युधिष्ठिरः-
पुत्रैः कथं महाराज पुरुषस्तारितो भवेत्
यावन्न लब्धवान्पुत्रमफलः पुरुषो नृप
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदेन पुरा गीतम्मार्कण्डेयाय पृच्छते
पर्वतं नारदं चैवमसितं देवलं च तम्
आरुणेयं च रैभ्यं च एतानत्रागतान्पुरा
गङ्गायमुनयोर्मध्ये भोगवत्यास्समागमे
दृष्ट्वा पूर्वं समासीनान्मार्कण्डेयोऽभ्यगच्छत
ऋषयस्तु मुनिं दृष्ट्वा समुत्थायोन्मुखास्स्थिताः
अर्चयित्वाऽर्हतो विप्रङ्किं कुर्म इति चाब्रुवन्
मार्कण्डेयः-
अयं समागमस्सद्भिर्यत्नेनासादितो मया
अत्र प्राप्स्यामि धर्माणामाचारस्य च निश्चयम्
ऋजुः कृतयुगे धर्मस्तस्मिन्क्षीणे विमुह्यति
युगे युगे महर्षिभ्यो धर्ममिच्छामि वेदितुम्
भीष्मः-
ऋषिभिर्नारदः प्रोक्तो ब्रूहि यत्रास्य संशयः
धर्माधर्मेषु तत्त्वज्ञ त्वं विच्छेत्ताऽसि संशयान्
ऋषिभ्योऽनुमतो वाक्यं नियोगान्नारदोऽब्रवीत्
सर्वधर्मार्थतत्त्वज्ञं मार्कण्डेयं ततोऽब्रवीत्
नारदः-
दीर्घायो तपसा दीप्त वदेवदाङ्गतत्ववित्
यत्र ते संशयो ब्रह्मन्समुत्पन्नस्स उच्यताम्
धर्मं लोकोपकारं वा यच्चान्यच्छ्रोतुमिच्छसि
तदहं कथयिष्यामि ब्रूहि त्वं सुमहातपाः
मार्कण्डेयः-
युगे युगे व्यतीतेऽस्मिन्धर्मसेतुः प्रणश्यति
कथं धर्मच्छलेनाहम्प्राप्नुयामिति मे मतिः
नारदः-
आसीद्धर्मः पुरा विप्र चतुष्पादः कृते युगे
ततो ह्यधर्मः कालेन प्रसूतः किञ्चिदूनतः
ततस्त्रेतायुगं नाम प्रवृत्तं धर्मदूषणम्
तस्मिन्व्यतीते सम्प्राप्तम्तृतीयं द्वापरं युगम्
तदा धर्मस्य द्वौ पादावधर्मो नाशयिष्यति
द्वापरे तु परिक्षीणे नन्दिके समुपस्थिते
लोकवृत्तं च धर्मं च उच्यमानं निबोध मे
चतुर्थं नन्दिकं नाम धर्मः पादावशेषितः
ततः प्रभृति जायन्ते क्षीणप्रज्ञायुपो नराः
क्षीणप्राणधना लोके धर्माचारबहिष्कृताः
मार्कण्डेयः-
एवं विलुलिते धर्मे लोके चाधर्मसंयुते
किं चतुर्वर्णनियतं हव्यं कव्यं न नश्यति
नारदः-
मन्त्रपूतं सदा हव्यं कव्यं चैव न नश्यति
प्रतिगृह्णन्ति तद्देवा दातुर्न्यायात्प्रयच्छतः
सत्वयुक्तश्च दाता च सर्वान्कामानवाप्नुयात्
अवाप्तकामस्स्वर्गे च महीयेत यथेप्सितम्
मार्कण्डेयः-
चत्वारो ह्यथ ये वर्णा हव्यं कव्यं प्रदास्यते
मन्त्रहीनमवज्ञातम्तेषां दत्तं क्व गच्छति
नारदः-
असुरान्गच्छते दत्तं विप्रै रक्षांसि क्षत्रियैः
वैश्यैः प्रेतानि वै दत्तम्शूद्रैर्भूतानि गच्छति
मार्कण्डेयः-
अथ वर्णावरे जाताश्चातुर्वर्ण्योपदेशिनः
दास्यन्ति हव्यकव्यानि तेषां दत्तं क्व गच्छति
नारदः-
वर्णावराणां भूतानां हव्यकव्यप्रदातृणाम्
नैव देवा न पितरः प्रतिगृह्णन्ति तत्स्वयम्
यातुधानाः पिशाचाश्च भूता ये चापि नैर्ऋताः
तेषां सा विहिता वृत्तिः पितृदैवतनिर्गताः
तेषां सर्वप्रदातॄणां हव्यकव्यं समाहिताः
यत्प्रयच्छन्ति विधइवत्तद्वै भुञ्जन्ति देवताः
मार्कण्डेयः-
श्रुतं वर्णावरैर्दत्तं हव्यं कव्यं च नारद
सम्प्रयोगे च पुत्राणां कन्यानां च ब्रवीहि मे
नारदः-
कन्याप्रदानं प्रत्राणां स्त्रीणां संयोगमेव च
आनुपूर्व्यान्मया सम्यगुच्यमानं निबोध मे
जातमात्रा तु दातव्या कन्यका सदृशे वरे
काले दत्तासु कन्यासु पिता धर्मेण युज्यते
यस्तु पुष्पवतीं कन्यां बान्धवो न प्रयच्छति
मासि मासि गते बन्धुस्तस्या भ्रौणघ्न्यमाप्नुते
यस्तु कन्यां गृहे रुन्ध्याद्ग्राम्यैर्भोगैर्विवर्जिताम्
अवध्यातस्स कन्याया बन्धुः प्राप्नोति भ्रूणहाम्
दूषिता पाणिमात्रेण मृते भर्तरि दारिका
संस्कारं लभते नारी द्वितीये सा पुनः पतौ
पुनर्भूर्नाम सा कन्या सपुत्रा हव्यकव्यदा
अदूष्या सा प्रसूतीषु प्रजानां दारकर्मणि
मार्कण्डेय उवाच
या तु कन्या प्रसूयेत गर्भिणी या तु वा भवेत्
कथं दारक्रियां भूयः सा भवेदृषिसत्तम
नारदः-
तत्त्वार्थनिश्चितं शब्दं कन्यका नयतेऽग्नये
तस्मात्कुर्वन्ति भावं याः कुमार्यस्ता न कन्यकाः
ब्रह्महत्यात्रिभागेन गर्भाधानविशोधितः
गृह्णीयात्तां चतुर्भाग विशुद्धां सर्जनात्पुनः
मार्कण्डेयः-
कथं कन्यासु ये जाता बन्धूनां दूषितास्सदा
कस्य ते हव्यकव्यानि प्रदास्यन्ति महामुने
नारदः-
कन्यायास्तु पितुः पुत्राः कानीना हव्यकव्यदाः
अन्तर्वत्न्यास्तु यः पाणिं गृह्णीयात्स सहोढजः
मार्कण्डेयः-
अथ येनाहितो गर्भः कन्यायां तत्र नारद
कथं पुत्रफलं तस्य भवेदेतत्प्रचक्ष्व मे
नारदः-
धर्माचारेषु ते नित्यं दूषकाः कृतशोधनाः
बीजं च नश्यते तेषां मोघचेष्टा भवन्ति ते
मार्कण्डेयः-
अथ काचिद्भवेत्कन्या क्रीता दत्ता हृताऽपि वा
कथं पुत्रकृतं तस्यास्तद्भवेद्दषिसत्तम
नारदः-
क्रीता दत्ता हृता चैव या कन्या पाणिवर्जिता
कौमारी नाम सा भार्या प्रसवेदौरसान्सुतान्
न पत्न्यर्थे शुभा प्रोक्ता तत्कर्मण्यपवार्जिते
मार्कण्डेयः-
केन मङ्गलकृत्येषु विनियुज्यन्ति कन्यकाः
एतदिच्छामि विज्ञातुं तत्वेनेह महामुने
नारदः-
नित्यं निवसते लक्ष्मीः कन्यकासु प्रतिष्ठिता
शोभना शुभयोग्या च पूज्या मङ्गलकर्मसु
आकरस्थं यथा रत्नं सर्वकामफलोपगम्
तथा कन्या महालक्ष्मीस्सर्वलोकस्य मङ्गलम्
एवं कन्या परा लक्ष्मी रतिस्तोषश्च देहिनाम्
महाकुलानां चारित्रं वृत्तेन निकषोपलम्
आनयित्वा स्वकाद्वर्णात्कन्यकां यो भजेन्नरः
दातारं हव्यकव्यानां पुत्रकं या प्रसूयति
साध्वी कुलं वर्धयति साध्वी पुष्टिर्गृहे परा
साध्वी लक्ष्मी रतिस्साक्षात्प्रतिष्ठा सन्ततिस्तथा
मार्कण्डेयः-
श्रुतं बहुविधं वृत्तं कन्यकानां महामते
इच्छामि योषितां श्रोतुं धर्माधर्मौ परिग्रहे
नारदः-
अष्टौ भार्यागमा धर्म्या नराणां दारकर्मणि
प्रेत्येह च हिता यास्तु सपुत्रा हव्यकव्यदाः
साध्वी पाणिगृहीता या कौमारी पाणिवर्जिता
भ्रातृभार्या स्वभार्येति प्रसूयेत्पुत्रमौरसम्
मार्कण्डेयः-
त्रयो भार्यागमा ज्ञेया यत्र धर्मो न नश्यति
पञ्चान्याः पश्चिमा ब्रूहि भार्यास्तासां च ये सुताः
नारदः-
सगोत्रभार्या क्रीता च परभार्या च कारिता
गतागता च या भार्या आश्रमादाहृता च या
एता भार्यागमाः पञ्च पुनर्भार्या भवन्ति याः
एता भार्या नृणां गम्यास्तत्पुत्रा हव्यकव्यदाः
मार्कण्डेयः-
श्रुता भार्याश्च पुत्राश्च विस्तरेण महामुने
आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि भो
नारदः-
आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति
नष्टवंश्या भवन्त्येता बन्धूनामथ भर्तृणाम्
परदारा मुक्तदोषास्ता नार्यो श्रमसंस्थिताः
स्वयमीशास्स्वदेहानां काम्यास्तद्गतमानसाः
एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु
धर्मपत्न्यो भवन्त्येतास्सपुत्रा हव्यकव्यदाः
मार्कण्डेयः-
परस्य भार्या या पूर्वं मृते भर्तरि या पुनः
अन्यं भजति भर्तारं ससुता ह्यसुता कथम्
नारदः-
असुता वा प्रसूता वा गृहस्थानां परस्त्रियः
परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः
न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः
यस्तासु जनयेत्पुत्रान्न तैः पुत्रमवाप्नुयात्
मार्कण्डेयः-
परक्षेत्रेषु यो बीजं चापल्याद्विसृजेन्नरः
कथं पुत्रफलं तस्य भवेत्तदृषिसत्तम
नारदः-
अस्वामिके परक्षेत्रे यो नरो बीजमुत्सृजेत्
स्वयंवृतो श्रमस्थायां तद्बीजं न विनश्यति
परक्षेत्रेषु यो बीजं नरो दर्पात्समुत्सृजेत्
क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलम्
नातः परमधर्म्यं चाप्ययशस्यं तथोत्तरम्
गर्भादीनां च बहुभिस्ताश्च त्याज्यास्समेष्वपि
मार्कण्डेयः-
अथ ये परदारेषु पुत्रा जायन्ति नारद
कस्य ते बन्धुदायादा भवन्ति परमद्युते
नारदः-
परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ
जीवत्यथ पतौ कुण्डो मृते भर्तरि गोलकः
ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च
दत्तानि हव्यकव्यानि नाशयन्त्यथ दातृणाम्
पितुर्हि नरकायैते गोलकस्तु विशेषतः
चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः
मार्कण्डेयः-
कस्य ते गर्हिताः पुत्राः पितॄणां हव्यकव्यदाः
यस्य क्षेत्रे प्रसूयन्ते यो वा ताञ्जनयेत्सुतान्
नारदः-
क्षेत्रिकश्चैव बीजी च द्वावेतौ निरयं गतौ
न रक्षति च यो दारान्परदारांश्च गच्छति
गर्हितास्ते नरा नित्यं धर्माचारबहिष्कृताः
कुण्डो भोक्ता च भोगी च कुत्सिताः पितृदैवतैः
मार्कण्डेयः-
तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद
कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलम्
नारदः-
यातुधानाः पिशाचाश्च प्रतिगृह्णन्ति तैर्हुतम्
हव्यं कव्यं च तैर्दत्तं ये च भूता निशाचराः
मार्कण्डेयः-
अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम्
किं वा धर्मफलं तेषां भवेत्तदृषिसत्तम
नारदः-
न दत्तं नश्यते किञ्चित्सर्वभूतेषु दातृणाम्
प्रेत्य चेह च तां पुष्टिमुपाश्नन्ति प्रदायिनः
अथ गोलककुण्डाभ्यां सन्ततिर्या भविष्यति
तयोर्ये बान्धवाः केचित्प्रदास्यन्ति कथं तु तत्
नारदः-
साध्वीजातास्सुतास्तेषां तां वृत्तिमनुतिष्ठताम्
प्रीणन्ति पितृदैवत्यम्हव्यकव्यं समाहिताः
एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः
हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः
मार्कण्डेयः-
श्रुतं नराणां चापल्यं परस्त्रीषु प्रजायताम्
प्रमदानां तु चापल्ये दोषमिच्छामि वेदितुम्
नारदः-
एकवर्णे विदोषं तु गमनं पूर्वकालिकम्
धाता च समनुज्ञातो विष्णुना तत्तथाऽकरोत्
भगलिङ्गे महाप्राज्ञ पूर्वमेव प्रजापतिः
ससर्ज ताभ्यां संयोगमनुज्ञातश्चकार सः
अथ विष्णुप्रसादेन भगो दत्तवरः किल
तेन चैव प्रसादेन सर्वांल्लोकानुपाश्नुते
तस्मात्तु पुरुषे दोषो ह्यधिको नात्र संशयः
विना गर्भं सवर्णेषु न त्याज्या गमनात्स्त्रियः
प्रायश्चित्तं यथान्यायं दण्डं कुर्यात्स पण्डितः
बहिर्वा दर्शनं स्नानं सव्नयं त्रितयं निशि
भूमौ च भस्मशयनं दानं भोगविवर्जितम्
दोषगौरवतः कालो द्रव्यगौरवमेव च
मर्यादा स्थापिता पूर्वमिति तीर्थान्तरं गते
तद्योषितां तु दीर्घायो नास्ति दोषो व्यतिक्रमे
भगस्तीर्थान्तरे शुद्धो विष्णोस्तु वचनादिह
रक्ष्याश्चैवान्यसंवादैरन्यदेहाद्विमोक्षणैः
आसां शुद्धौ विशेषेण कर्मणां फलमश्नुते
नैता वाच्या न वै वध्या न क्लेश्याश्शुभमिच्छता
विष्णुप्रसादादित्येव भगस्तीर्थान्तरं गतः
मासि मासि ऋतुस्तासां दुष्कृतान्यपकर्षति
स्त्रियस्तोषकरा नॄणां स्त्रियः पुष्टिप्रदास्सदा
पुत्रसेतुप्रतिष्ठाश्च स्त्रियो लोके महाद्युते
मार्कण्डेयः-
श्रुतं बलं प्रभावश्च योषितां मुनिसत्तम
एकस्य बहुभार्यस्य धर्ममिच्छामि वेदितुम्
नारद उवाच
बहुभार्यासु सक्तस्य नारीभोगेषु गेहिनः
ऋतौ विमुञ्चमानस्य सान्निध्ये भ्रूणहा स्मृतः
वृद्धां वन्ध्यां सुव्रतां च मृतापत्यामपुष्पिणीम्
कन्यां च बहुपुत्रां च वर्जयन्मुच्यते भयात्
व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु
ऋतुकाले तु नारीणां भ्रूणहत्यां प्रमुञ्चति
मार्कण्डेयः-
वैश्यनारीषु वै जाताः परप्रेष्यासु वा सुताः
कस्य ते बन्धुदायादा भवन्ति हि महामुने
नारदः-
पण्यस्त्रीषु प्रसूता ये यस्य स्त्री तस्य ते सुताः
क्रयाच्च कृत्रिमाः पुत्रा प्रदानाच्चैव दत्रिमाः
मार्कण्डेयः-
पण्यनारीष्वनियतः पुंसोऽर्थो वर्तते ध्रुवम्
अत्र चाहितगर्भायाः कस्य पुत्रं वदन्ति तम्
नारदः-
तीर्थव्रतासु नारीषु न्यायतो योऽभिगच्छति
ऋतौ तस्य भवेद्गर्भो यं वा नारी न शङ्कते
मार्कण्डेयः-
नराणां त्यजतां भार्यां कामक्रोधाद्गुणान्विताम्
अप्रसूतां प्रसूतां वा तेषां पृच्छामि निष्कृतिम्
नारदः-
अपापां त्यजमानस्य साध्वीं मत्वैवमादितः
आत्मवंशस्वधर्मौ तु त्यजतां निष्कृतिर्न तु
यो नरस्त्यजते भार्यां पुष्पिणीमप्रसूतिकाम्
स नष्टवंशः पितृभिर्युक्तस्त्यज्येत दैवतैः
भार्यामपत्यसञ्जातां प्रसूतां पुत्रपौत्रिणीम्
पुत्रदारपरित्यागी न सम्प्राप्नोति निष्कृतिम्
एवं हि भार्यां त्यजतां नराणां नास्ति निष्कृतिः
नार्हन्ति प्रमदास्त्यक्तुं पुत्रपौत्रप्रतिष्ठिताः
मार्कण्डेय उवाच
कीदृशीं सन्त्यजन्भार्यां नरो दोषैर्न लिप्यते
एतदिच्छामि तत्त्वेन विज्ञातुमृषिसत्तम
नारदः-
मोक्षधर्मस्थितानां तु अन्योन्यमनुजानताम्
भार्यापतीनां मुक्तानामधर्मो न विधीयते
अन्यसङ्गां गतापत्यां शूद्रगां परगामिनीम्
परीक्ष्य त्यजमानानां नराणां नास्ति पातकम्
पातकेऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा
मार्कण्डेयः-
भार्यायां व्यभिचारिण्यां नरस्य त्यजतो रुषा
कथं धर्मोऽप्यधर्मो वा भवतीह महामते
नारदः-
अनृतेऽपि हि सत्ये वा यो नारीं दूषितां त्यजेत्
अरक्षमाणस्स्वां भार्यां नरो भवति भ्रूणहा
अपत्यहेतोर्या नारी भर्तारमतिलङ्घयेत्
लोलेन्द्रियेति सा रक्ष्या न सन्त्याज्या कथञ्चन
नद्यश्च नार्यश्च समस्वभावा नैताः दुष्यन्ति नरावगाढाः
स्रोतांसि नद्यो वहते निपातं नारी रजोभिः पुनरेति शौचम्
एवं नार्यो न दुष्यन्ति व्यभिचारेऽपि भर्तृणाम्
मासि मासि भवेद्रागस्ततश्शुद्धा भवन्त्युत
मार्कण्डेयः-
कानि तीर्थानि भगवन्नृणां देहाश्रितानि वै
तानि वै शंस भगवन्याथातथ्येन पृच्छतः
सर्वतीर्थेषु तीर्थज्ञ किं तीर्थं परमं नृणाम्
यत्रोपस्पृश्य पूतो यो नरो भवति नित्यशः
नारद उवाच
देवर्षिपितृतीर्थानि ब्राह्मं मध्येऽथं वैष्णवम्
नृणां तीर्थानि पञ्चाहुः पाणौ सन्निहितानि वै
आद्यतीर्थं तु तीर्थानां वैष्णवो भाग उच्यते
यत्रोपस्पृश्य वर्णानां चतुर्णां वर्धते कुलम्
पितृदैवतकार्याणि वर्धन्ते प्रेत्य चेह च
मार्कण्डेयः-
नराणां कामवृत्तानां या नार्यो निरवग्रहाः
यासामभिग्रहो नास्ति ता मे कथय नारद
नारदः-
पाशुर्वश्या नटी गोपी तान्तुकी तुन्नवायिकी
नारी किराती शबरी नर्तकी चानवग्रहा
मार्कण्डेयः-
एतासु जाता नारीषु सर्ववर्णेषु ये सुताः
तेषु के बन्धुदायादा भवन्ति ऋषिसत्तम
नारदः-
य एताः परिगृह्णन्ति तेषामेव हि ते सुताः
सर्वत्र तु प्रवृत्तासु बीजं नश्यति देहिनाम्
मार्कण्डेयः-
सर्वस्त्रीषु प्रवृत्ताश्च साधुवेदविवर्जिताः
मानवाः काण्डपृष्ठाश्च वेदमन्त्रबहिष्कृताः
नियुक्ता हव्यकव्येषु तेषां दत्तं कथं भवेत्
नारदः-
नार्हन्ति हव्यकव्यानि सावित्रीवर्जिता द्विजाः
दौत्यं नाम प्रदानं तद्यथा शूद्रेषु वै तथा
मार्कण्डेयः-
धर्मेष्वधिकृतानां तु नराणां मुह्यते मनः
कथं न विघ्नं भवति एतदिच्छामि वेदितुम्
नारदः-
अर्थाश्च नार्यश्च समानमेतच्छ्रेयांसि पुंसामिह मोहयन्ति
रतिप्रमोदात्प्रमदा हरन्ति भोगैर्धनं चाप्युपहन्ति धर्मान्
हव्यं कव्यं च धर्मात्मा सर्वं तच्छ्रोत्रियोऽर्हति
दत्तं हि श्रोत्रिये साधौ ज्वलिताग्नाविवाहुतिः
मार्कण्डेयः-
श्रोत्रियाणां कुले जाता वेदार्थविदितात्मनाम्
हित्वा कस्मात्त्रयीं विद्यां वार्तां वृत्तिमुपाश्रिताः
नारदः-
चातुर्वर्ण्यं पुरा न्यस्तं सुविद्वत्सु द्विजातिषु
तस्माद्वर्णैस्संविभज्या वृत्तिस्सङ्करवर्जिता
मार्कण्डेयः-
ये चान्ये श्रोत्रिया जातास्संस्कृताः पुत्रगृध्नुभिः
असंस्कृताश्श्रोत्रियजास्संस्कृता ज्ञानिजाः कथम्
नारदः-
असंस्कारो वैदिकश्च स मान्योऽश्रोत्रियात्मजः
शुद्धान्वयश्श्रोत्रियस्तु सुविद्वद्भिस्समोऽन्यथा
अनधीयानधीयांश्च वेदसंस्कारवर्जिताः
तस्मात्ते वेदविज्ञाऽपि विप्राश्श्रुतिनिकारिणः
ब्रह्मराशौ पुरा सृष्टा वेदसंस्कारसंस्कृताः
तस्मात्तेष्वेव ते जातास्साधवः कुलधारिणः
मार्कण्डेयः-
स्वयं क्रीतासु प्रेष्यासु प्रसूयन्ते तु ये नराः
कस्य नार्यस्सुताश्चैव भवन्ति ऋषिसत्तम
नारदः-
स्वदास्यां यो नरो मोहात्प्रसूयेत स पापकृत्
इहाभिनिन्दितः प्रेत्य अपत्यं प्रेष्यतां नयेत्
सा तस्य भार्या पुत्रा ये हव्यकव्यप्रदा न च
तस्या ये बान्धवाः केचिद्विषक्ताः प्रेष्यतां गताः
सर्वे तस्यास्तु सम्बन्धान्मुच्यन्ते प्रेष्यकर्मसु
एतत्ते कथितं सर्वं यदभिव्याहृतं त्वया
अथवा संशयः कश्चिद्भूयस्सम्प्रष्टुमर्हसि
मार्कण्डेयः-
अमिथ्यादर्शनो लोके नारदस्सर्वकोविदः
प्रत्यक्षदर्शी लोकानां स्वयम्भूरिव सत्तमः
भीष्मः-
इति सम्भाष्य ऋषिभिर्मार्कण्डेयो महातपाः
नारदं चापि सत्कृत्य तेन चैवाभिसत्कृतः
आमन्त्रयित्वा ऋषिभिः प्रययावाश्रमं मुनिः
ऋषयश्चापि तीर्थानां परिचर्यां प्रचक्रमुः
सुक्षेत्रबीजसंस्कारविशुद्धो ब्रह्मचर्यया
नित्यनैमित्तिकात्स्नातो मनश्शुद्ध्या च शुद्ध्यति