युधिष्ठिरः
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम्
आर्ष एष भवेद्धर्मः प्राजापत्योऽथवाऽऽसुरः
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः
सन्देहस्सुमहानेष विरुद्ध इति मे मतिः
इह यस्सहधर्मो वै प्रेत्यायं विहितः क्व नु
स्वर्गो मृतानां भवति सहधर्मस्सनातनः
पूर्वमेकस्तु म्रियतः क्व चैकस्तिष्ठते वद
नानाकर्मबलोपेता नानाकर्मनिवासिताः
नानाविधानानिष्ठाना मानुषा बहवो यदा
अनृतास्स्त्रिय इत्येवम्सूत्रकारो व्यवस्यति
अनृतास्स्त्रिय इत्येवम्वेदेष्वपि हि पठ्यते
धर्मो यः पौर्विको दृष्ट उपचारः क्रियाविधिः
गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम्
निस्सन्देहमिदं सर्वम्पितामह यथाश्रुतम्
यथा तद्यादृशं वैतद्यथा चैतत्प्रकीर्तितम्
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अष्टावक्रस्य संवादम्दिशया सह भारत
निर्विष्टुकामस्तु पुरा ह्यष्टावक्रो महामनाः
ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि
गुणप्रगल्भां शीलेन साध्वीं चारित्रशोभनाम्
सा तस्यर्षेर्मनो दृष्टा जहार शुभलोचना
वनराजिर्यथा चित्रा वसन्ते कुसुमाचिता
ऋषिस्तमाह देया मे सुता तुभ्यं श्रृणुष्व मे
अनन्यस्त्रीजनः प्राज्ञो ह्यप्रवासी प्रियंवदः
सुरूपस्सम्मतो वीरश्शीलवान्भोगभुक्छुचिः
दारानुमतयज्ञश्च सुनक्षत्रामथोद्वहेत्
स्वभर्त्रास्स्वजनोपेत इह प्रेत्य च मोदते
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः
अष्टावक्रः-
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान्
तथेदानीं मयो कार्यम्यथा वक्ष्यति मां भवान्
ऋषिः-
धनदं समतिक्रम्य हिमवन्तं तथैव च
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम्
इष्टैः पारिषदैर्जुष्टम्नृत्यद्भिर्विविधाननैः
दिव्याङ्गरागैः पैशाचैरन्यैर्नानाविधै्स्तथा
पाणितालसुतालैश्च शम्पातालैस्समैस्तथा
सम्प्रहृष्टैः प्रनृत्यद्भिश्शर्वस्तत्र निषेव्यते
इष्टं किल गिरौ स्थानम्तद्दिव्यमनुशुश्रुम
नित्यं सन्निहितो देवस्तथा पारिषदाश्शुभाः
अत्र देव्या तपस्तप्तम्सङ्करार्थं सुदुश्चरम्
तथैतदिष्टं देवस्य तथोमाया इति श्रुतिः
ततःकोपो महान्पार्श्वे देवस्योत्तरतस्तथा
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः
सर्वे देवमुपासन्ते रूपिणः किल तत्र ह
तदतिक्रम्य भवनं त्वया यातव्यमेव हि
ततो नीलं वनोद्देशं द्रक्ष्यसे नीलसन्निभम्
रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम्
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम्
द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः
तां दृष्ट्वा विनिवर्तस्वं ततः पाणिं ग्रहीष्यसि
यद्येष समयस्सम्यक्साध्यते तत्र गम्यताम्
अष्टावक्रः-
तथा तत्साधयिष्यामि तत्र यास्याम्यसंशयम्
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक्
भीष्मः-
ततोऽगच्छत्स भगवानुत्तरामुत्तरां दिशम्
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम्
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम्
अध्यगच्छन्नदीं पुण्यां बाहुदां पुण्यदायिनीम्
अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः
तत्र वासाय शयने कौशे सुखमुवास ह
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः
स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैवं विधानतः
रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत्
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ
सोऽपश्यत्काञ्चनद्वारं पुरं दीप्तमिव श्रिया
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः
अथ ते राक्षसास्सर्वे ये तां रक्षन्ति पद्मिनीम्
अभ्युत्थिता भगवन्तो माणिभद्रपुरोगमाः
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान्
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत्
राक्षसाः-
ते राक्षसास्तथा राजन्भगवन्तमथाब्रुवन्
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम्
वेदितो भगवानस्य कार्यमागमने च यत्
पश्यैनं च महाभागं ज्वलन्तमिव तेजसा
भीष्मः-
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम्
विधिवत्कुशलं पृष्ट्वा ततो ब्राह्मणमब्रवीत्
कुबेरः-
सुखं प्राप्तो भवान्किं स्वत्किं वा मत्तश्चिकीर्षसि
ब्रूहि सर्वं करिष्यामि यन्मां वत्वं वक्ष्यसे द्विज
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम
सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः
भीष्मः-
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम्
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च
अथोपविष्टयोस्तत्र माणिभद्रपुरोगमाः
निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत्
कुबेरः-
भीष्मः-
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा
भवच्छन्दं समाज्ञाय नृत्येरन्पुंश्चलीरिह
संवर्त्यतामित्युवाच मुनिर्मधुरया गिरा
अथाप्सरा मिश्रकेशी रम्भा चैवोर्वशी तथा
अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा
विद्युत्प्रभा शमा दान्ता रताना रतिरेव च
एताश्चान्याश्च बह्व्यश्च प्रनृत्ताप्सरसश्शुभाः
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च
अथ प्रवृत्ते गान्धर्वे दिव्ये सर्षिरुपावसत्
दिव्यं संवत्सरं तत्रारमद्वै सुमहातपाः
ततो वैश्रवणो राजा भगवन्तमुवाच ह
कुबेरः-
साग्रस्संवत्सरो यातस्तव विप्रेह तव पश्यतः
हार्ययं विषयो ब्रह्मन्गान्धर्वो नाम नामतः
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम्
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि
भीष्मः-
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत
छन्दतो वर्ततां विप्र यथा वदतु मा भवान्
अष्टावक्रः-
अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर
प्रीतोऽस्मि सदृशं चैतत्तव सर्वं धनेश्वर
तव प्रसादाद्भगवन्महर्षेश्च महात्मनः
नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव
भीष्मः-
अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः
कैलासे शङ्करावासमभिवीक्ष्य प्रणम्य च
गौरीशं शङ्करं दान्तम्शरणागतवत्सलम्
गङ्गाधरं गोपतिनं गणावृतमकल्मषम्
कैलासं मन्दरं हैमम्सर्वाननुचचार ह
तानतीत्य महाशैलान्कैलासस्थानमुत्तमम्
प्रदक्षिणं ततश्चक्रे प्रयतश्शिरसा नमन्
धरणीमवतीर्याथ पूतात्मा स तदाऽभवत्
स तं प्रदक्षिणं कृत्वा निर्यातश्चोत्तरामुखः
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः
ततोऽपरं वनोद्देशम्रमणीयमपश्यत
सर्वर्तुफलकैर्वृक्षैः पक्षिभिश्चाभिसंवृतम्
रमणीयैर्वनोद्देशैस्तत्रतत्र युधिष्ठिर
तत्राश्रमपदं दिव्यम्ददर्श भगवानथ
शैलांश्च विविधाकारान्काञ्चनोद्भूषणानथ
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च
अन्यान्यपि च रम्याणि ददर्श सुबहून्यथ
भृशं तस्य मनो रमे महर्षेर्भावितात्मनः
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम्
ददर्शाद्भुतसङ्काशम् धनदस्य गृहाद्वरम्
महान्तो यत्र विविधाः काञ्चनाः पर्वतोत्तमाः
विमानानि च रम्याणि रत्नानि विविधानि च
मन्दारपुष्पसङ्कीर्णां तथा मन्दाकिनी नदी
स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता
नानाविधैश्च भवनैर्विचित्रमणितोरणैः
मुक्ताजालपरिक्षिप्तैर्मणिरत्नविभूषितैः
मनोदृष्टिहरै रम्यैस्सर्वतस्संवृतश्शुभैः
ऋषिस्समन्ततोऽपश्यत्तत्र तत्र मनोहरम्
अष्टावक्रः-
ततोऽभवत्तस्य चिन्ता क्व मे वासो भवेदिति
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत्
अतिथिं समनुप्राप्तमनुजानन्तु येऽत्र वै
भीष्मः-
अथ कन्याः परिवृता गृहात्तस्माद्विनिस्सृताः
नानारूपास्सप्त विभो कन्यास्तत्र मनोहराः
यां यामपश्यत्कन्यां सा सा सा तस्य मनोऽहरत्
नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति
ततो धृतिस्समुत्पन्ना तस्य विप्रस्य धीमतः
अथ तासां प्रमदाः प्राहुर्भगवान्प्रविशत्विति
अथ तासां सुरुपेण तस्यैव भवनस्य च
कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः
तत्रापश्यज्जरायुक्तां विरजोम्बरधारिणीम्
वृद्धां पर्यङ्क आसीनां सर्वाभरणभूषिताम्
स्वस्ति चास्त्विति तेनोक्ता सा च स्त्री स्मावदद्यथा
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह
अष्टावक्रः-
सर्वास्स्वानालयान्यान्तु एका मामुपतिष्ठतु
सुप्रज्ञाना सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः
भीष्मः-
ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा
निश्चक्रमुर्गृहात्तस्मात्सा वृद्धा चाथ तिष्ठति
तया सम्पूजितस्तत्र शयने चापि निर्मले
अथ तां संविशन्प्राह शयने भास्वरे तदा
अष्टावक्रः-
त्वयाऽपि सुप्यतां भद्रे रजनी ह्यतिवर्तते
भीष्मः-
संलापात्तेन विप्रेण तथा सा तत्र भाषिता
द्वितीये शयने दिव्ये सा विवेश महाप्रभे
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा
व्यपदिश्य महर्षेर्वै शयनं साऽध्यरोहत
स्वागतेनागतां तेऽस्तु भगवांस्तामभाषत
सा जुगूहे भुजाभ्यां तमृषिं प्रीत्या नरर्षभ
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा
दुःखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह
वृद्धा-
ब्रह्मन्न कामकरोऽस्ति स्त्रीणां पुरुषतो धृतिः
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम्
प्रहृष्टो भव विप्रर्षे समागच्छ मया सह
उपगूह च मां विप्र कामार्ताऽहं भृशं त्वयि
एतद्वि तव धर्मात्मंस्तपसः पूज्यते फलम्
प्रार्थितं दर्शनादेव भजमानां भजस्व माम्
सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि
प्रभुस्त्वं भव सर्वत्र मयि चैव न संशयः
सर्वान्कामान्विधास्यामि रमस्व सहितो मया
रमणीये वने विप्र सर्वकामफलप्रदे
त्वद्वशाऽहं भविष्यामि क्रीडन्निह मया सह
सर्वान्कामानवाप्नोषि ये दिव्या ये च मानुषाः
नातः परं हि नारीणां विद्यते कार्यमण्वपि
यथा पुरुषसंसर्गः फलमेतद्धि नः परम्
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः
न च दह्यन्ति गच्छन्त्य्स्सुतप्तैरपि पांसुभिः
अष्टावक्रः-
परदारानहं भद्रे न गच्छेयं कथञ्चन
दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम्
शुद्धक्षेत्रे ब्रह्महत्याप्रायश्चित्तमथोच्यते
पुनश्च पातकं दृष्टम्विप्रक्षेत्रे विशेषतः
भद्रे निर्वेष्टुकामोऽहम्तत्रापचरणं मम
प्रायश्चित्तं महदतो दारग्रहणपूर्वकम्
बीजं न शुद्ध्यते वोढुरस्य चाकृतनिष्कृतेः
मातृतः पितृतश्शुद्धो ज्ञेयः पुत्रो यथार्थतः
विषयेष्वनभिज्ञोऽहं आत्मार्था किल सन्ततिः
एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः
भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह
वृद्धा-
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज
प्रियास्स्त्रीणां यथा कामो रतिशीला हि योषितः
सहस्रैर्न रतिं नारी प्राप्नोतीह कदाचन
तथा शतसहस्रेषु यदि काचित्पतिव्रता
न हि जानन्ति पितरं न कुलं न च मातरम्
न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान्
लीलायिताः कुलं घ्नन्ति कूलानीव सरिद्वराः
दोषानमन्दान्मन्दासु प्रजापतिरभाषत
भीष्मः-
अष्टावक्रः-
ततस्स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत
आस्यतां रुचितश्छन्दः किं वा कार्यं ब्रवीहि ते
भीष्मः-
सा स्त्री प्रोवाच यत्कार्यं ज्ञास्यसे देशकालतः
वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि
अष्टावक्रः-
ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर
वसेऽहं तावदुत्साङ्गे भवत्या नात्र संशयः
भीष्मः-
अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयाऽन्विताम्
चिन्तां परमिकां भेजे सन्तप्त इव चाभवत्
यत्तदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा
नारमत्तत्र तस्यास्य दृष्टी रूपविराजिता
देवतेयं गृहस्यास्य शापान्नूनं विरूपिणी
अस्याश्च कारणं वेत्तुं न शक्यं सहसा मया
इति चिन्ताविषक्तस्य तमर्थं श्रोतुमिच्छतः
व्यगमद्रात्रिशेषस्स मनसा व्याकुलेन तु
अथ सा स्त्री तथोवाच भगवन्नस्य वै रवेः
रूपं सन्ध्याभ्रसंरक्तङ्किमुपस्थाप्यतां तव
स उवाच तदा तां स्त्रीं स्नानोदकमिहानय
उपासिष्ये ततस्सन्ध्यां वाग्यतो नियतेन्द्रियः
अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति
तैलं दिव्यमुपानीय स्नानशाटीमुपानयत्
अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना
अथास्य तैलेनाङ्गानि सर्वाण्येव व्यमृक्षयत्
शनैश्चाच्छादितस्तत्र स्नानशालामुपागमत्
भद्रासनं ततश्चित्रमृषिरन्वविशन्नवम्
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा
स्नापयामास शनकैस्तमृषिं सुखहस्तवत्
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा
जलेन सुसुखोष्णेन तस्या हस्तसुखेन च
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः
तत उत्थाय स मुनिस्तदा परमविस्मितः
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि
सन्ध्योपासनमित्याहो सर्वपापहरं न मे
तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत्
अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम्
सा चामृतरसप्रख्यमृषेरन्नमुपाहरत्
तस्य स्वादुतयाऽन्नस्य न प्रभूतं चकार सः
व्यगमच्चाप्यहश्शेषस्ततस्सन्ध्याऽऽगमत्पुनः
अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत्
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते
अष्टावक्रः-
न भद्रे परदारेषु मनो मे सम्प्रसज्जति
उत्तिष्ठ भद्रे भद्रं ते स्वापं वै विरमस्व च
भीष्मः-
सा तदाऽऽतेन विप्रेण तथा धृत्या निवर्तिता
स्वतन्त्राऽस्मीत्युवाचेदं न धर्मच्छलमस्ति ते
अष्टावक्रः-
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति
वृद्धा-
बाधते मैथुनं विप्र मम भक्तिं च पश्य वै
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि
अष्टावक्रः-
हरन्ति दोषजातानि नरमिन्द्रियकिङ्करम्
प्रभवामि स्वयं धृत्या भद्रे स्व शयनं व्रज
वृद्धा-
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि
भूमौ हि पतमानायाश्शरणं भव मेऽनघ
यदि वा दोषजातं त्वं परदारेषु पश्यसि
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मेऽनघ
न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम्
स्वतन्त्रां मां विजानीहि योऽधर्मस्सोऽस्तु वो मयि
अष्टावक्रः-
स्वतन्त्रा स्त्री कथं भद्रे ब्रूहि कारणमत्र मे
नास्ति लोकेषु स्त्री काचिद्या वै स्वातन्त्र्यमर्हति
पिता रक्षति कौमारे भर्ता रक्षति यौवने
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति
न वृद्धामक्षतां मन्ये च चेच्छा त्वयि मेऽनघे
वृद्धा-
कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः
कुरु मा विमतिं विप्र श्रद्धा जहिहि मा मयि
यथा मह्यं तथा तुभ्यम्यथा तव तथा मम
भीष्मः-
जिज्ञासेयमृषेस्तस्य विघ्नस्सत्यं नु किं भवेत्
आश्चर्यं परमं हीदङ्किं नु श्रेयो हि मे भवेत्
दिव्याभरणवस्त्रा हि कन्येयं समुपस्थिता
किं त्वस्याः परमं रूपम्जीर्णमासीत्कथं पुनः
कन्यारूपमिहाद्यैव किमिवात्रोत्तरं भवेत्
यथा मे परमा शक्तिर्न ह्युत्थास्ये कथञ्चन
न रोचयेहाभ्युत्थानं धृत्यैनां साधयाम्यहम्
युधिष्ठिरः-
न बिभेति कथं सा स्त्री शापस्य परमद्युतेः
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे
भीष्मः
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम्
न चानृतं ते वक्तव्यम्ब्रूहि ब्राह्मणकाम्यया
वृद्धा-
द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम
शृणुष्वावहितस्सर्वम्यदिदं सत्यविक्रम
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते
अव्युत्थानेन ते लोका जितास्सत्यपराक्रम
जिज्ञासेयं प्रयुक्ता मे स्थैर्यं कर्तुं तवानघ
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः
अविश्वासान्न व्यसनी नातिसक्तोऽप्रवासकः
विद्वान्सुशीलः पुरुषस्सदारस्सुखमश्नुते
तुष्टाः पितामहस्तेऽद्य तथा देवास्सवासवाः
सत्यं येन च कार्येण सम्प्राप्तो भगवानिह
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभः
निकृतिस्त्री भोगपरा प्रियवादाप्रवासनात्
रक्ष्यते चा कुचेलाद्यैरप्रसङ्गानुवर्तनैः
अपर्वस्वनिषिद्धासु रात्रिष्वप्यनृतौ व्रजेत्
रात्रौ च नातिनियमो न वै ह्यनियमो भवेत्
प्रेषितश्चोपदेशाय तच्च सर्वं श्रुतं मया
क्षेमी गमिष्यसि गृहान्श्रमश्च न भविष्यति
कन्यां त्वं प्राप्स्यसे विप्र पुत्रिणी च भविष्यति
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम्
अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिस्सदा
गच्छस्व कृतकृत्यरत्वङ्किं वाऽन्यच्छ्रोतुमिच्छसि
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम्
ऋषिप्रवासिता चास्मि तव हेतोर्द्विजर्षभ
तस्य सम्माननार्थं तु त्वयि वाक्यं प्रभाषितम्
भीष्मः-
श्रुत्वा तु वचनं तस्यास्स विप्रस्साञ्जलिस्स्थितः
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत्
गृहमागत्य विश्रान्तस्स्वजनं परिपूज्य च
अभ्यागच्छत तं विप्रम्न्यायतः कुलनन्दन
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम्
प्राह विप्रं तदा विप्रस्सुप्रीतेनान्तरात्मना
अष्टावक्रः-
भवताऽहमनुज्ञातः प्रास्थितो गन्धमादनम्
अस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत्
तया चाहमनुज्ञातो भगवांश्चापि कीर्तितः
श्रावितश्चापि तद्वाक्यङ्गृहमभ्यागतः प्रभो
भीष्मः-
विप्रः-
तमुवाच ततो विप्रः प्रतिगृहीष्व मे सुताम्
नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान्
भीष्मः-
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो
कन्यां प्रगृह्य धर्मात्मा प्रीतिमांश्चाभवत्तदा
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम्
उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः