त्रिभागं तु मध्याह्नस्त्रिमुहूर्तकः
लौकिकं सङ्गवेऽर्थ्यं च स्नानादि ह्यथ मध्यमे
चतुर्थमपराह्णं तु त्रिमुहूर्तं तु पित्र्यकम्
सायाह्नस्त्रिमुहूर्तं च मध्यमं कविभिस्स्मृतम्
चतुर्थे त्वपराह्णाख्ये श्राद्धं कुर्यात्सदा नृप
प्रागुदीचीमुखा विप्रास्स्युविश्वेदेवेदक्षिणाः
श्रावितेषु सुतृप्तेषु पिण्डं दद्यात्सदक्षिणम्
श्राद्धापवर्गे विप्रस्य दातारो वोऽस्त्वितीरयेत्
क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति
अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत
अक्षय्यं त्वभिधातव्यं स्वस्ति शूद्रस्य भारत
एतदेव निरोङ्कारं क्षत्रियस्य विधीयते
गोहिंसायां चतुर्भागं पूर्वं विप्रातिकेतनम्
वर्णावरेषु भुञ्जानं क्रमाच्छूद्रे चतुर्गुणम्
नान्यत्र ब्राह्मणोऽश्यनीयात्पूर्वं विप्रेण केतितः
अभोजने च दोषस्स्याद्वर्जयेच्छूद्रकेतनम्
शूद्रान्नरसपुष्टाङ्गो द्विजो नोर्ध्वां गतिं व्रजेत्
अशौचिर्नैव चाश्नीयान्नास्तिको मानवर्जितः
न पूर्वं लङ्घयेल्लोभादेकवर्णोऽपि पार्थिव
विप्रास्स्मृता भूमिदेवा उपकुर्वाणधर्मिताः।
कर्मणामानुपूर्व्यं च विधिपूर्वं कृतं शृणु
जातकर्मादिकं सर्वं त्रिषु वर्णेषु भारत
ब्रह्मक्षत्रेषु मन्त्रोक्ता वैश्यस्य च युधिष्ठिर
विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी
बाल्वजा चैव वैश्यस्य धर्म एष युधिष्ठिर
पालाशो द्विजदण्डस्स्यादश्वत्थः क्षत्रियस्य तु
औदुम्बरश्च वैश्यस्य धर्म एष युधिष्ठिर
दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु
ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसञ्ज्ञितः
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणस्स्मृतः
नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः
अस्नातो ब्राह्मणो राजंस्तस्याधर्मोऽनृतं स्मृतम्
अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर
मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम्
युधिष्ठिर उवाच
पित्र्यं वाऽप्यथवा दैवं दीयते यत्पितामह
एतदिच्छाम्यहं ज्ञातुं दत्तं केषु महाफलम्
भीष्मः-
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः
उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर
चारित्रनिरता राजन्ये कृशाः कृशवृत्तयः
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम्
तद्भक्तास्तद्धना राजंस्तद्गृहातदपाश्रयाः
अर्थिनश्च भवन्त्यर्थे तेभ्यो दत्तं महाफलम्
तस्करेभ्यः परेभ्यो वा हृतस्वा भयदुःखिताः
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महत्फलम्
नित्यार्जवस्य विप्रस्य भैक्षाहारकृतात्मनः
साधवो यस्य भिक्षन्ति तस्य दत्तं महाफलम्
व्रतिनो नियमस्थाश्च ये विप्राश्श्रुतिसम्मताः
तत्समाप्त्यर्थमीो्सन्ते तेषु दत्तं महत्फलम्
अव्युत्क्रान्तास्स्वधर्मेषु पाषण्डसमयेषु च
कृशप्राणाः कृशघनास्तेषु दत्तं महाफलम्
व्रतानां पारणार्थाय गुर्वर्थे यज्ञदक्षिणाम्
निर्वेशार्थं च विद्वांसस्तेषां दत्तं महाफलम्
पित्रोश्च रक्षणार्थाय पुत्रदारार्थमेव वा
महाव्याधिविमोक्षाय तेषु दत्तं महाफलम्
बालास्स्त्रियश्च वाञ्छन्ति सुभक्तं चाप्यसाधनाः
स्वर्गमायान्ति दत्त्वैषां निरयान्नोपयान्ति ते
महानेष विधिर्दाने श्रुतस्ते भरतर्षभ
निरयं ये तु गच्छन्ति स्वर्गं चावहितश्श्रुणु
गुर्वर्थं भवयार्थं वा वर्जयित्वा युधिष्ठिर
येऽनृतं कथयन्त्यन्ये त वै निरयगामिनः
परदाराभिहर्तारः परदाराभिमर्शकाः
परदारप्रयोक्तारस्ते वै निरयगामिनः
ये परस्वापहर्तारः परस्वानां च नाशकाः
सूचकाश्च परेषां ये ते वै निरयगामिनः
प्रपाणां च सभानां च सङ्क्रमाणां च भारत
अश्रमाणां च भेत्तारो नरा निरयगामिनः
शूलैर्वा शङ्कुभिर्षाऽपि श्वभ्रैर्वा भरतर्षभ
ये मार्गमवबन्धन्ति ते वै निरयगामिनः
उपाध्यायांश्च भृत्यांश्च रक्तांश्च भरतर्षभ
ये त्यजन्ति समर्थांस्तांस्ते वै निरयागामिनः
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत
मन्त्रच्छेदं तथाऽऽशायास्ते वै निरयगामिनः
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः
लेखिनश्चैव वेदानां ते वै निरयगामिनः
अप्राप्तदण्डकाश्चैव नासानां वेधकास्तथा
वधकाश्च पशूनां च ते वै निरयगामिनः
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान्
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः
सूचकास्सन्धिभेत्तारः परवृत्त्युपजीविनः
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः
अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम्
वञ्चयन्ति नरा ये च ते वै निरयगामिनः
पाषण्डा दूषकाश्चैव समयानां च दूषकाः
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः
विषमव्यवहाराश्च विषमाश्चैव वृद्धिषु
लाभेषु विषमाश्चैव ते वै निरयगामिनः
दूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः
प्राणिहिंसाप्रवृत्ताश्च ते वै निरयगामिनः
कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम्
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः
पर्यश्नन्ति च ये दाराञ्शिशून्भृत्यातिथींस्तथा
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः
स्ववर्णाश्रमबाह्याश्च ये लोके नास्तिका नराः
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः
केशविक्रयिका राजन्विषविक्रयिणस्तथा
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर
येऽन्तरा यान्ति कार्येषु ते वै निरयगामिनः
शस्त्रविक्रयिकाश्चैव कर्तारश्च युधिष्ठिर
शल्यानां धनुषां चैव नरा निरयगामिनः
शिलाभिश्शङ्कुभिर्वाऽपि श्वर्भ्रैर्वा भरतर्षभ
अगोप्तारः फलद्रव्यं बलिषड्भागतत्पराः
सन्निन्दकाश्च राजेन्द्र ते वै निरयगामिनः
संश्रुत्य चाप्रदातारो दरिद्राणां विनिन्दकाः
श्रोत्रियाणां विनीतानां दरिद्राणां विशेषतः
क्षमिणां निन्दकाश्चैव ते वै निरयगामिनः
एते पूर्वर्षिभिर्द्दष्टाः प्रोक्ता निरयगामिनः
शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत
ये प्रतिग्रहनिस्स्नेहास्ते नरास्स्वर्गगामिनः
मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः
भ्रातॄणां चैव सस्नेहास्ते नरास्स्वर्गगामिनः
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत
ये वै जितेन्द्रिया धीरास्ते नरास्स्वर्गगामिनः
भयात्पापात्तथा बाधाद्दारुद्र्याद्व्याधिकर्षणात्
तत्कृते धनमीप्सन्तस्ते नरास्स्वर्गगामिनः
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोदिताः
मङ्गलाचारयुक्ताश्च पुरुषास्स्वर्गभागिनः
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च
निवृत्ताश्चैव मद्येभ्यस्ते नरास्स्वर्गगामिनः
आश्रमाणां च भर्तारः कुलानां चैव भारत
देशानां नगराणां च ते नरास्स्वर्गभागिनः
वस्त्राभरणदातारो भक्ष्यपानान्नदास्तथा
कुटुम्बानां च भर्तारस्ते नरास्स्वर्गगामिनः
सर्वहिंसानिवृत्ताश्च नरास्सर्वसहाश्च ये
सर्वस्याश्रयभूताश्च ते नरास्स्वर्गगामिनः
अवरुद्धेषु सस्नेहा मृदवो मित्रवत्सलाः
अपराधसहाश्चैव ते नरास्स्वर्गभागिनः
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः
त्रातारश्च सहस्राणं पुरुषास्स्वर्गभागिनः
सवर्णस्य च दातारो गवां च भरतर्षभ
यानानां वाहनानां च ते नरास्स्वर्गभागिनः
वैवाहिकानां कन्यानां प्रेष्याणां भरतर्षभ
दातारो वाससां चैव ते नरास्स्वर्गभागिनः
विहारावसथोद्यानकूपारामसभाप्रदाः
प्रपाणां चैव कर्तारस्ते नरास्स्वर्गभागिनः
निवेशनानां क्षेत्राणां वसतीनां च भारत
दातारश्चरुराणां च ते नरास्स्वर्गभागिनः
रसानां चाथ बीजानां धान्यानां च युधिष्ठिरः
स्वयमुत्पाद्य दातारस्ते नरास्स्वर्गभागिनः
यस्मिन्कस्मिन्कुले जाता बहुपुत्राश्शतायुषः
सानुक्रोशा जितक्रोधाः पुरुषास्स्वर्गभाघिनः
एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत
धर्माधर्मौ वदान्यस्य यथा पूर्वर्षिभिः कृतौ