युधिष्ठिरः-
पितामह महेशाय नामान्याचक्ष्व शम्भवे
विदुषे विश्वमायाय महाभाग्यं च तत्त्वतः
भीष्मः-
सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि
शिवाय शिवरूपाय यन्माऽपृच्छद्युधिष्ठिरः
नाम्नां सहस्रं देवस्य तद्विदा ब्रह्मवादिना
निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराऽभवत्
द्वैपायनप्रभृतयस्तथैवैते तपोवधनाः
ऋषयस्सुव्रता दान्ताश्शृण्वन्तु गदतस्तव
श्रीभगवान्-
ध्रुवाय नन्दिने नेत्रे गोप्त्रे विश्वसृजेऽग्नये
महाभाग्यं विभो र्ब्रूहि मुण्डिनेऽथ कपर्दिने
न शक्यं कर्मणां वेत्तु गतिमीशस्य तत्त्वतः
हिरण्यगर्भप्रमुखास्सेन्द्रा देवा महर्षयः
न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः
स कथं नाममात्रेण शक्यो ज्ञातुं सतां गतिः
तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान्
भवतां कीर्तयिष्यामि प्रणम्येशं यथातथम्
वैशम्पायनः-
एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः
उपस्पृश्य शुचिर्भूत्वा कथयामास तत्त्वतः
श्रीभगवान्-
शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर
त्वं चापगेय नामानि निशामय जगत्पतेः
यदवाप्तं च मे पूर्वं साम्बहेतोस्सुदुष्करम्
यथा भगवान्दृष्टो मया पूर्वं समाधिना
शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता
अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम्
चारुदेष्णप्रभृतिकान्रुक्मिण्या वीक्ष्य वै सुतान्
पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर
जाम्बवती-
शूरं बलवतां श्रेष्ठं कीर्तिरूपमकल्मषम्
आत्मतुल्यं मम सुतं प्रयच्छाच्युत मा चिरम्
न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किञ्चन
लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह
त्वया द्वादशवर्षाणि तपस्तप्त्वा जगद्गुरुम्
आराध्य पशुभर्तारं रुक्मिण्यां जनितास्सुताः
चारुदेष्णस्सुचारुश्च चारुवेषो यशोधरः
चारुश्रवाश्चारुयशाः प्रद्युम्नश्शम्भुरेव च
श्रीभगवान्-
यथा ते जनिताः पुत्रा रुक्मिण्यां चारुविक्रमाः
तथा ममापि तनयं प्रयच्छाच्युत मा चिरम्
इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम्
अनुजानीहि मां राज्ञि करिष्ये वचनं तव
सा च मामब्रवीद्गच्छ विजयाय शिवाय च
ब्रह्मा शिवः काश्यपश्च नदा नद्यो मनोनुगाः
क्षेत्रौषध्यो यज्ञवाहाश्छन्दांस्यृषिगणास्तथा
समुद्रा दक्षिणान्ताश्च ऋक्षाणि पितरो ग्रहाः
देवपत्न्यो देवकन्या देवमातर एव च
मन्वन्तराणि गावश्च चन्द्रमास्सविता हरिः
सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः
क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः
रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहाः
रक्षां कुर्वन्त्वरिष्टं त्वमप्रमत्तो व्रजाच्युत
एवं कृतस्वस्त्ययनस्तयाऽहं तामभ्यनुज्ञाय च राजपुत्रीम्
पितुस्समीपं नरसत्तमस्य मातुश्च राज्ञश्च तथाऽऽहुकस्य
तदर्थमावेद्य यदब्रवीन्मां विद्याधरेन्द्रस्य सुता भृशं तदा
सा मामनुज्ञाय ततोऽतिदुःखात्सुभ्रूस्तथैवाग्निशयेन तेन
अभ्यनुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम्
सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम्
तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे
क्षेत्रं च तपसश्रेष्ठं पश्याम्याश्रममुत्तमम्
दिव्यं वैयाघ्रपदस्य उपमन्योर्महात्मनः
पूजितं देवगन्धर्वैर्ब्राह्म्या लक्ष्म्या समावृतम्
धवककुभकदम्बनारिकेलैः कुरवककेतकजम्बुपाटलाभिः
वटवरुणकवत्सनाभबिल्वैरसनकपित्थप्रियालसालतालैः
बदरेङ्गुदपुन्नागैरशोकाम्रातिमुक्तकैः
भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा
अन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम्
नित्यपुष्पफलोपेतैर्वृक्षैरविरलैर्वृतम्
पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम्
विशालैर्यज्ञशरणैर्यथास्थानाहिताग्निभिः
रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम्
कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम्
नानापुष्परजोमिश्रो गजदानाधिवासितः
दिव्यस्त्रीगीतमधुरो मारुतोऽत्र सुखो ववौ
नानानिनादैर्विहगप्राणादैश्शुभैस्तथा बृंहितैः कुञ्जराणाम्
गीतैस्तथा किन्नराणामुदारैर्विद्यास्वनैर्भूषितं विप्रमुख्यैः
विभूषितं पुण्ययवित्रतोयया सर्वत्र जुष्टं नृप जह्नुकन्यया
महात्मभिर्धर्मभृतां वरिष्ठैर्महर्षिभिर्भूषितमग्निकल्पैः
वाय्वाहारैरम्बुपैर्जप्यनित्यैस्सम्प्रक्षालैर्यतिभिर्ध्यानमुख्यैः
धूमाशनैरूष्णपैः क्षीरपैश्च विभूषितं ब्राह्मणेन्द्रैस्समन्तात्
तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे
सेवितं द्विजशार्दूलैर्वेदवेदाङ्गपारगैः
नानानियमविख्यातैर्ऋषिभिश्च महात्मभिः
प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम्
तेजसा तपसा चैव दीप्यमानं यथाऽनलम्
शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम्
शिरसा वन्दमानं मामुपमन्युरभाषत
उपमन्युः-
स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः
यः पूज्यः पूजयसि मां द्रष्टव्यो द्रष्टुमिच्छसि
मनुष्यतानुवृत्त्या त्वा ज्ञात्वा तिष्ठाम सर्वगम्
श्रीभगवान्-
तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु
धर्मे च शिष्यवर्गे च तदाऽपृच्छमनामयम्
ततो मां भगवानाह साम्ना परमवल्गुना
उपमन्युः-
वेत्स्यसे तनयं कृष्ण आत्मतुल्यं न संशयः
तपस्सुमहदास्थाय तोषयेशानमीश्वरम्
इह देवस्सपत्नीकस्सदाक्रीडत्यधोक्षज
इहैव दैवताश्रेष्ठं देवास्सर्षिगणाः पुरा
तपसा ब्रह्मचर्येण सत्येन च दमेन च
तोषयित्वा शुभान्कामान्प्राप्नुवंस्ते जनार्दन
तेजसां तपसां चैव निधिस्स भगवानिह
शुभाशुभान्विभुर्भावान्विसृजन्सङ्क्षिपन्नपि
आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन्
हिरण्यकशिपुर्योऽभूत्तपसा मेरुकम्पनः
तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम्
तस्यैव पुत्रप्रवरो दमनो नाम विश्रुतः
महादेववराच्छक्रं वर्षायुतमयोधयत्
विष्णोश्चक्रं च तद्धोरं वज्रमाखण्डलस्य च
शीर्णं तथा भागवतं हरस्याङ्गेषु केशव
अर्द्यमानाश्च विबुधा ग्रहेण बलीयसा
शिवदत्तवराद्राजन्नसुरेन्द्रान्सुरा भृशम्
तृष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात्
शतं वर्षसहस्राणां स च लोकेश्वरोऽभवत्
ममैवानुचरो नित्यं भवितासीति चाब्रवीत्
तथा पुत्रसहस्राणामयुतं प्रददौ प्रभुः
कुशद्वीपं च स ददौ योगं च भगवानजः
योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः
वालखिल्या मघवता अवज्ञाताः पुरा भवन्
तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितोऽभवत्
तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो प्रजापतिः
सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ
महादेवस्य रोषाच्च आपो नष्टाः पुरा भवन्
ताश्चापस्सुप्तकालेन देवैरप्यप्रवर्तिताः
अत्रेर्भार्या हि भर्तारं सन्त्यज्य ब्रह्मवादिनम्
नाहं तव मुने भूयो वशगा स्यां कथञ्चन
इत्युक्त्वा सा महादेवमगमच्छरणं किल
निराहारा भयादत्रेस्त्रीणि वर्षशतान्यथ
अतप्यत पतश्चापि प्रसादार्थं भवस्य ह
तामब्रवीन्महादेवो भविता वै सुतस्तव
सावर्णिश्चैव नाम्ना च ख्यातिं यास्याति चेति ताम्
सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे
इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ
तमाह भगवान्रुद्रस्साक्षात्तुष्टोऽस्मि तेऽनघ
ग्रन्थकृल्लोकविख्यातो भविष्यस्यजरामरः
शाकल्यो ग्रन्थकर्ता च सावर्णिश्च तदाऽभवत्
बाणस्स्कन्दसमत्वं च कामो दर्पविमोक्षणम्
लवणोऽवध्यतामन्यैर्दशास्यश्च पुनर्बलम्
अन्तकोऽन्तमनुप्राप्तस्तस्मात्कोऽन्यः परः प्रभुः
मयाऽपि च यथा दृष्टो देवदेवः पुरा विभो
साक्षात्पशुपतिस्तात तच्चापि शृणु माधव
यदर्थं च महादेवः प्रयत्नेन मया पुरा
आराधितो वासुदेव तच्चापि शृणु विस्तरात्
यदवाप्तं च मे पूर्वं महादेवान्महेश्वरात्
तत्सर्वमखिलेनाद्य कथयिष्यामि तेऽनघ
पुरा कृतयुगे तात ऋषिरासीन्महातपाः
व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः
तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः
केनचित्त्वथ कालेन धूम्रेण सह माधव
गतवानाश्रमान्क्रीडन्मुनीनां भावितात्मनाम्
तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी
भक्षितं च मया क्षीरं स्वादु तस्यामृतोपमम्
तदाप्रभृति चैवाहमरुदं मधुसूदन
दीयतां दीयतां क्षीरं मम मातरितीरितम्
ततः पिष्टं समालोड्य तोयेन सह माधव
अपाययत्क्षीरमिति पानार्थमुपनीय सा
अथ गव्यं पयस्तात कदाचित्प्राशितं मया
ततः पिष्टमयं कृष्ण न मे प्रीतिमुदावहत्
ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा
क्षीरान्नेन समायुक्तं भोजनं च प्रयच्छ मे
ततो मामब्रवीन्माता स्नेहाद्दुःखसमन्विता
परिष्वज्याङ्कमारोप्य मूर्ध्नि चाघ्राय माधव
उपमन्युजननी-
कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम्
वने निवसतां नित्यं शाकमूलफलाशिनाम्
अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम्
कुतः क्षीरोदनं वत्स सुखानि गतयोऽपिवा
सर्वकारणभूतोऽयं धाता रुद्रस्त्रिलोचनः
अष्टबाहुर्जटी नागभूषणश्चन्द्रशेखरः
नागोषवीती सगणो नीलकण्ठ उमापतिः
सुदंष्ट्रस्सुस्मितो नागकुण्डलो भस्मभासितः
सर्वकामप्रदो भक्त्या पूजितः पुष्पमूलकैः
तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम्
भक्त्या प्रत्यक्षतां नीतस्सर्वकाम्रदो हरः
उपमन्युः-
जनन्यास्तद्वचश्श्रुत्वा तदाप्रभृति शत्रुहन्
मम भक्तिर्महादेवे नैष्ठिकी समपद्यत
ततोऽहं तप आस्थाय तोपयामास शङ्करम्
दिव्यं वर्षसहस्रं तु वामाङ्गुष्ठाग्रविष्ठितः
एकं वर्षशतं चैव फलाहारस्ततोऽभवम्
द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः
शतानि सप्त चैवाहं वायुभक्षस्तदाऽभवम्
ततः प्रीतो महादेवो नीलकणठो जगत्प्रभुः
शक्ररूपं समास्थाय सर्वैर्देवगणैर्वृतः
ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम
वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते
शक्रस्य तद्वचश्श्रुत्वा नाहं प्रीतमना भवम्
अब्रवं च तदा कृष्ण देवराजमिदं वचः
नाहं शक्राद्वरं काङ्क्षे न चान्यादिति चाब्रवम्
महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते
पशुपतिवचनाद्भवामि सद्यः कृमिरथवा तरुरप्यनेकशाखः
अपशुपतिवरप्रदानजा मे त्रिभुवनराज्यविभूतिरप्यनिष्टा
अपि कीटः पतङ्गो वा भवेयं शङ्कराज्ञया
न तु शक्र त्वया दत्तं त्रैलोक्यमपि काङ्क्षये
यावच्छशाङ्कशकलामलबद्धमौलिर्न प्रीयते पशुपतिर्भगवान्ममेशः
तावज्जरामरणजन्मशताभिघातैर्दुःखानि देव विहितानि समुद्वहानि
शक्रः-
कः पुनस्तव हेतुवै ईशः कारणकारणम्
येन देवादृते सौम्य प्रसादं नाभिकाङ्क्षसे
उपमन्युः-
एष एव महान् हेतुर्ईशः कारणकारणम्
शुश्रुमो वा यदन्यस्य देवमभ्यर्चितं सुरैः
कस्यान्यस्य सुरैस्सर्वैर्लिङ्गं मुक्त्वा महेश्वरम्
अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतम्
यस्य ब्रह्म च विष्णुश्च त्वं च शक्र सहमरैः
अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः
दिवसकरशशाङ्कवह्निनेत्रं त्रिभुवनसारमपारमीशमाद्यम्
अजरममरमप्रसाद्य रुद्रं जगति पुमानिह को लभेत शान्तिम्
धिक्तेषां धिक्तेषां पुनरपि धिगस्तु धिक्तेषाम्
येषां न वसति हृदये कुपथगतिविमोक्षको रुद्रः
तस्माद्वरमहं काङ्क्षे निधनं वाऽपि कौशिक
गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन
काममेष वरो मेऽस्तु शापो वाऽपि महेश्वरात्
न चान्यां देवतां काङ्क्षे सर्वकामफलान्यपि
एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः
न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन्
अथापश्यं क्षणेनैव तमेवैरावतं पुनः
वृषरूपधरं साक्षात्क्षीरोदमिव सागरम्
जाम्बूनदेन रत्नैश्च सर्वतस्समलङ्कृतम्
कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम्
रत्नश्रृङ्गं सुपादं च सुकण्ठं सुकटीतटम्
सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम्
ककुदं तस्य चाभाति स्कन्धमापूर्य विष्ठितम्
तुषारगिरिकुब्जाभं सिताभ्रशिखरोपमम्
तभास्थितश्च भगवान्देवदेवस्सहोमया
अशोभत महाराज पौर्णमास्यामिवोडुराट्
किरीटं च जटाभारः सर्पाद्याभरणानि च
वज्रादिशूलमातङ्गगम्भीरस्मितमागतम्
तस्य तेजोद्भवो वह्निस्समेघस्स्तनयित्नुमान्
सहस्रस्येव सूर्याणां तेज आवृत्य तिष्ठति
ईश्वरस्य तदा तेजास्संवर्तक इवानलः
युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः
तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये महेश्वरे
पुनरुद्विग्नहृदयः किं करोमीत्यचिन्तयम्
मुहूर्तेनैव तत्तेजो व्याप्य सर्वा दिशो दश
प्रशान्तं च क्षणेनैव देवदेवस्य मायया
अथापश्यं स्थितं तात भगवन्तं महेश्वरम्
सौरभेयगतं सौम्यं विधूममिव पावकम्
प्रशान्तमनसं देवं त्रिनेतुमपराजितम्
सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम्
नीलकण्ठं महात्मानं हर्यक्षं तेजसां निधिम्
अष्टादशभुजं देवं सर्वाभरणभूषितम्
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम्
शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम्
गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः
वृतं पारिषदौर्दिव्यैरात्मतुल्यपराक्रमैः
त्रिभिर्नेत्रैः कृतोद्योतं त्रिभिस्सूर्यैरिवोदितैः
सर्वविद्याधिपं देवं शरच्चन्द्रसमप्रभम्
नयनाह्लादसौम्योऽहमपश्यं परमेश्वरम्
अशोभत च देवस्य माला गात्रे सितप्रभा
जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता
मूर्तिमन्ति महास्त्राणि तस्य देहोद्भवानि च
मया दृष्टानि गोविन्द भवस्यामिततेजसः
इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः
पिनाकमिति विख्यातं स च वै पन्नगो महान्
सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्वणः
ज्यावेष्टितमहाग्रीवस्स्थितः पुरुषविग्रहः
शरश्च सूर्यसङ्काशो दृष्टः पाशुपताह्वयः
सहस्रभुजजिह्वास्यो भीषणो नागविग्रह
शङ्खशूलासिभिश्चैव पट्टसै रूपवान्स्थितः
येन च त्रिपुरं दग्धं सर्वदेवमयश्शरः
शूलं च यौवनोपेतं लवणस्य करे स्थितम्
यत्तदस्त्रं महाघोरं दिव्यं पाशुपतं महत्
अद्वितीयमनिर्देश्यं सर्वभूतभयावहम्
सस्फुलिङ्गं महाघोरं विसृजन्तमिवार्चिषम्
एकपादं महादंष्ट्रासहस्रशिरसोदरम्
सहस्रभुजजिह्वास्यमुद्गिरन्तमिवानलम्
ब्राह्मान्नारायणादैन्द्रादाग्नेयाच्च सवारुणात्
यत्प्रकृष्टं महाबाहो सर्वशस्त्रविघातनम्
येन च त्रिपुरं दग्धं क्षणाद्भगवता पुरा
शरेणैकेन गोविन्द महादेवेन लीलया
निर्दहेदपि यत्कृत्स्नं जगत्स्थावरजङ्गमम्
महेश्वरभुजोत्सृष्टं निमेषात्तन्न संशयः
नानावर्णस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि
तद्दृष्टवानहं तत्र आश्चर्यमिदमुत्तमम्
गुह्यमस्त्रं परञ्चापि तत्तुल्यमधिकमेव वा
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः
दारयेद्वा महीं कृत्स्नां शोषयेद्वा महोदधीन्
संहरेद्वा जगत्कृत्स्नं निर्दिष्टं शूलपाणिना
यौवनाश्वो हतो येन मान्धाता सबलः पुरा
चक्रवर्ती महातेजास्त्रिलोक्यविजयी नृपः
महाबलो महावीर्यश्शक्रतुल्यपराक्रमः
करस्थेनैव गोविन्द लवणस्येह रक्षसः
तच्छूलमतितीक्ष्णाग्रं सुभीमं रोमहर्षणम्
त्रिशिखां भ्रुकुटिं कृत्वा तर्जयन्तमिव स्थितम्
सधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम्
सर्पहस्तमनिर्देश्यं पाशहस्तामिवान्तकम्
दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसन्निधौ
परमं तीक्ष्णधारं च शस्त्रं तस्यापि यत्पुराः
महादेवेन तुष्टेन दत्तं भृगुसुताय च
त्रिस्सप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता
जामदग्न्येन वीरेण रामेणाक्लिष्टकर्मणा
तीक्ष्णधारश्च रौद्रश्च सर्पकण्ठार्धवेष्ठितः
अभवच्छुचिनोऽभ्याशे दीप्तवह्निशिखोपमः
असङ्ख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः
प्राधान्यतो मयैतानि कीर्तितानि तवानघ
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः
दिव्यं विमानमास्थाय हंसयुक्तमवस्थितः
वामपार्श्वगतश्चापि तथा नारायणस्स्थितः
वैनतेयं समास्थाय स्थितो देव्यास्समीपतः
शक्तिं कण्ठे समास्थाय द्वितीय इव पावकः
पुरस्ताद्देवदेवस्य नन्दिं पश्याम्यवस्थितम्
शूलं विष्टभ्य तिष्ठन्तम्द्वितीयमिव शङ्करम्
स्वायम्भुवाद्या मनवो भृग्वाद्या ऋषयस्तथा
शक्राद्या देवताश्चैव सर्व एव समभ्ययुः
तेऽभिवाद्य महात्मानम्परिवार्य समन्ततः
अस्तुवन्विविधैस्स्तोत्रैर्महादेवं सुरास्तदा
जगन्मूर्ति महालिङ्गम्तन्मध्ये स्फीतरूपिणम्
ब्रह्मा भवं तदा स्तुत्वा रथन्तरमुदीरयन्
ज्येष्ठसाम्ना च देवेशम्जगौ नारायणः प्रभुम्
जगौ शक्रः परं ब्रह्म शतरुद्रीयमुत्तमम्
ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः
अशोभन्त महाबाहो त्रयस्त्रय इवाग्नयः
तेषां मध्यगतो देवो रराज भगवाञ्छिवः
शरद्धनविनिर्मुक्तः परिविष्ट इवांशुमान्
ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रत
नमो देवादिदेवाय महादेवाय वै नमः
शक्राय शक्ररूपाय शक्रवेषधराय च
नमोऽस्तु वज्रहस्ताय पिङ्गलायारुणाय च
पिनाकपाणये नित्यं खङ्गचर्मधराय च
नमोऽस्तु कृष्णवासाय कृष्णकुञ्जितमूर्धज
कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च
शुक्लाय शुक्लवर्णाय शुक्लाम्बरधराय च
शुक्लभस्माङ्गदिग्धाय शुक्लभस्मरताय च
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः
आत्मा च सर्वभूतानां साङ्ख्यैः पुरुष उच्यते
ऋषभस्त्वं पवित्राणां योगिनां कपिलश्शिवः
आश्रमाणां गृहस्थस्त्वमीश्वराणां महेश्वरः
कुबेरस्सर्वयक्षाणां क्रमतां विष्णुरुच्यते
पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः
वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यते
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः
ग्राम्याणां गोवृषश्चासि भवाँल्लोकप्रपूजितः
आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः
पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च
सामवेदश्च वेदानां यजुषां शतरुद्रियम्
सनत्कुमारो योगीनां साङ्ख्यानां कपिलो मुनिः
शक्रो हि मरुतां देव पितॄणां धर्मराडपि
ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यते
क्षीरोदस्सागराणां च शैलानां हिमवान्गिरिः
वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः
आदिस्त्वमसि लोकानां संहर्ता काल एव च
यच्चान्यदपि लोकेऽस्मिन्सत्त्वं तेजोधिकं स्मृतम्
तत्सर्वं भगवानेव इति मे निश्चिता मतिः
नमस्ते भगवन्देव नमस्ते भक्तवत्सल
योगेश्वर नमस्तेऽस्तु नमस्ते विशवसम्भवे
प्रसीद मम भक्तस्य दीनस्य कृपणस्य च
अनैश्वर्येण युक्तस्य गतिर्भव सनातन
यच्चापराधं कृतवानज्ञात्वा परमेश्वर
मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि
मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात्
तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर
एवमुक्त्वा तमीशानं पाद्यमर्घ्यं च भक्तितः
कृताञ्जलिपुटो भूत्वा तस्मै सर्वं न्यवेदयम्
ततश्शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता
पुष्पवृष्टिश्शुभा तात मम मूर्धनि चापतत्
दुन्दुभिश्च तदा दिव्यस्ताडितो देवकिङ्करैः
ववौ च मारुतः पुण्यश्शुचिगन्धस्सुखावहः
ततः प्रीतो महादेवस्सर्वलोकेश्वरः प्रभुः
अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा
श्रीमहादेवः-
पश्यध्वं त्रिदशास्सर्वे उपमन्योर्महात्मनः
मयि भक्तिं परां दिव्यामेकभावादवस्थिताम्
उपमन्युः-
एवमुक्तास्ततः कृष्ण सुरास्ते शूलपाणिना
ऊचुः प्राञ्जलयो भूत्वा नमस्कृत्वा वृषध्वजम्
देवाः-
भगवन्देवदेवेश लोकनाथ जगत्पते
लभतां सर्वकामेभ्यो वरं त्वत्तो द्विजोत्तमः
उपमन्युः-
एवमुक्तस्ततश्शर्वस्सुरैर्ब्रह्मादिभिस्तथा
आह मां भगवानीशः प्रहसन्निव शङ्करः
श्रीमहादेवः-
वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुङ्गव
दृढभक्तोऽसि विप्रेन्द्र मया जिज्ञासितो ह्यसि
अनया चैव भक्त्या वै अत्यर्थं प्रीतिमानहम्
तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथोप्सितान्
उपमन्युः-
एवमुक्तस्य ततस्तात महादेवेन धीमता
हर्षादश्रूण्यवर्तन्त रोमहर्षश्च जायते
अब्रवं च तदा देव हर्षगद्गदया गिरा
जानुभ्यामवनीं गत्वा प्रणम्य च पुनःपुनः
अद्य जातो ह्यहं देव अद्य मे सफलं तपः
यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः
यं शक्राद्या न पश्यन्ति देवाश्चमितविक्रमाः
तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया
एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम्
षड्विंशकमति ख्यातं यत्परात्परमक्षयम्
स एष भगवान्देवस्सर्वसत्त्वादिरव्ययः
सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः
योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसम्भवम्
वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरम्
युगान्ते समनुप्राप्ते रुद्रं प्रभुरथासृजत्
स रुद्रस्संहरन्कृत्स्नं जगत्स्थावरजङ्गमम्
कालो भूत्वा परं ब्रह्म याति संवर्तकानलः
अयमेव महादेवो जगत्कृत्स्नं चराचरम्
कल्पादौ चैव सर्वेषां स्मृतिमाक्रम्य तिष्ठति
सर्वगस्सर्वभूतात्मा सर्वभूतभवोद्भवः
आस्ते सर्वगतो नित्यमदृश्यस्सर्वदैवतैः
तं त्वा प्रणम्य शिरसा प्रसाद्य प्रार्थये प्रभो
भक्तिर्भवतु मे नित्यं शाश्वती त्वयि देव शङ्कर
अतीतानागतं चैव वर्तमानं च नित्यशः
जानीयामिति मे बुद्धिस्त्वत्प्रसादात्सुरेश्वर
क्षीरोदनं च भुञ्जीयां सक्षीरं सह बान्धवैः
आश्रमे च सदा मह्यं सान्निध्यं परमस्तु ते
एवमुक्तस्स मां प्राह भगवाँल्लोकपूजितः
ईश्वरोऽयं महातेजाश्चराचरगुरुःप्रभुः
श्रीमहादेवः-
अजरश्चामरश्चैव भव त्वं दुःखवर्जितः
शीलवाञ्गुणसम्पन्नस्सर्वज्ञः प्रियदर्शनः
अक्षयं यौवनं चैव कुलं गोत्रं तथैव च
क्षीरोदस्सागरश्चैव यत्र यत्रेच्छसे मुने
तत्र तत्रैव सान्निध्यं करिष्यामि न संशयः
उपभुज्य पयस्तात अमृतेन समन्वितम्
बन्धुभिस्सहितः कल्पं ततो मामुपयास्यसि
तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि
स्मृतस्स्मृतश्च ते वत्स पुनर्यास्यामि दर्शनम्
सान्निध्यमाश्रये नित्यं करिष्यामि तवानघ
उपमन्युः-
एवमुक्त्वा महादेवस्सूर्यकोटिसमप्रभः
ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत
एवं दृष्टो मया कृष्ण देवदेवसस्माधिना
तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता
प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धानवस्थितान्
ऋषीन्विद्याधरान्यक्षान्गन्धर्वानप्सरोगणम्
पश्य वृक्षाननौपम्यान्सदा पुष्पफलान्वितान्
सर्वर्तुकुसुमैर्युक्तान्स्निग्धपत्रान्सुशाखिनः
एवमेतन्महादेवाल्लब्धवानस्मि केशव
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः
कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव
त्वादृशेन हि देवानां श्लाघनीयस्समागमः
ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत
जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शङ्करम्
श्रीभगवान्-
अब्रवं तमहं ब्रह्मन्त्वत्प्रसादान्महामुने
द्रक्ष्ये दितिजसङ्घानां मर्दनं त्रिदशेश्वरम्
दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि
दण्डी मुण्डी कुशी चीरि घृताक्तो मेखली तथा
मासमेकं फलाहारो द्वितीयं सलिलाशनः
तृतीयं च चतुर्थं च पञ्चमं चानिलानशः
एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः
तेजस्सूर्यसहस्रस्य अपश्यं दिवि भारत
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन
इन्द्रायुधपिनद्धाङ्गं विद्युन्मालाविभूषितम्
नीलशैलचयप्रख्यं बलाकाभूषितं धनम्
तमास्थितश्च भगवान्देव्या सह महाद्युतिः
तपसा तेजसा कान्त्या दीपयन्सह भार्यया
रराज भगवांस्तत्र देव्या सह महेश्वरः
सोमेन सहितस्सूर्यो यथा मेघस्थितस्तथा
संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः
अपश्यं देवसङ्घानां गतिमार्तिहरं हरम्
किरीटिनं जटिलं शूलपाणिं पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रम्
शुभाङ्गदं व्यालयज्ञोपवीतम् दिव्यां मालामुरसा नैकवर्णाम्
समुद्वहन्तं गुल्फदेशावलम्बाम् सूर्यं यथा परिविष्टं ससन्ध्यम्।
वर्षात्यये तद्वदपश्यमेनं महेश्वरं नन्दिविनायकाद्यैः
प्रमथानां गणैश्चैव समन्तात्परिवारितम्
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम्
एकादशशताश्चैनं रुद्रास्सगणबान्धवाः
अस्तुवन्नियतात्मानः कर्मभिश्शुभकर्मिणः
आदित्या वसवस्साध्या विश्वे देवास्तथाऽश्विनौ
विश्वाभिस्स्तुतिभिश्चैनं नीलकण्ठमुमापतिम्
योगीश्वरास्सुबहवो महेशं बहुधाऽस्तुवन्
महाभूतानि च्छन्दांसि प्रजानां पतयो मखाः
सरितस्सागरा नागा गन्धर्वप्सरसस्तथा
विद्याधराश्च गीतेन वाद्यनृत्तादिनाऽर्चयन्
तेजस्विनां मध्यगतम्तेजोराशिं जगत्पतिम्
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा
ततो देवेन पश्यति वदस्वेत्यभिभाषितः
दृष्ट्वा देवं तथा देवीमसतुवं संस्तुतं सुरैः
नमोस्तु ते शाश्वत सर्वयोगिने ब्राह्माधिपं त्वामृषयो वदन्ति
तपश्च सत्त्वं च रजस्तमश्च त्वामेव सर्वंं प्रवदन्ति सन्तः
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः
धाता त्वष्टा विधाता च त्वं प्रभुस्सर्वतोमुखः
त्वत्तो जातानि भूतानि स्थावराणि चराणि च
त्वमादिस्सर्वभूतानां संहर्ता च त्वमेव हि
ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं ये वायवस्सप्त तथैव चाग्निः
ये देहस्था देवताश्चापि पुंसां तस्मात्परं त्वामृषयो वदन्ति
वेदा यज्ञाश्च सोमश्च दक्षिणाः पावकः पुनः
यज्ञोपाङ्गं च यत्किञ्चिद्भगवांस्तदसंशयम्
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये
ह्रीः कीर्तिश्श्रीर्धृतिस्तुष्टिस्सिद्धिश्चैव तदर्पणाः
कामः क्रोधो भयं लोभो मदस्स्तम्भोऽथ मत्सरः
आधयो व्याधयश्चैव भगवंस्तनवस्तव
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययः
मनसः परमा योनिस्स्वभावश्चेतना धृतिः
अव्यक्तपावन विभो सहस्रांशो हिरण्मयः
आदिर्गणानां सर्वेषां भवान्वैजीविनाश्रयः
महानात्मा मतिर्ब्रह्मा विश्वं शम्भुस्स्वयम्भुवः
बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिस्स्मृतिः
पर्यायवाचकैश्शब्दैर्महानात्मा विभाव्यसे
त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति
हृदयं सर्वभूतानां क्षेत्रज्ञस्स्वृषिभिस्स्तुतः
सर्वतः पाणिपादस्त्वम्सर्वतोऽक्षिशिरोमुखः
सर्वतश्श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि
कालस्त्वमसि तिग्मांशोर्निमेषादिषु कर्मसु
त्वं वै प्रभार्चिः पुरुषस्सर्वस्य हृदि निश्चितः
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नास्संश्रिताश्च ये
ध्यायिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः
यस्त्वां ध्रुवं वेदयते गुहाशयं कविं पुराणं पुरुषं विश्वरूपम्
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः
प्रधानविधियोगस्थस्त्वामेव विशते बुधः
एवमुक्ते मया पार्थ भवे चार्तिविनाशने
चराचरं जगत्सर्वं सिंहनादमथाऽकरोत्
सविप्रसङ्घाश्च सुरासुराश्च नागाः पिशाचाः पितरो वयांसि
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव तदा प्रणेमुः
मम मूर्धनि दिव्यानां कुसुमानां सुगन्धिनाम्
राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ
निरीक्ष्य भगवान्देवीं मुखं मां च जगद्धितः
शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः
श्रीमहादेवः-
विद्वन्कृष्ण परा भक्तिरस्मासु तव शत्रुहन्
क्रियतामात्मनश्श्रेयः प्रीतिर्हि परमा त्वयि
वृणीष्व च वरान्कृष्ण तव दातास्मि सत्तम
ब्रूहि यादवशार्दूल यानिहेच्छसि दुर्लभान्