युधिष्ठरः-
आत्मन्यग्नीन्समाधाय य एते कुरुनन्दन
द्विजातयो व्रतोपेता जपयज्ञपरायणाः
यजन्त्यारम्भयज्ञैश्च मानसं यज्ञमास्थिताः
अग्निभ्यश्च परं नास्ति येषामेषा व्यवस्थितिः
तेषां गतिर्महाप्राज्ञ कीदृशी किम्पराश्च ते
एतदिच्छामि तत्वेन त्वत्तश्श्रोतुं पितामह
भीष्मः-
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
वैकुण्ठस्य च संवादं सुपर्णस्य च भारत
अमृतस्य समुत्पत्तौ देवानामसुरैस्सह
षष्टिवर्षसहस्राणि दैवासुरमवर्तत
तत्र देवास्तु दैतेयैर्वध्यन्ते भृशदारुणैः
त्रातारं नाधिगच्छन्ति वध्यमाना महासुरैः
आर्तास्ते देवदेवेशं प्रपन्नाश्शरणैषिणः
पितामहं महाप्राज्ञं वध्यमानास्सुरेतरैः
ता दृष्ट्वा देवता ब्रह्मा सम्भ्रान्तेन्द्रियमानसः
वैकुण्ठं शरणं देवं प्रतिपेदे च तैस्सह
ततस्स देवैस्सहितः पद्मयोनिर्नरेश्वर
तुष्टाव प्राञ्जलिर्भूत्वा नारायणमनामयम्
ब्रह्मा-
त्वद्रूपचिन्तनान्नाम्नां स्मरणादर्चनादपि
तपोयोगादिभिश्चैव श्रेयो यान्ति मनीषिणः
भक्तवत्सल पद्माक्ष परमेश्वर पापहन्
परमात्माऽविकाराद्य नारायण नमोस्तु ते
नमस्ते सर्वलोकादे सर्वात्मामितविक्रम
सर्वभूतभविष्येश सर्वभूतमहेश्वर
देवानामपि देवस्त्वं सर्वविद्यापरायणः
जगद्वीजसमाहार जगतः परमो ह्यसि
त्रायस्व देवता वीर दानवाद्यैस्सुपीडिताः
लोकांश्च लोकपालांश्च ऋषींश्च जयतां वर
वेदास्साङ्गोपनिषदस्सरहस्यास्ससङ्ग्रहाः
सोङ्कारास्सवषट्काराः प्राहुस्त्वां यज्ञमुत्तमम्
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम्
तपस्विनां तपश्चैव दैवतं देवतास्वपि
भीष्मः-
एवमादिपुरस्कारैर्ऋक्सामयजुषां गणैः
वैकुण्ठं तुष्टुवुर्देवास्समेत्य ब्राह्मणा सह
ततोऽन्तरिक्षे वागासीन्मेघगम्भीरनिस्वना
जेष्यध्वं दानवान्यूयं मयैव सह सङ्गरे
ततो देवगणानां च दानवानां च युध्यताम्
प्रादुरासीन्महातेजाश्शार्ङ्गचक्रगदाधरः
सुपर्णपृष्ठमास्थाय तेजसा प्रदहन्निव
व्यधमद्दानवान्सर्वान्बाहुद्रविणतेजसा
तं समासाद्य समरे दैत्यदानवपुङ्गवाः
व्यनश्यन्त महाराज पतङ्गा इव पावकम्
स विजित्यासुरान्सर्वान्दानवांश्च महामतिः
पश्यतामेव देवानां तत्रैवान्तरधीयत
तं दृष्ट्वान्तर्हितं देवा विष्णुं देवामितद्युतिम्
विस्मयोत्फुल्लनयना ब्रह्माणमिदमब्रुवन्
देवाः-
भगवन्सर्वलोकेश सर्वलोकपितामह
इदमत्यद्भुतं वृत्तं त्वं नश्शंसितुमर्हसि
दैवासुरेऽस्मिन्सङ्ग्रामे त्राता येन वयं विभो
एतद्विज्ञातुमिच्छामः कुतोसौ कश्च तत्त्वतः
कोऽयमस्मान्परित्राय तूष्णीमेव यथागतम्
प्रतिप्रयातो दिव्यात्मा तं नश्शंसितुमर्हसि
भीष्मः-
एवमुक्तस्सुरैस्सर्वैर्वचनं वचनार्थवित्
उवाचः पद्मनाभस्य पूर्वरूपं प्रति प्रभो
ब्रह्मा-
न ह्येनं वेद तत्त्वेन भुवनं भुवनेश्वरम्
सङ्ख्यातुं नैव चात्मानं निर्गुणं गुणिनां वरम्
अत्र वो वर्तयिष्यामि इतिहासं पुरातनम्
सुपर्णस्य च संवादमृषीणां चापि देवताः
पुरा ब्रह्मर्षयश्चैव सिद्दाश्च भुवनेश्वरम्
आश्रित्य हिमवत्पृष्ठे चक्रिरे विविधाः कथाः
तेषां कथयतां तत्र कथान्ते पततां वरः
प्रादुरासीन्महातेजा वाहश्चक्रगदाभृतः
स तानृषीन्समासाद्य विनयावनताननः
अवतीर्य महावीर्यस्तानृषीनभिजग्मिवान्
अभ्यर्चितस्स ऋषिभिस्स्वागतेन महाबलः
उपाविशत तेजस्वी भूमौ वेगवतां वरः
तमासीनं महात्मानं वैनतेयं महाद्युतिम्
ऋषयः परिपप्रच्छुर्महात्मानस्तपस्विनः
ऋषयः-
कौतूहलं वैनतेय परं नो हृदि वर्तते
तस्य नान्योऽस्ति वक्तेह त्वामृते पन्नगाशन
तदाख्यातमिहेच्छामो भवता प्रश्नमुत्तमम्
ब्रह्मा-
एवमुक्तः प्रत्युवाच प्राञ्जलिर्विनतासुतः
गरुडः-
धन्योस्म्यनुगृहीतोऽस्मि यन्मां ब्रह्मर्षिसत्तमाः
प्रष्टव्यं प्रष्टुमिच्छन्ति प्रीतिमन्तोऽनसूयकाः
किं मया ब्रूत वक्तव्यं कार्यं च वदतां वराः
यूयं हि मां यथायुक्तं सर्वं वै देष्टुमर्हथ
ब्रह्मा-
नमस्कृत्वा ह्यनन्ताय ततस्ते हृदि सत्तमाः
प्रष्टुं प्रचक्रमुस्तत्र वैनतेयं महाबलम्
ऋषयः-
देवदेवं महात्मानं नारायणमनामयम्
भवानुपास्ते वरदं कुतोऽसौ कश्च तत्त्वतः
प्रकृतिर्विकृतिर्वाऽस्य कीदृशी क्व नु संस्थितिः
एतद्भवन्तं पृच्छामो देवोऽयं क्व कृतालयः
एष भक्तप्रियो देवः प्रियभक्तस्तथैव च
त्वं प्रियश्चास्य भक्तश्च नान्यः काश्यप विद्यते
मुष्णन्निव मनश्चक्षूंष्यविभाव्यतनुर्विभुः
अनादिमध्यनिधनो न विद्मैनं कुतो ह्यसौ
वेदेष्वपि च विश्वात्मा गीयते न च विद्महे
तत्त्वतस्तत्त्वभूतात्मा विभुर्नित्यस्सनातनः
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
गुणाश्चैषां यथासङ्ख्यं भावाभावौ तथैव च
तमस्सत्त्वं रजश्चैव भावाश्चैव तदात्मकाः
मनो बुद्धिश्च तेजश्च बुद्धिगम्यानि तत्त्वतः
जायन्ते तात तस्माद्धि तिष्ठते तेष्वसौ विभुः
सञ्चिन्त्य बहुधा बुद्ध्या नाध्यवस्यामहे परम्
तस्य देवस्य तत्वेन तन्नश्शंस यथातथम्
एतमेव परं प्रश्नं कौतूहलसमन्विताः
एवं भवन्तं पृच्छामस्तन्नश्शंसितुमर्हसि
सुपर्णः-
स्थूलतो यस्तु भगवांस्तेनैव स्वेन हेतुना
त्रैलोक्यस्य तु रक्षार्थं दृश्यते रूपमास्थितः
मया तु महदाश्चर्यं पुरा दृष्टं सनातने
देवे श्रीवत्सनिलये तच्छृणुध्वमशेषतः
न स्म शक्यो मया वेत्तुं न भवद्भिः कथञ्चन
यथा मां प्राह भगवांस्तथा तच्छ्रूयतां मम
मयाऽमृतं देवतानां मिषतामृषिसत्तमाः
हृतं विपाट्य तं यन्त्रं विद्राव्यामृतरक्षिणः
देवता विमुखीकृत्य सेन्द्रास्समरुतो मृधे
उन्मथ्याशु गिरींश्चैव विक्षोभ्य च महोदधिम्
तं दृष्ट्वा मम विक्रान्तं वागुवाचाशरीरिणी
अशरीरिणी वाक्-
प्रीतोऽस्मि ते वैनतेय कर्मणाऽनेन सुव्रत
अवृथा तेऽस्तु मद्वाक्यं ब्रूहि किं करवाणि ते
सुपर्णः-
तामेवंवादिनीं वाचमहं प्रत्युक्तवांस्तदा
ज्ञातुमिच्छामि कस्त्वं हि ततो मे दास्यसे वरम्
प्रकृतिर्विकृतिर्वा त्वं देवो वा दानवोऽपि वा
ततो जलदगम्भीरं प्रहस्य गदतां वरः
उवाच वरदः प्रीतः काले त्वं माऽभिवेत्स्यसि
वाहनं भव मे साधु वरं दद्मि तवोत्तमम्
न ते वीर्येण सदृशः कश्चिल्लोके भविष्यति
पतङ्ग पततां श्रेष्ठ न देवो नापि दानवः
मत्सखित्वमनुप्राप्तो दुर्धर्षश्च भविष्यसि
तमब्रवं देवदेवं मामेवंवादिनं परम्
प्रयतः प्राञ्जलिर्भूत्वा प्रणम्य शिरसा विभुम्
एवमेतन्महाबाहो सर्वमेतद्भविष्यति
वाहनं ते भविष्यामि यथा वदति मां भवान्
मम चापि महाबुद्धे निश्चयं श्रूयतामिति
ध्वजस्तेऽहं भविष्यामि रथस्थस्य न संशयः
तथाऽस्त्विति स मामुक्त्वा भूयः प्राह महामनाः
न ते गतिविघातोऽद्य भविष्यत्यमृतं विना
एवं कृत्वा तु समयं देवदेवस्सनातनः
मामुक्त्वा साधयस्वेति यथाऽभिप्रायतो गतः
ततोऽहं कृतसंवादस्तेन केनापि सत्तमाः
कौतूहलसमाविष्टः पितरं कश्यपं गतः
सोहं पितरमासाद्य प्रणिपत्याभिवाद्य च
सर्वमेतद्यथातथ्यमुक्तवान्पितुरन्तिके
श्रुत्वा तु भगवान्मह्यं ध्यानमेवान्वपद्यत
स मुहूर्तमिव ध्यात्वा मामाह वदतां वरः
धन्योऽस्यनुगृहीतोऽस्मि यत्त्वं तेन महात्मना
संवादं कृतवांस्तात गुह्येन परमात्मना
स्थूलं दृश्यस्स भगवांस्तेन तेनैव हेतुना
दृश्यतेऽव्यक्तरूपस्थः प्रधानं प्रभवोऽप्ययः
मया हि स महातेजा नान्ययोगसमाधिना
तपसोग्रेण तेजस्वी तोषितस्तपसां निधिः
ततो मे दर्शयामास तोषयन्निव पुत्रक
श्वेतपीतारुणनिभः कद्रूकपिलपिङ्गलः
रक्तनीलासितनिभस्सहस्रोदरपाणिमान्
द्विसाहस्रमहावक्त्र एकाक्षश्शतलोचनः
अनिष्पन्दा निराहारास्समानास्सूर्यतेजसा
तमुपासन्ति परमं गुह्यमक्षरमव्ययम्
समासाद्य तु तं विश्वमहं मूर्ध्ना प्रणम्य च
ऋग्यजुस्सामभिस्स्तुत्वा शरण्यं शरणं गतः
महामेघौघधीरेण स्वरेण जयतां वरः
आभाष्य पुत्र पुत्रेति इदमाह धृतं वचः
त्वयाऽभ्युदयकामेन तपश्चीर्णं महामुने
अमुक्तस्त्वं न मां सङ्गैरविमुक्तोऽद्य पश्यसि
यदा सङ्गैर्विमुक्तश्च गतमोहो गतस्पृहः
भविष्यसि सदा ब्रह्म मामनुध्यास्यसे द्विज
ऐकान्तिकीं मतिं कृत्वा मद्भक्तो मत्परायणः
ज्ञास्यसे मां ततो ब्रह्मन्वीतमोहश्च तत्त्वतः
तेन त्वं कृतसंवादस्वतस्सर्वहितैषिणा
विश्वरूपेण देवेन पुरुषेण महात्मना
तमेवाराधय क्षिप्रं तमाराध्य न सीदसि
सोऽहमेवं भगवता पित्रा ब्रह्मर्षिसत्तमाः
अनुनीतो यथान्यायं स्वमेव भवनं गतः
सोऽहमामन्त्र्य पितरं तद्भावगतमानसः
स्वमेवालयमासाद्य तमेवार्थमचिन्तयम्
तद्भावगतभावात्मा तद्भूतगतमानसः
गोविन्दं चिन्तयन्नासे शाश्वतं परमव्ययम्
धृतं बभूव हृदयं नारायणदिदृक्षया
सोऽहं वेगं समास्थाय मनोमारुतवेगवान्
रम्यां विशालां बदरीं गतो नारायणाश्रमम्
ततस्तत्र हरिं दृष्ट्वा जगतः प्रभवं विभुम्
गोविन्दं पुण्डरीकाक्षं प्रणतश्शिरसा हरिम्
ऋग्यजुस्सामभिश्चैनं तुष्टाव परया मुदा
अथापश्यं सुविपुलमश्वत्थं देवसंश्रयम्
चतुर्द्विगुणपीनांसश्शङ्कचक्रगदाधरः
प्रादुर्बभूव पुरुषः पीतवासास्सनातनः
मध्याह्नार्कप्रतीकाशस्तेजसा भासयन्दिशः
संस्तुतस्संविदं कृत्वा व्रजेति श्रेयसे रतः
प्रागुदीचीं दिशं देवः प्रतस्थे पुरुषोत्तमः
दिशश्च विदिशश्चैव भासयन्स्वेन तेजसा
तमहं पुरुषं दिव्यं व्रजन्तममितौजसम्
अनुवव्राज वेगेन शनैर्गच्छन्तमव्ययम्
योजनानां सहस्राणि षष्टिमष्टौ तथा शतम्
तथा शतसहस्रं च शतं द्विगुणमेव च
स गत्वा दीर्घमध्वानमपश्यमहमद्भुतम्
महान्तं पावकं दीप्तमर्चिष्मन्तमनिन्धनम्
शतयोजनविस्तीर्णं तस्माद्द्विगुणमायतम्
विवेश स महायोगी पावकं पावकद्युतिः
तत्र शम्भुस्तपस्तेपे महादेवस्सहोमया
स तेन संविदं कृत्वा पावकं समतिक्रमत्
श्रमाभिभूतेन मया कथञ्चिदनुगम्यते
गत्वा स दीर्घमध्वानं भास्करेणावभासितम्
अभास्करममर्यादं विवेश सुमहत्तमः
अथ दृष्टिः प्रतिहता मम तत्र बभूव ह
यथास्वभावं भूतात्मा विवेश स महाद्युतिः
ततोऽहमभवं मूढो जडान्धबधिरोपमः
दिशश्च विदिशश्चैव न विजज्ञे तमोवृतः
अविजानन्नहं किञ्चित्तस्मिंस्तमसि संवृते
ससम्भ्रान्तेन मनसा व्यथां परमिकां गतः
सोऽहं प्रपन्नश्शरणं देवदेवं सनातनम्
प्राञ्जलिर्मनसा भूत्वा वाक्यमेतत्तदोक्तवान्
भगवन्भूतभव्येश भवद्भूतकृदव्यय
शरणं सम्प्रपन्नं मां त्रातुमर्हस्यरिन्दम
अहं तु तत्त्वजिज्ञासुः कोऽसि कस्यासि कुत्र वा
सम्प्राप्तः पदवीं देव स मां सन्त्रातुमर्हसि
आविर्भूतः पुराणात्मा मामेहीति सनातनः
ततोऽपरान्ततो देवो विश्वस्य गतिरात्मवान्
मोहयामास मां तत्र दुर्विभाव्यवपुर्विभुः
स्वभावमात्मनस्तत्र दर्शयन्स्वयमात्मना
श्रमं मे जनयामास भयं चाभयदः प्रभुः
खिन्न इत्येव मां मत्वा भगवानव्ययोऽच्युतः
शब्देनाश्वासयामास जगाहे च तमो महत्
अहं च खेदानुगतश्श्रमाच्चलपदश्चरन्
मनसा देवदेवेशं ध्यातुं समुपचक्रमे
तथा गतं तु मां ज्ञात्वा भगवानमितद्युतिः
तमः प्रणाशयामास ममानुग्रहकाङ्क्षया
ततः प्रनष्टे तमसि तमहं दीप्ततेजसम्
अपश्यं तेजसा व्याप्तं मध्याह्न इव भास्करम्
स्वयम्प्रभांश्च पुरुषान्स्त्रियश्च परमाद्भुताः
अपश्यमहमव्यग्रस्तस्मिन्देशे सहस्रशः
न तत्र द्योतते सूर्यो नक्षत्राणि तथैव च
न तत्र चन्द्रमा भाति न वायुर्वाति पांसुलः
तत्र तूर्याण्यनेकानि गीतानि मधुराणि च
अदृश्यानि मनोज्ञानि श्रूयन्ते सर्वतोदिशम्
स्रवन्ति वैडूर्यलताः पद्मोत्पलझषाकुलाः
मुक्तासिकतवप्राश्च सरितो निर्मलोदकाः
अगतिस्तत्र देवानामसुराणां तथैव च
गन्धर्वनागयक्षाणां राक्षसानां तथैव च
स्वयम्प्रभास्तत्र नरा दृश्यन्तेऽद्भुतदर्शनाः
येषां न देवतास्तुल्याः प्रभाभिर्भावितात्मनाम्
स च तानप्यतिक्रम्य दैवतैरपि पूजितः
विवेश ज्वलनं दीप्तमनिन्धनमनौपमम्
ज्वालाभिर्मां प्रविष्टं च ज्वलन्तं सर्वतोदिशम्
दैत्यदानवरक्षोभिर्दैवतैश्चापि दुस्सहम्
ज्वालामालिनमासाद्य तमग्निमहमव्ययम्
अविषह्यतमं मत्वा मनसेदमचिन्तयम्
मया हि समरेष्वग्निरनेकेषु महाद्युतिः
प्रविष्टश्चापविद्धश्च न च मां दग्धवान्क्वचित्
अयं च दुस्सहश्शश्वत्तेजसाऽतिहुताशनः
अत्यादित्यप्रकाशार्चिरनलो दीप्यते महान्
स तथा दह्यमानोऽपि तेजसा दीप्तवर्चसा
प्रपन्नश्शरणं देवं शङ्कचक्रगदाधरम्
भक्तश्चानुगतश्चेति त्रातुमर्हसि मां विभो
यथा मां न दहेदग्निस्सद्यो देव तथा कुरु
एवं विलपमानस्य ज्ञात्वा मे वचनं प्रभुः
मा भैरिति वचः प्राह मेघगम्बीरनिस्वनः
स मामाश्वास्य वचनं प्राहेदं भगवान्विभुः
श्रीभगवान्-
मम त्वं विदितस्सौम्य यथावत्तत्त्वदर्शने
ज्ञापितश्चापि यत्पित्रा तच्चापि विदितं महत्
वैनतेय न कस्यापि अहं वेद्यः कथञ्चन
मां हि विन्दन्ति विद्वांसो ये ज्ञाने परिनिष्ठिताः
निर्ममा निरहङ्कारा निराशीर्बन्धनायुताः
सुपर्णः-
भवांस्तु सततं भक्तो मन्मनाः पक्षिसत्तम
स्थूलं मां वेत्स्यसे तस्माज्जगतः कारणे स्थितम्
एवं दत्ताभयस्तेन ततोऽहमृषिसत्तमाः
नष्टखेदश्रमभयः क्षणेन ह्यभवं तदा
स शनैर्याति भगवान्गत्या लघुपराक्रमः
अहं तु सुमहावेगमास्थायानुव्रजामि तम्
स गत्वा दीर्घमध्वानमाकाशममितह्युतिः
मनसाऽप्यगमं देवमाससादात्मतत्त्ववित्
अथ देवसस्मासाद्य मनसस्सदृशं जवम्
मोहयित्वा च मां तत्र क्षणेनान्तरधीयत
तत्राम्बुधरधीरेण भोशब्देनानुनादिना
अयं भोऽहमिति प्राह वाक्यं वाक्यविशारदः
शब्दानुसारी तु ततस्तं देशमहमाव्रजम्
तत्रापश्यं ततश्चाहं श्रीमद्धंसयुतं सरः
स तत्सरस्समासाद्य भगवानात्मवित्तमः
भोशब्दप्रतिसृष्टेन स्वरेणप्रतिवादिना
श्रीभगवान्-
विवेश देवस्स्वां योनिं मामिदं चाभ्यभाषत
विशस्व सलिलं सौम्य सुखमत्र वसामहे
सुपर्णः-
ततश्च प्राविशं तत्र सह तेन महात्मना
दृष्टवानद्भुततरं तस्मिन्सरसि भास्वताम्
अग्नीनां सुप्रणीतानामिद्धानामिन्धनैर्विना
दीप्तानामाज्यसिक्तानां स्थानेष्वर्चिष्मतां सदा
दीप्तिस्तेषामनाज्यानां प्राप्ताज्यानामिवाभवत्
अनिद्धानामिव सतामिद्धानामिव भास्वताम्
ततस्सम्मोहमापन्नो विषादमगमं परम्
अथाहं वरदं देवं नापश्यं तत्र सङ्गतम्
अपश्यं चाग्निहोत्राणि शतशोऽथ सहस्रशः
विधिना सम्प्रणीतानि धिष्ण्येष्वाज्यवतां तदा
असम्भृष्टतलाश्चैव वेदीन्कुसुमसंस्तृतान्
कुशपद्मोत्पलासङ्गान्कलशांश्च हिरण्मयान्
अग्निहोत्राणि चित्राणि शतशोऽथ सहस्रशः
अग्निहोत्रोपयोग्यानि यानि द्रव्याणि कानिचित्
तानि चात्र समृद्धानि दृष्टवानस्म्यनेकशः
मनोहृद्यतमश्चात्र सुरभिः पुण्यलक्षणः
आज्यगन्धो मनोग्राही घ्राणचक्षुस्सुखावहः
तेषां तत्राग्निहोत्राणामीडितानां सहस्रशः
समीपे त्वद्भुततममपश्यमहमव्ययम्
चन्द्रांशुकाशशुभ्राणां तुषारोद्भेदवर्चसाम्
विमलादित्यभासानां स्थण्डिलानि सहस्रशः
दृष्टान्यग्निसमीपे तु ध्युतिमन्ति महान्ति च
एषु चाग्निसमीपेषु शुश्राव सुपदाक्षराः
प्रभावान्तरितानां तु प्रस्पष्टाक्षरभाषिणाम्
ऋग्यजुस्सामगानां च मधुरास्सुस्वरा गिरः
सुसम्मृष्टतलैस्तैस्तु बृहद्भिर्दीप्ततेजसैः
पावकैः पावितात्माहमभवं लघुविक्रमः
ततोऽहं तेषु धिष्ण्येषु ज्वलमानेषु यज्वनाम्
तं देशं प्रणमित्वाऽथ अन्वेष्टुमुपचक्रमे
तान्यनेकसहस्राणि परीयंस्तु महाजवात्
अपश्यमानस्तं देवं ततोऽहं व्यथितोऽभवम्
ततस्तेष्वग्निहोत्रेषु ज्वलत्सु विमलार्चिषु
भानुमत्सु न पश्यामि देवदेवं सनातनम्
ततोऽहं तानि दीप्तानि परीय व्यस्थितेन्द्रियः
नान्तं तेषां प्रपश्यामि येनाहमिव चोदितः
एवं चिन्तासमापन्नः प्रध्यातुमुपचक्रमे
ततश्चिन्तयतो मह्यं मोहेनाविष्टचेतसः
महाञ्शब्दः प्रादुरासीत्सुभृशं मे व्यथाकरः
तथाऽहं सहसा तत्र शृणोमि विपुलध्वनिम्
अपश्यं च सुपर्णानां सहस्राण्ययुतानि च
अभ्यद्रवन्त मामेव विपुलद्युतिरंहसः
तेषामहं प्रभावेण सर्वथैवावरोऽभवम्
सोऽहं समन्तात्तैस्सर्वैस्सुपर्णैरतितौजसैः
दृष्ट्वाऽऽत्मानं परिगतं सम्भ्रमं परमं गतः
विनयावनतो भूत्वा नमश्चक्रे महात्मने
अनादिनिधनायैभिर्नामभिः परमात्मने
नारायणाय शुद्धाय शाश्वताय ध्रुवाय च
भूतभव्यभवेशाय शिवाय शिवमूर्तये
शिवयोनेश्शिवाद्यायि शिवपूज्यतमाय च
घोररूपाय महते युगान्तकरणाय च
विश्वाय विश्वदेवाय विश्वेशाय महात्मने
सहस्रोदरपादाय सहस्रनयनाय च
सहस्रबाहवे चैव सहस्रवदनाय च
शुचिश्रवाय महते ऋतुसंवत्सराय च
ऋग्यजुस्सामवक्त्राय अथर्वशिरसे नमः
हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च
ब्रह्मेन्द्रकाय तार्क्ष्याय वराहायैकशृङ्गिणे
शिपिविष्टाय सत्याय हरयेऽथ शिखण्डिने
हुतायोर्ध्वाय वक्त्राय रौद्रानीकाय साधवे
सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः
गरुत्मते त्रिनेत्राय सुधर्माय वृषावृषे
सम्राडुग्रे सङ्कृतये विरजे सम्भवे भवे
वृषाय वृषरूपाय विभवे भूर्भुवाय व
दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च
अच्युताय तुषाराय वीराय च समाय च
जिष्णवे पुरुहूताय वसिष्ठाय वराय च
सत्येशाय सुरेशाय हरयेऽथ शिखण्डिने
बर्हिषाय वरेण्याय वसवे विश्ववेधसे
किरीटिने सुकेशाय वासुदेवाय शुष्मिणे
बृहदुग्धे सुषेणाय युग्ये दुन्दुभये तथा
भयेसखाय विभवे भरद्वाजाभयाय च
भास्कराय वरेन्द्राय पद्मनाभाय भूरिणे
पुनर्वसुभृतत्वाय जीवप्रभविषाय च
वषट्काराय स्वाहायै स्वधायै निधनाय च
ऋचे च यजुषे साम्ने त्रैलोक्यपतये नमः
श्रीपद्मायात्मसदृशे धरणे धारिणे परे
सौम्याय सौम्यरूपाय सौम्ये सुमनसे नमः
विश्वाय च सुविश्वाय विश्वरूपधराय च
केशवाय सुकेशाय रश्मिकेशाय भूरिणे
हिरण्यगर्भाय नमस्सौम्याय वृषरूपिणे
नारायणाग्रवपुषे पुरुहूताय वज्रिणे
धर्मिणे वृषसेनाय धर्मसेनाय रोधसे
मुनये ज्वरमुक्ताय ज्वराधिपतये नमः
अनेत्राय त्रिनेत्राय पिङ्गलाय विडूर्मिणे
तपोब्रह्मनिधानाय युगपर्यायिणे नमः
शरणाय शरण्याय शक्तेष्टशरणाय च
नमस्सर्वभवेशाय भूतभव्यभवाय च
पाहि मां देवदेवेश कोऽप्यजोऽसि सनातनः
एवं गतोऽस्मि शरणं शरण्यं ब्रह्मयोनिनम्
स्तव्यं स्तवं स्तुतवतस्तत्तमो मे प्रणश्यत
भयं च मे व्यपगतं पक्षिणोऽन्तर्हिता भवन्
शृणोमि च गिरं दिव्यामन्तर्धानगतां शिवाम्
श्रीभगवान्-
मा भैर्गरुत्मन्दान्तोसि पुनस्सेन्द्रान्दिवौकसः
स्वं चैव भवनं गत्वा द्रक्ष्यसे पुत्रबान्धवान्
सुपर्णः-
ततस्तस्मिन्क्षणेनैव सहसैव महाद्युतिः
प्रत्यदृश्यत तेजस्वी पुरस्तात्स ममान्तिके
समागम्य ततस्तेन शिवेन परमात्मना
अपश्यं चाहमायान्तं नरनारायणाश्रमे
चतुर्द्विगुणविन्यासं तं च देवं सनातनम्
यजतस्तानृषीन्देवान्वदतो ध्यायतो मुनीन्
युक्तान्सिद्धान्नैष्ठिकांश्च जपतो यजतो गृहीन्
पुष्पपूरपरिक्षिप्तं धूपितं दीपितं हितम्
वन्दितं सिक्तसम्मृष्टं नरनारायणाश्रमम्
तदद्भुतमहं दृष्ट्वा विस्मितोऽस्मि तदाऽनघाः
जगाम शिरसा देवं प्रयतेनान्तरात्मना
तदत्यद्भुतसङ्काशं किमेतदिति चिन्तयन्
नाध्यगच्छं परं दिव्यं तस्य सर्वभवात्मनः
प्रणिपत्य सुदुर्धर्षं पुनः पुनरुदीक्ष्य च
शिरस्यञ्जलिमाधाय विस्मयोत्फुल्ललोचनः
अवोचं तमदीनार्थं श्रेष्ठानां श्रेष्ठमुत्तमम्
नमस्ते भगवन्देव भूतभव्यभवत्प्रभो
यदेतदद्भुतं देव मया दृष्टं त्वदाश्रयम्
अनादिमध्यपर्यन्तं किं तच्छंसितुमर्हसि
यदि जानासि सां भक्तं यदि वाऽनुग्रहो मयि
शंस सर्वमशेषेण श्रोतव्यं यदि चेन्मया
स्वभावस्तव दुर्ज्ञेयः प्रादुर्भावो भवस्य च
भवद्भूतभविष्येश सर्वथा गहनं भवान्
ब्रूहि सर्वमशेषेण तदाश्चर्यं महामुने
किं तदत्यद्भुतं वृत्तं तेष्वग्निषु समन्ततः
कानि तान्यग्निहोत्राणि केषां शब्दश्श्रुतो मया
शृण्वतां ब्रह्म सततमदृश्यानां महात्मनाम्
एतन्मे भगवन्कृष्ण ब्रूहि सर्वमशेषतः
गृणन्त्यग्निसमीपेषु के च ते ब्रह्मराशयः
श्रीभगवान्-
मां न देवा न गन्धर्वा न पिशाचा न राक्षसाः
विदुस्तत्त्वेन तत्वस्थं सूक्ष्मात्मानमवस्थितम्
चतुर्धाऽहं विभक्तात्मा लोकानां हितकाम्यया
भूतभव्यभविष्यादिरनादिर्विश्वकृत्तमः
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
मनो बुद्धिश्च चेतश्च तमस्सत्त्वं रजस्तथा
प्रकृतिर्विकृतिश्चेति विद्याविद्ये शुभाशुभे
मत्त एतानि जायन्ते नाहमेभ्यः कथञ्चन
स किञ्चिच्छ्रेयसा युक्तश्श्रेष्ठभावं व्यवस्यति
धर्मयुक्तं च पुण्यं च सोऽहमस्मि निरामयः
यत्स्वभावात्मतत्त्वज्ञैः कारणैरुपलक्ष्यते
अनादिमध्यनिधनस्सोन्तरात्माऽस्मि शाश्वतः
यत्तु मे परमं गुह्यं रूपं सूक्ष्मार्थदर्शिभिः
गृह्यते सूक्ष्मभावज्ञैस् स विभाव्योऽस्मि शाश्वतः
यत्तु मे परमं गुह्यं येन व्याप्तमिदं जगत्
सोऽहं गतस्सर्वसत्वस्सर्वस्य प्रभवोऽव्ययः
मत्तो जातानि भूतानि मया धार्यन्त्यहर्निशम्
मय्येव विलयं यान्ति प्रलये पन्नगाशन
यो मां यथा वेदयति तथा तस्यास्मि काश्यप
मनोबुद्धिगतश्श्रेयो विदधामि विहङ्गम
मां तु ज्ञातुं कृता बुद्धिर्भवता पक्षिसत्तम
शृणु योऽहं यतश्चाहं यदर्थं चाहमुद्यतः
ये केचिन्नियतात्मानस्त्रेताग्निपरमाद्विजाः
अग्निकार्यपरा नित्यं जपहोमपरायणाः
आत्मन्यग्नीन्समाधाय नियता नियतेन्द्रियाः
अनन्यमनसस्ते मां सर्वे वै समुपासते
यजन्तो जपयज्ञैर्मां मानसैश्च सुसंयताः
अग्नीनभ्युद्ययुश्शश्वदग्निष्वेवाभिसंस्थिताः
अनन्यकार्याश्शुचयो नित्यमग्निपरायणाः
य एवम्बुद्ध्यो धीरास्ते मां गच्छन्ति तादृशाः
अकामहतसङ्कल्पा ज्ञाने नित्यं समाहिताः
आत्मन्यग्नीन्समाधाय निराहारा निराशिषः
विषयेषु निरारम्भा विमुक्ता ज्ञानचक्षुषः
अनन्यमनसो धीरास्स्वभावनियमान्विताः
यत्तद्वियति दृष्टं तत्सरः पद्मोत्पलायुतम्
तत्राग्नयस्सन्निहिता दीप्यन्ते स्म निरिन्धनाः
ज्ञानामलाशयास्तस्मिन्ये च चन्द्रांशुनिर्मलाः
उपासीना गृणन्तोऽग्निम्प्रस्पष्टाक्षरभाषिणः
आकाङ्क्षमाणाश्शुचयस्तेष्वग्रिषु विहङ्गम
ये मया भावितात्मानो मय्येवाभिरतास्सदा
उपासते च मामेव ज्योतिर्भूता निरामयाः
तैर्हि तत्रैव वस्तव्यम्नीरागादिभिरच्युतैः
निराहारा ह्यनिष्पन्दाश्चन्द्रांशुसदृशप्रभाः
निर्मला निरहङ्कारा निरालम्बा निराशिषः
मद्भक्तास्सततं ते वै भक्तस्तानपि चाप्यहम्
चतुर्धाऽहं विभक्तात्मा चरामि जगतो हितः
लोकानां धारणार्थाय विधानं विदधामि च
यथावत्तदशेषेण श्रोतुमर्हति मे भवान्
एका मूर्तिर्निर्गुणाख्या योगं परममास्थिता
द्वितीया सृजते तात भूतग्रामं चराचरम्
सृष्टं संहरते चैका जगत्स्थावरजङ्गमम्
ज्ञातात्मनिष्ठा क्षपयन्मोहयन्निव मायया
क्षिपन्ती मोहयति च ह्यात्मनिष्ठा स्वमायया
चतुर्थी मे महामूर्तिर्जगद्वृद्धिं ददाति सा
रक्षते चापि नियता सोऽहमस्मि नभश्चरः
मया सर्वमिदं व्याप्तं मयि सर्वं प्रतिष्ठितम्
अहं सर्वजगद्बीजं सर्वत्रगतिरव्ययः
यानि तान्यग्निहोत्राणि ये च चन्द्रांशुराशयः
गृणन्ति वेदं सततं तेष्वग्निषु विहङ्गम
क्रमेण मां समायान्ति सुखिनो ज्ञानसंयुताः
तेषामहं तपो दीप्तं तेजस्सम्यक्समाहितम्
नित्यं ते मयि वर्तन्ते तेषु चाहमतन्द्रितः
सर्वतो मुक्तसङ्गेन मय्यनन्यसमाधिना
शक्यस्समासादयितुमहं वै ज्ञानचक्षुषा
मां स्थूलदर्शनं विद्धि जगतः कार्यकारणम्
मत्तश्च सम्प्रसूतान्वै विद्धि लोकान्सदैवतान्
मया चापि चतुर्धाऽऽत्मा विभक्तः प्राणिषु स्यिथः
आत्मभूतो वासुदेवो ह्यनिरुद्धो मतौ स्यितः
सङ्कर्षणोऽहङ्कारे च प्रद्युम्नो मनसि स्यितः
अन्यथा च चतुर्धा यत्सम्यक्त्वं श्रोतुमर्हसि
हिरण्यगर्भः पद्माख्यो यत्र ब्रह्मा व्यजायत
ब्रह्मणश्चापि सम्भूतश्शिव इत्यवधार्यताम्
शिवात्स्कन्दस्सम्बभूव एतत्सृष्टिचतुष्टयम्
दैत्यदानवदर्पघ्नमेवं मां विद्धि नित्यशः
दैत्यदानवरक्षोभिर्यदा धर्मः प्रपीड्यते
तदाऽहं धर्मवृद्ध्यर्थं मूर्तिमान्भविताऽऽशु वै
वेदव्रतपरा ये तु धीरा निश्चितबुद्ध्यः
योगिनो योगयुक्ताश्च ते मां पश्यन्ति नान्यथा
पञ्चभिस्सम्प्रयुक्तोऽहं विप्रयुक्तश्च पञ्चभिः
वर्तमानश्च तेष्वेवं निवृत्तश्चैव तेष्वहम्
ये विदुर्जातसङ्कल्पास्ते मां पश्यन्ति तादृशाः
खं वायुरापो ज्योतिश्च पृथिवी चेति पञ्चमम्
तदात्मकोऽस्मि विज्ञेयो न चान्योऽस्मीति निश्चितम्
वर्तमानमतीतं च पञ्चवर्गेषु निश्चलम्
शब्दस्पर्शेषु रूपेषु रसगन्धेषु चाप्यहम्
रजस्तमोभ्यामाविष्टा येषां बुद्धिरनिश्चिता
ते न पश्यन्ति मे तत्त्वं तपसा महता ह्यपि
नोपवासैर्न नियमैर्न व्रतैर्विविधैरपि
द्रष्टुं वा वेदितुं वाऽपि न शक्या परमा गतिः
महामोहार्थपङ्के तु निमग्रानां गतिर्हरिः
एकान्तिनो ध्यानपरा यतिभावाद्व्रजन्ति माम्
सत्त्वयुक्ता मतिर्येषां केवलाऽऽत्मविनिश्चिता
ते पश्यन्ति स्वमात्मानं परमात्मानमव्ययम्
अहिंसा सर्वभूतेषु तेष्ववस्थितमार्जवम्
तेष्वेव च समाधाय सम्यगेति च मामजम्
यदेतत्परमं गुह्यमाख्यानं परमाद्भुतम्
यत्नेन तदशेषेण यथावच्छ्रोतुमर्हसि
ये त्वग्निहोत्रनियता जपयज्ञपरायणाः
ते मामुपासते शश्वदेतांस्त्वं दृष्टवानसि
शास्त्रदृष्टविधानज्ञा असक्ताः क्वचिदन्यथा
शक्योऽहं वेदितुं तैस्तु यन्मे परममव्ययम्
ये तु साङ्ख्यं च योगं च ज्ञात्वाऽप्यधृतनिश्चयाः
न ते गच्छन्ति कुशलाः परां गतिमनुत्तमाम्
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्माऽऽन्मविच्छुचिः
आसादयति तद्ब्रह्म यत्र गत्वा न शोचति
शुद्धाभिजनसम्पन्नाश्श्रद्धायुक्तेन चेतसा
मद्भक्त्या च द्विजश्रेष्ठा गच्छन्ति परमां गतिम्
यद्गुह्यं परमं बुद्धेरलिङ्गग्रहणं च यत्
तत्सूक्ष्मं गृह्यते विप्रैर्यतिभिस्तत्त्वदर्शिभिः
न वायुः पवते तत्र न तस्मिञ्ज्योतिषां गतिः
न चापः पृथिवी चैव नाकाशं न मनोगतिः
तस्माच्चैतानि सर्वाणि प्रजायन्ते विहङ्गम
सर्वेभ्यश्च स तेभ्यश्च प्रभवत्यमलो विभुः
स्थूलदर्शनमेतन्मे यद्दृष्टं भवताऽनघ
एतत्सूक्ष्मस्य च द्वारं कार्याणां कारणं त्वहम्
दृष्टो वै भवता तस्मात्सरस्यमितविक्रम
ब्रह्मणो यदहोरात्रं सङ्ख्यानज्ञैर्विभाव्यते
एष कालस्त्वया तत्र सरस्यहमुपागतः
मां यज्ञमाहुर्यज्ञज्ञा वेदं वेदविदो जनाः
मुनयश्चापि मामेव जपयज्ञं प्रचक्षते
वक्ता मन्ता रसयिता घ्राता द्रष्टा प्रदर्शकः
बोद्धा बोधयिता चाहं गन्ता श्रोता चिदात्मकः
मामिष्ट्वा स्वर्गमायान्ति तथा चाप्नुवते महत्
ज्ञात्वा मामेव चैवं ते निस्सङ्गेनान्तरात्मना
अहं तेजो द्विजातीनां मम तेजो द्विजातयः
मम यस्तेजसो देहस्सोग्निरित्यवगम्यताम्
प्राणपालश्शरीरेऽहं योगिनामहमीश्वरः
साङ्ख्यानामिदमेवाग्रे मयि सर्वमिदं जगत्
धर्ममर्थं च कामं च मोक्षं चैवार्जवं जपम्
तमस्सत्त्वं रजश्चैव कर्मजं च भवाप्ययम्
स तदाऽहं तथारूपस्त्वया दृष्टस्सनातनः
ततस्त्वहं परतरश्शक्यः कालेन वेदितुम्
मम यत्परमं गुह्यं शाश्वतं ध्रुवमव्ययम्
तदेवं परमो गुह्यो देवो नारायणो हरिः
न तच्छक्यं भुजङ्गारे वेत्तुमभ्युदयान्वितैः
निरारम्भनमस्कारा निराशीर्बन्धनास्तथा
गच्छन्ति तं महात्मानं परं ब्रह्म सनातनम्
स्थूलोऽहमेवं विहग त्वया दृष्टस्तथाऽनघ
एतच्चापि न वेत्त्यन्यस्त्वामृते पन्नगाशन
मा मतिस्तव गान्नाशमेषा गतिरनुत्तमा
मद्भक्तो भव नित्यं त्वं ततो वेत्स्यसि मे पदम्
एतत्ते सर्वमाख्यातं रहस्यं दिव्यमानुषम्
एतच्छ्रेयः परं चैतत्पन्थानं विद्धि मोक्षिणाम्
सुपर्णः-
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत
पश्यतो मे महायोगी जगामात्मगतिर्गतिम्
एषा श्रुतिर्महाराज धर्म्या धर्मभृतां वर
एतदेवंविधं तस्य महिमानं महात्मनः
अच्युतस्याप्रमेयस्य दृष्टवानस्मि यत्पुरा
एतद्वस्सर्वमाख्यातं चेष्टितं तस्य धीमतः
मयाऽनुभूतं प्रत्यक्षं दृष्ट्वा चाद्भुतकर्मणः
ऋषयः-
अहो श्रावितमाख्यानं भवताऽत्यद्भुतं महत्
पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्
एतत्पवित्रं देवानामेतद्गुह्यं परन्तप
एतज्ज्ञानवता ज्ञेयमेषा गतिरनुत्तमा
य इमां श्रावयेद्विद्वान्कथां पर्वसु पर्वसु
स लोकान्प्राप्नुयात्पुण्यान्देवर्षिभिरभिष्टुतान्
श्राद्धकाले च विप्राणां य इमां श्रावयेच्छुचिः
न तत्र रक्षसां भागो नासुराणां च विद्यते
अनसूयुर्जितक्रोधस्सर्वसत्वहिते रतः
यः पठेत्सततं युक्तस्स व्रजेत्तत्सलोकताम्
वेदान्पारयते विप्रो राजा विजयवान्भवेत्
वैश्यस्तु धनधान्याढ्यश्शूद्रस्सुखमवाप्नुयात्
भीष्मः-
ततस्ते मुनयस्सर्वे सम्पूज्य विनतासुतम्
स्वानेव चाश्रमाञ्जग्मुर्बभूवुश्शान्तितत्पराः
स्थूलदर्शिभिराकृष्टो दुर्ज्ञेयो ह्यकृतात्मभिः
सुराणां ब्रह्मणा प्रोक्ता विस्मितानां परन्तप
मयाप्येषा कथा तात कथिता मातुरन्तिके
वसुभिस्सत्त्वसम्पन्नैस्तवाप्येषा मयोच्यते
तदग्निहोत्रपरमा जपयज्ञपरायणाः
निराशीर्बन्धनास्सन्तः प्रयान्त्यक्षरसात्मताम्
आरम्भयज्ञानुत्सृज्य जपहोमपरायणाः
ध्यायन्तो मनसा विष्णुं गच्छन्ति परमां गतिम्
तदेष परमो मोक्षो मोक्षद्वारं च भारत
यथा विनिश्चितात्मानो गच्छन्ति परमां गतिम्