युधिष्ठिरः-
क्लिश्यमानेषु भूतेषु यातिर्मरणसागरे
यत्प्राप्य क्लेशं नाप्नोति तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सनत्कुमारस्य सतस्संवादं नारदस्य च
सनत्कुमारो भगवान्ब्रह्मपुत्रो महायशाः
पूर्वजातास्त्रयस्तस्य कथ्यन्ते ब्रह्मवादिनः
सनकस्सनन्दनश्चैव तृतीयश्च सनातनः
जातमात्राश्च ते सर्वे प्रतिबुद्धा इति श्रुतिः
चतुर्थश्चैव तेषां स भगवान्योगवित्तमः
सनत्कुमार इति वै कथयन्ति महर्षयः
हैरण्यगर्भस्स मुनिर्वसिष्ठः पञ्चमस्स्मृतः
षष्ठस्स्थाणुस्स भगवानमेयात्मा त्रिशूलधृत्
ततोऽपरे समुत्पन्नाः पावका दारुणे क्रतौ
मनसा स्वयम्भुवो हीमे मरीचिप्रमुखास्तथा
भुगुर्मरीचेरनुजो भृगोरप्यङ्गिरास्तथा
अनुजोऽङ्गिरसोऽथात्रिः पुलस्त्योत्रेस्तथाऽनुजः
पुलस्त्यस्यानुजो विद्वान्पुलहो नु महाद्युतिः
पठ्यन्ते ब्रह्मजा ह्येते विद्वद्भिरमितौजसः
सर्वमेतन्महाराज कुर्वन्नादिगुरुर्महान्
प्रभुर्विभुरनन्तश्रीर्ब्रह्मा लोकपितामहः
मूर्तिमन्तोऽमृतीभूतास्तेजसाऽतितपोन्विताः
सनकप्रभृतयस्तत्र ये च प्राप्ताः परं पदम्
कृत्स्नक्षयमनुप्राप्य विमुक्ता मूर्तिबन्धनात्
सनत्कुमारस्तु विभुर्योगमास्थाय योगवित्
त्रील्ँलोकानचरच्छश्वदैश्वर्येण परेण हि
रुद्रश्चाप्यष्टगुणितं योगं प्राप्तो महायशाः
सूक्ष्ममष्टगुणं राजन्नितरे नृपसत्तम
मरीचिप्रमुखास्तात सर्वे सृष्ट्यर्थमेव ते
नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः
सर्वे वेदेषु चैवोक्ताः खिलेषु च न संशयः
इतिहासे पुराणे च श्रुतिरेषा सनातनी
ब्राह्मणान्वरदानेतान्प्राहुर्वेदान्तपारगाः
एतेषां पितरस्तात पुत्रा इत्यनुचक्षते
गणास्सप्त महाराज मूर्तयोऽमूर्तयस्तथा
पितृणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः
देवैर्व्याप्ता इमे लोका इत्येवमनुशुश्रुम
कृष्णद्वैपायनाच्चैव देवस्थानात्तथैव च
देवलाच्च नरश्रेष्ठ काश्यपाच्च मया श्रुतम्
गौतमादथ कौण्डिन्याद्भारद्वाजात्तथैव च
मार्कण्डेयात्तथैवैतदृषेर्देवमतात्तथा
पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम्
परं रहस्यं वेदान्तं प्रियं हि परमात्मनः
अतः परं प्रवक्ष्यामि यन्मां पृच्छसि भारतः
तदिहैकमनोबुद्धिश्शृणुष्वावहितो नृप
स्वायम्भुवस्य संवादं नारदस्य च धीमतः
सनत्कुमारो भगवान्दिवि जज्वाल तेजसा
अङ्गुष्ठमात्रो भूत्वा वै विचचार महाद्युतिः
स कदाचिन्महाभागो मेरुपृष्ठं समागमत्
नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना
जिज्ञासमानावन्योन्यं सकाशे ब्रह्मणस्ततः
ब्रह्मभागवतौ तात परमार्थविचिन्तकौ
मतिमान्मतिमच्छ्रेष्ठं बुद्धिमान्बुद्धिमत्तरम्
क्षेत्रवित्क्षेत्रविच्छ्रेष्ठं ज्ञानविज्ज्ञानमत्तमम्
सनत्कुमारं तत्वज्ञं भगवन्तमरिन्दम
लोकविल्लोकविच्छ्रेष्ठमात्मविच्चात्मवित्तमम्
सर्ववेदार्थकुशलं सर्वशास्त्रविशारदम्
साङ्ख्ययोगं च यो वेद पाणावामलकं यथा
नारदोऽथ नरश्रेष्ठ तं पप्रच्छ महाद्युतिः
नारदः-
त्रयोविंशतितत्वस्य अव्यक्तस्य महामुने
प्रभवं चाप्ययं चैव श्रोतुमिच्छामि तत्त्वतः
अध्यात्ममधिभूतं च अधिदैवं तथैव च
कालसङ्ख्यां च सर्गं च स्रष्टारं पुरुषं प्रभुम्
यं विश्वमुपजीवन्ति येन सर्वमिदं ततम्
यं प्राप्य न निवर्तन्ते तद्भवान्वक्तुमर्हति
सनत्कुमारः-
यं विश्वमुपजीवन्ति यमाहुः पुरुषं परम्
तं वै शृणु महाबुद्धे नारायणमनामयम्
एष नारायणो नाम यं विश्वमुपजीवति
एष स्रष्टा विधाता च हर्ता पालयिता प्रभुः
प्राप्यैनं न निवर्तन्ते यतयोऽध्यात्मचिन्तकाः
एतावदेव वक्तव्यं मया नारद पृच्छते
परं न वेद्मि तत्सर्गं यावांश्चायं यथाऽऽप्यहम्
श्रूयतामानुपूर्व्येण नव सर्गान्प्रयत्नतः
यथा कालपरीमाणं तत्त्वानामृषिसत्तम
अध्यात्ममधिभूतं च अधिदैवं तथैव च
कालसङ्ख्यां च सर्गं च सर्वमेव महामुने
तमसः कुर्वतस्सर्गं तामसो ह्यभिधीयते
ब्रह्मविद्भिर्द्विजैर्नित्यं नित्यमध्यात्मचिन्तकैः
पर्यायनामान्येतस्य कथयन्ति मनीषिणः
तानि ते सम्प्रवक्ष्यामि तदिहैकमनाश्शृणु
महार्णवोऽर्णवश्चैव सलिलं च गुणास्तथा
वेदास्तपांसि यज्ञाश्च धर्माश्च भगवान्विभुः
प्राणस्सांवर्तकोग्निश्च व्योम कालस्तथैव च
नामान्येतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै
कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुसारतः
चतुर्युगसहस्राणि चतुर्युगमरिन्दम
प्राहुः कल्पसहस्रं वै ब्राह्मणास्तत्वदर्शिनः
दशकल्पसहस्राणि अव्ययस्य महानिशा
तथैव दिवसं प्राहुर्योगास्सङ्ख्याश्च तत्त्वतः
निशां सुप्तोऽथ भगवान्क्षपान्ते प्रत्यबुध्यत
पश्चाद्बुद्ध्वा ससर्जापस्तासु वीर्यमवासृजत्
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्
अण्डं कृत्वा ततस्तस्मिन्ससर्ज प्रभुरीश्वरः
हिरण्यगर्भं विश्वात्मा ब्रह्माणां जलजान्मुनिम्
भूतभव्यभविष्यस्य कर्तारमनघं विभुम्
मूर्तिमन्तं महात्मानं विश्वशम्भुं स्वयम्भुवम्
अणिमा लघिमा प्राप्तिरीशानो ज्योतिषां वरः
चक्रे तिरोधां भगवानेतत्कृत्वा महायशाः
एतस्यापि निशामाहुर्वेदवेदाङ्गपारगाः
पञ्चकल्पसहस्राणि अहरेतावदेव च
स सर्गं कुरुत ब्रह्मा तामसश्चानुपूर्व्यशः
सृजतेऽहं त्वहङ्कारं परमेष्ठिनमव्ययम्
अहङ्कारेण वै लोका व्याप्तास्साहङ्कृतेन वै
येनाविष्टानि भूतानि मज्जन्त्यव्यक्तसागरे
देवर्षिदानवनरा यक्षगन्धर्वकिन्नराः
उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस्तिर्यगेव च
एतस्यापि निशामाहुस्तृतीयामथ कुर्वतः
त्रीणि कल्पसहस्राणि अहरेतावदेव तु
अहङ्कारस्तु सृजति महाभूतानि पञ्च वै
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
एतेषां गुणतत्त्वानि पञ्च प्राहुर्द्विजातयः
शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च
गुणेष्वेतेष्वभिरताः पङ्कलग्ना इव द्विपाः
नोत्तिष्ठन्त्यवशीभूतास्सक्ता अव्यक्तसागरे
एतेषामिह वै सर्गं चतुर्थमिह कुर्वतः
चतुर्युगसहस्रे वै अहोरात्रास्तथैव च
अनन्त इति विख्यातः पञ्चमस्सर्ग उच्यते
इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात्
मनस्सर्वमिदं तात विश्वं सर्वमिदं जगत्
न तथाऽन्यानि भूतानि बलवन्ति यथा मनः
एतस्यापि ह वै सर्गं षष्ठमाहुर्द्विजातयः
अहः कल्पसहस्रं वै रात्रिरेतावती तथा
ऊर्ध्वस्रोतस्तु वै सर्गं सप्तमं ब्रह्मणो विदुः
अष्टमं चाप्यधस्स्रोतस्तिर्यक्तु नवमस्स्मृतः
एतानि नव सर्गाणि तत्त्वानि च महामुने
चतुर्विंशतितत्त्वानि तत्त्वसङ्ख्यानि तेऽनघ
सर्वस्य प्रभवः पूर्वमुक्तो नारायणः प्रभुः
अव्ययः प्रभवश्चैव अव्यक्तस्य महामुने
प्रवक्ष्याम्यपरं तत्त्वं यस्य यस्येश्वरश्च यः
अध्यात्ममधिभूतं च अधिदैवं तथैव च
यथाश्रुतं यथादृष्टं तत्वतो वै निबोध मे
अधस्स्रोतसि सर्गे च तिर्यक्स्रोतसि चैव हि
एताभ्यामीश्वरं विन्द्यादूर्ध्वस्रोतस्तथैव च
कर्मेन्द्रियाणां पञ्चानामीश्वरो बुद्धिगोचरः
बुद्धीन्द्रियाणामपि तु ईश्वरो मन उच्यते
मनसः पञ्चभूतानि सगुणान्याहुरीश्वरम्
भूतानामीश्वरं विद्याद्ब्रह्माणं परमेष्ठिनम्
भवान्हि कुशलश्चैव धर्मेष्वेषु परेषु वै
कालाग्निरह्नः कल्पान्ते जगद्दहति चांशुभिः
ततस्सर्वाणि भूतानि स्थावराणि चराणि च
महाभूतानि दग्धानि स्वां योनिं गमितानि वै
कूर्मपृष्ठनिभा भूमिर्निर्दग्धकुशकण्टका
निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा
जगत्प्रलीनं जगति जगच्चाप्सु प्रलीयते
नष्टिगन्धा तदा सूक्ष्मा जलमेवाभवत्तदा
ततो मयूखजालेन सूर्यस्त्वापीयते जलम्
रसात्मा लीयते चार्के तदा ब्राह्मणसत्तम
अन्तरिक्षगतान्भूतान्प्रदहत्यनलस्तदा
अग्निभूतं तदा व्योम भवतीत्यभिचक्षते
तं तथा विस्फुरद्वह्निं वायुर्जरयते महान्
महता बलवेगेन आदत्ते तं हि भानुमान्
वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत्
तस्य तं निनदं शब्दमादत्ते वै मनस्तदा
स शब्दगुणहीनात्मा तिष्ठते मूर्तिमांस्तु वै
भुङ्क्ते च स तदा व्योम मनस्तात दिगात्मकम्
व्योमात्मनि विनष्टे तु सङ्कल्पात्मा विवर्धते
सङ्कल्पात्मानमादत्ते चित्तं वै स्वेन तेजसा
चित्तं ग्रसत्यहङ्कारस्तदा वै मुनिसत्तम
विनष्टे च तदा चित्ते अहङ्कारोऽभवन्महान्
अहङ्कारं तदाऽऽदत्ते महान्ब्रह्मा प्रजापतिः
अभिमाने विनष्टे तु महान्ब्रह्मा विराजते
तं तदा त्रिषु लोकेषु मूर्तिष्वेवाग्रमूर्तिजम्
येन विश्वमिदं कृत्स्नं निर्मितं वै गुणार्थिना
मूर्तिं जलेश्वरमपि व्यवसायगुणात्मकम्
ग्रसिष्णुर्भगवान्ब्रह्मा व्यक्ताव्यक्तमसंशयम्
एषोऽव्ययस्य प्रलयो मया ते परिकीर्तितः
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम्
आकाशः प्रथमं भूतं श्रोत्रमध्यात्मं शब्दोऽधिभूतं दिशोधिदैवतम्
वायुर्द्वितीयं भूतं त्वगध्यात्मं स्पर्शोऽधिभूतं विद्युदधिदैवतं स्यात्
ज्योतिस्तृतीयं भूतं चक्षुरध्यात्मं रूपमधिभूतं सूर्योऽधिदैवतं स्यात्
आपश्चतुर्थं भूतं जिह्वाध्यात्मं रसोऽधिभूतं वरुणोऽधिदैवतं स्यात्
पृथिवी पञ्चमं भूतं ध्राणमध्यात्मं गन्धोऽधिभूतं वायुरधिदैवतं स्यात्
पाञ्चभौतिकमेतच्चतुष्टयवमनुर्णितम्
अत ऊर्ध्वमिन्द्रियमनुवर्णयिष्यामः
पादावध्यात्मं गन्तव्यमधिभूतं विष्णुरधिदैवतं स्यात्
हस्तावध्यात्मं कर्तव्यमधिभूतमिन्द्रोऽधिदैवतं स्यात्
पायुरध्यात्मं विसर्गोऽधिभूतं मित्रोऽधिदैवतं स्यात्
उपस्थोऽध्यात्ममानन्दोऽधिभूतं प्रजापतिरवधिदैवतं स्यात्
वागध्यात्मं वक्तव्यमधिभूतमग्निरधिदैवतं स्यात्
मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रमा अधिदैवतं स्यात्
अहङ्कारोऽध्यात्ममभिमानोऽधिभूतं विरिञ्चोऽधिदैवतं स्यात्
बुद्धिरध्यात्मं व्यवसायोऽधिभूतं ब्रह्माऽधिदैवतं स्यात्
एवमव्यक्तो भगवान्सकृत्कृत्स्नान्कुरुते सम्हरते च
कस्मात्क्रीडार्थम्
यथाऽऽदित्योंऽशुजालं क्षिपति सम्हरते च एवमव्यक्तो गुणान्सृजति सम्हरते च
यथाऽर्णवादूर्मिमालानिचयश्चोर्व्वमुत्तिष्ठते सम्हरते च
यथा चान्तरिक्षादभ्रमाकोशमुत्तिष्ठति स्तनितगर्जितोन्मिश्रं तद्वत्तत्रैव प्राणशत्
एवमव्यक्तो गुणान्सृजति सम्हरति च
यथा कूर्मोऽङ्गानि कामात्प्रसारयते पुनश्च प्रवेशयति एवमव्यक्तो लोकान्प्रकाशयते प्रवेशयते च
एवं चेतनश्च भगवान्पञ्चविंशश्शुचिस्तेनाधिष्ठिता प्रकृतिश्चेतयति नित्यं सहधर्मा च
भगवतोऽव्यक्तस्य क्रियावतोऽक्रियावतश्च प्रकृतिः क्रियावानजरामरः क्षेत्रज्ञो नारायणाख्यः पुरुषः
भीष्मः-
इत्येतन्नारदायोक्तं कुमारेण च धीमता
एतच्छ्रुत्वा द्विजो राजन्सर्वयज्ञफलं लभेत्