युधिष्ठिरः-
कीदृशे पुरुषे तात स्त्रीपु वा भरतर्षभ
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह
भीष्मः-
अत्र ते वर्णयिष्यामि यथावृत्तं यथाश्रुतम्
रुक्मिणी देवकीपुत्रसन्निधौ पर्यपृच्छत
नारायणस्याङ्कगतां ज्वलन्तीं दृष्ट्वा श्रियं पद्मसमानवक्त्राम्
कौतूहलाद्विस्मितचारुनेत्रा पप्रच्छ माता मकरध्वजस्य
रुक्मिणी-
कानीह भूतान्युपसेवसे त्वं सन्तिष्ठसे कानि च सेवसे त्वम्
तानि त्रिलोकेश्वरभूतकान्ते तत्त्वेन मे ब्रूहि महर्षिकन्ये
भीष्मः-
एवं तदा श्रीराभिभाष्यमाणा मात्रा समक्षं मकरध्वजस्य
उवाच वाक्यं मधुराभिधानं मनोहरं चन्द्रमुखी प्रसन्ना
श्रीः-
वसामि सत्त्वे सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने
नाकर्मशीले पुरुषे वसामि न नास्तिके साङ्करिके कृतघ्ने
न भिन्नवृत्ते न नृशंसवृत्ते न चाविनीते न गुरुष्वसूयके
ये चाल्पतेजोबलसत्त्वसारा हृष्यन्ति तुष्यन्ति च यत्र तत्र
न देवि तिष्ठामि तथाविधेषु नरेषु सङ्क्षिप्तमनोरथेषु
यश्चात्मनि प्रार्थयते न किञ्चिद्यश्च स्वभावोपहतान्तरात्मा
तेष्वप्यसन्तोषकरेषु नाहं नरेषु नाहं निवसामि देवि
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु
वृद्धसेविषु दान्तेषु सत्वज्ञेषु महात्मसु
अवन्ध्यकालेषु सदा दानशौचरतेषु च
ब्रह्मचर्यतपोज्ञानगोद्विजातिप्रियेषु च
वासामि स्त्रीषु कान्तासु देवद्विजपरासु च
विशुद्धगृहभाण्डासु गोधान्याभिरतासु च
प्रकीर्णभाण्डामनवेक्ष्यकारिणीं सदा च भर्तुः प्रतिकूलवादिनीम्
परस्य वेश्माभिरतामलज्जां सदाऽशनीयां परिवर्जयामि
लोलां मताक्षामवलेपिनीं च व्यपेतशौचां कलहप्रियां च
निद्राभिभूतां सततं शयानामेवंविधां स्त्रीं परिवर्जयामि
सत्यासु नित्यं प्रियदर्शनासु सौभाग्ययुक्तासु बहुश्रुतासु
वसामि नारीषु गुणान्वितासु कल्याणशीलासु विभूषितासु
यानेषु कन्यासु विभूषणेषु वज्रेषु मेघेषु च वृष्टिमत्सु
वसामि फुल्लासु च पद्मिनीषु नक्षत्रवीथीषु च शारदीषु
शैलेषु गोष्ठेषु तथा वनेषु सरस्सु फुल्लोत्पलपङ्कजेषु
नदीषु हंसस्वननादितासु क्रौञ्चान्यपुष्टस्वरशोभितासु
विस्तीर्णकूलह्रदशोभितासु तपस्विसिद्धद्विजसेवितासु
वसामि नित्यं च बहूदकासु सिंहैर्गजैश्चाकुलितोदकासु
मत्ते गजे गोवृषभे नरेन्द्रे सिम्हासने सत्पुरुषे च नित्यम्
यस्मिस्गृहे हूयति हव्यवाहो गोब्राह्मणाश्चाच्युतदेवता च
काले च पुष्पैर्बलयः क्रियन्ते तस्मिन्गृहे नित्यमुपैमि वासम्
स्वाध्यायशीलेषु द्विजेषु नित्यं क्षत्रे च धर्माभिरते तथैव
वैश्ये च कृष्याभिरते वसामि शूद्रे च शुश्रूषणनित्ययुक्ते
नारायणे त्वेकमना वसामि सर्वेण भावेन शरीरभूता
तस्मिन्हि धर्मस्सुमहान्निविष्टो ब्रह्मण्यता चात्र तथा प्रियत्वम्
नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम्
यस्मिंस्तु भावेन वासामि पुंसि स वर्धते धर्मयशोर्थकामैः