वैशम्पायनः-
कृष्णद्वैपायनः-
महायोगी तु तं प्राह कृष्णद्वैपायनो मुनिः
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः
पुरा पुत्र मया मेरौ तप्यता परमं तपः
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः
लब्धवानस्मि तं कामं ततोऽहं पाण्डुनन्दन
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि
वैशम्पायनः-
चारुशीर्षस्ततः प्राह शक्रस्य दयितस्सखा
नालम्पावन इत्येवं विश्रुतः करुणात्मकः
नालम्पावनः-
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम्
वैशम्पयनः-
अजराणामदुःखानां शतवर्षसहस्रिणाम्
लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज
वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत
विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत
वाल्मीकिः-
सोऽहमीशानमनघमस्तौषं शरणं गतः
मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः
आह मां त्रिपुरघ्नो वै यशस्तेऽद्य भविष्यति
वैशम्पायनः-
जामदग्न्योऽथ कौन्तेयमाह धर्मभृतां वरः
ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः
जमदग्न्यः-
पुरा क्षत्रवधेनाहमार्तो वै पाण्डवाग्रहात्
शुचिर्भूत्वा महादेवं गतोवाञ्शरणं नृप
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः
परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव हि
पापं तेऽद्य न भविता ते जयश्च भविष्यसि
न ते प्रभविता मृत्युरजरश्च भविष्यसि
वैशम्पायनः-
आह मां भगवान्देवश्शिखण्डी शिवविग्रहः
यदवाप्तं च मे सर्वम्प्रसादात्तस्य धीमतः
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम्
असितोदेवलः-
शापाच्छक्रस्य कौन्तेय गतो धर्मो महद्यशः
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः
वैशम्पायनः-
ऋषिर्गृत्समदो नाम शक्रस्य दयितस्सखा
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः
वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोस्सुतः
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके
वरिष्ठः-
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया
रथन्तरे द्विजश्रेष्ठ न सम्यगनुवर्तते
समीक्षस्व पुनर्बुद्ध्या हर्षं त्याज्य द्विजोत्तम
प्रज्ञया रहितः पापमकार्षीस्त्वं सुदुर्मते
वैशम्पायनः-
एवमुक्त्वा महाक्रोधः प्राह शक्रः पुनर्वचः
प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः
दशवर्षसहस्राणि शतानि दश चाष्ट च
नष्टपानीयपवसे मृगैरन्यैश्च वर्जिते
अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः
वरिष्ठः-
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः
श्रीमहादेवः-
अजरश्चामरश्चैव भविता दुःखवर्जितः
सौम्यत्वमस्तु ते सौम्यं युवयोर्वर्धतां क्रतुः
वरिष्ठः-
अनुग्रहानेवमेष करोति भगवान्विभुः
अयं धाता विधाता च सुखदुःखे च सर्वदा
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा
जैगीषम्यः-
ममाष्टगुणमैश्वर्यं मनोयज्ञेन तोषितः
यत्नेनाल्पेन च विना दत्तवान्भगवान्पुरा
वैशम्पायनः-
पराशरश्चाह मुनिः पुरा मम च तोषितः
महातपा महातेजा महायोगी महायशाः
वेदव्यासः क्रियावासो ब्राह्मण्यः करुणामयः
पराशरः-
अपि सावीप्सितः पुत्रो मम स्याद्वै महेश्वरात्
तमभिज्ञाय मामाह शङ्करस्त्रिपुरार्दनः
पितृकन्या वसोः पुत्री शापाद्दाशगृहोषिता
तस्यां हि दुष्कृतानां च विद्यया शोधकस्सुतः
वेदानां च स वै कर्ता कुरुवंशकरस्तथा
वैशम्पायनः-
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः
भविष्यतीति मामुक्त्वा तत्रैवान्तरधीयत
माण्डव्याश्चाह देवे च भक्तो लोकहितो भवे
माण्डव्यः-
अचोरश्चोरशङ्कायां शूलभिन्नो ह्यहं सदा
श्रीमहादेवः-
तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः
मोक्षं प्राप्स्यसि शूलाग्राद्विष्यसि समाऽयुतम्
रुजा शूलकृता चैव न ते विप्र भविष्यति
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि
अमर्षं समलङ्कर्तं शक्तो निर्विघ्नधर्मभाक्
तीर्थाभिषेकं सकलं त्वमविघ्नेन चाप्स्यसि
स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम्
माण्डव्यः-
एवमुक्त्वा स भगवान्वरेण्यो वृषवाहनः
महेश्वरो महाराज कृत्तिवासा महाद्युतिः
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत
गालवः-
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः
अब्रवीन्मां ततो माता दृष्ट्वाऽस्मत्पितरं मृतम्
गालवमाता-
कौशिकेनाभ्यनुज्ञातं पुत्रं देवविभूषितम्
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ
गालवः-
श्रुत्वा जनन्या वचनं शोकाच्छर्वमतोषयम्
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम्
श्रीमहादेवः-
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये
गालवः-
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर
अपश्यं पितरं तात इष्टिं कृत्वा विनिस्सृतम्
गालवपिता-
दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इवागतः
स जीवितश्च मां प्राह पिता सास्राविलेक्षणः
प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव
वैशम्पायनः-
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः
प्रोक्तानि मुनिभिश्श्रुत्वा विस्मयामास पाण्डवः
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः
युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः
श्रीभगवान्-
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो वसवश्च विश्वे
धाताऽर्यमा शुक्रबृहस्पती च रुद्रास्ससाध्या वरुणो़ विश्वगोप्ता
ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं वेदा यज्ञा दक्षिणा यज्ञवाहाः
सोमो यष्टा यच्च हव्यं हव्यं हविश्च रक्षा दीक्षा नियमा ये च केचित्
स्वाहा वेदा ब्राह्मणास्सौरभेयी धर्म्यं चक्रं कालचक्रं परं च
यशो दमो भूतिमतिस्तिथिश्च शुभाशुभं मुनयो ये च सप्त
अग्र्या सिद्धिर्मनसो दर्शने च स्वार्थोऽसिद्धिः कर्मणा या च सिद्धिः
गणा देवानामूष्मपास्सोमपाश्च रेखास्सुयामास्तुषिता ब्रह्मकायाः
आभास्वरा गन्धपा वृष्टिपाश्च वाचो विरुद्धाश्च मनोविरुद्धाः
शुद्धाश्च निर्माणरताश्च देवस्स्पर्शाशना दर्शपा आज्यपाश्च
चितागता ये च देवेषु मुख्या ये चाप्यन्या देवता आजमीढ
सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा पन्नगचारणाश्च
सूक्ष्मं स्थूलं मृदु चाप्यसूक्ष्मं सुखं दुःखं सुखदुःखान्तरं च
सौख्यं योगो तत्पराणां परं च शर्वाज्ज्ञातं विद्धि यत्कीर्तितं मे
तं वै प्रभुं मनसा तोषयामि किन्तेत्वन्त प्राणहेतोर्नतास्सम
ददातु वेदस्स वरानिहेष्टानभिष्टुतोः यः प्रभुरव्ययस्सदा
इमं स्तवं सन्नियतेन्द्रियाणि शुचिर्भूत्वा यः पुरुषः पठेत
अभग्नयोगो नियतस्त्वब्दमेकं सम्प्राप्नुयादश्वमेधे फलं यत्
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयात्तु जयेद्राजा पृथिवीं प्राप्य कृत्स्नाम्
वैश्यो लाभं प्राप्नुयाद्वै धनं च शूद्रो यथा प्रेत्य गतिं च राजन्
स्तवराजमिमं भक्त्या रुद्रस्य च महात्मनः
सर्वदोषापहं पुण्यम्श्रृणुयाच्छ्रावयेत वा
यावन्त्यस्य शरीरेषु रोमकूपाणि भारत
तावद्वर्षसहस्राणि स्वर्गे वसति मानवः
तत्सम्भूता भूतभूता वरेण्याः पूर्वे देवा भुवनस्यास्य गोपाः
आविश्येमां धरणीं ये ह्यक्षरन्पुरातनास्तस्य देवस्य सृष्टिम्