युधिष्ठिरः-
किमाहुर्भरतश्रेष्ठ पात्रं विप्रास्सनातनम्
ब्राह्मणं लिङ्गिनं चेह ब्राह्मणं वाऽप्यलिङ्गिनम्
भीष्मः-
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः
पूतो भवति सर्वत्र किमुत त्वं महाद्युते
युधिष्ठिर उवाच
भीष्मः-
न ब्राह्मणं परिक्षेत दैवेषु सततं नरः
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः
देवप्रसादादिज्यन्ते द्विजन्मानो न संशयः
सुवृत्तमभिपन्नाय लिङ्गिने चेतराय वा
देयमाहुर्महाराज उभावेतौ तपस्विनौ
युधिष्ठिरः-
श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये
हव्यं कव्यं तथा दानं को दोषस्स्यात्पितामह
भीष्मः-
ब्राह्मणाः पात्रभूताश्च शुद्धा नैवं पितृष्विह
युधिष्ठिर उवाच
अपूर्वोऽप्यथवा विद्वान्सम्बन्धी वा यथा भवेत्
तपस्वी यज्ञशीलो वा कथं पात्रं भवेच्च सः
भीष्मः-
कुलीनः कर्मकृद्विद्वांस्तथा चाप्यनृशंस्यवान्
ह्रीमानृजुस्सत्यवादी पात्रं पूर्वे तु ते त्रयः
अत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम्
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि
पृथिवी-
यथा महार्णवे क्षिप्तस्स्फीतो लोष्टो विनश्यति
तथा दुश्चरितं सर्वम्त्रयीनित्ये निमज्जति
काश्यपः-
सर्वे च वेदास्सह षङ्भिरङ्गैस्साङ्ख्यं पुराणं च कुले च जन्म
नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नृप द्विजस्य
अग्निः-
अधीयानः पण्डितम्मन्यमानो यो विद्यया हन्ति यशः परेषाम्
ब्रह्मन्स तेन लभते ब्रह्मवध्यां लोकास्तस्य ह्यन्तवन्तो भवन्ति
मार्कण्डेयः-
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
नाभिजानामि यज्ञं तु सत्यस्यार्धमवाप्नुयात्
भीष्मः-
इत्युक्त्वा ते तथा जग्मुश्चत्वारोऽमिततेजसः
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः
युधिष्ठिरः-
यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः
भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत्
भीष्मः-
अदृष्टतो ये राजेन्द्र ब्राह्मणा वेदपारगाः
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते
युधिष्ठिरः-
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः
किं निमित्तं भवेत्तत्र तन्मे ब्रूहि पितामह
भीष्मः-
अहिंसा सत्यमस्तेयमानृशंस्यं दमश्शमः
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम्
अनाचरन्तस्तद्धर्म सङ्करानियता प्रभो
तेभ्यो रत्नं हिरण्यं वा गामश्चाश्वांश्च ददाति यः
दशवर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः
धनेन पुल्कसानां च तथैवान्तेवसायिनाम्
कृतं कर्माकृतं वाऽपि रागमोहेन जल्पताम्
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे
न ददन्तीह राजेन्द्र ते लोकान्भुञ्जतेऽशुभान्
युधिष्ठिरः-
किं परं ब्रह्मचर्यं स्यात्किं परं ब्रह्मलक्षणम्
किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह
भीष्मः-
ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम्
मर्यादायां स्थितो धर्मश्शमश्शौचस्य लक्षणम्
युधिष्ठिरः-
कस्मिन्काले चरेदर्थं कस्मिन्काले शमं चरेत्
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह
भीष्मः
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम्
पश्चात्कामं निषेवेत न च गच्छेत्ससङ्गताम्
ब्राह्मणान्बहु मन्येत गुरूंश्चैवाभिपूजयेत्
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः
अधिकारे यदनृतं राजगामि च पैशुनम्
गुरोश्चालीकनिर्बन्धस्समानि ब्रह्महत्यया
प्रहरेन्न नरेन्द्रेषु न गां हन्यान्न पीडयेत्
भ्रूणहत्यासमं चैतदुभयं यो निषेवते
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत्
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया
युधिष्ठिरः-
कीदृशानां च दातव्यं केषां दत्तं महत्फलम्
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह
भीष्मः-
अक्रोधना धर्मपरास्सत्यनित्या दमे रताः
तादृशास्साधवो विप्रास्तेषां दत्तं महत्फलम्
अमानिनस्सर्वसहा दृष्टान्ता विजितेन्द्रियाः
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महत्फलम्
अलुब्धाश्शुचयो वैद्या ह्रीमन्तस्सत्यवादिनः
स्वकर्मनिरता ये च तेभ्यो दत्तं महत्फलम्
साङ्गांश्च चतुरो वेदान्योधीते वेदपारगः
षड्भ्योऽनिवृत्तः कर्मभ्यो वेदस्य जपतत्परः
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः
तारयेत कुलं कृत्स्नं एकोऽपीह द्विजर्षभः
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत्
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति
तारयेत कुलं कृत्स्नं तृप्त एको द्विजोत्तमः
तृप्ते तृप्तास्सर्वदेवाः पितरो मुनयोऽपि च
निशाम्य च गुणोपेतान्ब्राह्मणान्साधुसम्मतान्
दूरादप्यानयेत्कृत्ये सर्वतश्चापि पूजयेत्