युधिष्ठिरः-
मित्रसौहार्दयोगेन उपदेशं करोति यः
जात्याऽवरस्य राजर्षे दोषस्तस्य भवेन्न वा
एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह
सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः
भीष्मः-
अत्र ते वर्तयिष्यामि शृणु मे भरतर्षभ
दुरुक्तवचनं राजन्यथान्यायं यथागमम्
ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा पुरा
उपदेशो न कर्तव्यो जातिहीनस्य कस्य चित्
उपदेशे महान्दोष उपाध्यायस्य उच्यते
नाध्यापयेच्छूद्रमिह तथा नैव च याजयेत्।
निदर्शनमिदं राजञ्श्रृणु मे भरतर्षभ
दुरुक्तवचने राजन्यथापूर्वं युधिष्ठिर
ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतश्शुभे
तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम्
बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम्
सिद्धचारणसङ्घुष्टं रम्यं पुष्पितकाननम्
व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम्
ब्राह्मणैश्च महाभागैस्सूर्यज्वलनसन्निभैः
नियमव्रतसम्पन्नैस्समाकीर्णं तपस्विभिः
दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः
वेदाध्ययनघोषैश्च नादितं भरतर्षभ
वालखिल्यैश्च ऋषिभिर्यतिभिश्च निषेवितम्
तत्र कश्चित्समुत्साहं कृत्वा शूद्रो मुदाऽन्वितः
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः
तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः
विहतो विविधा दीक्षास्सम्प्राहृष्यत भारत
अथास्य बुद्धिरभावत्तापस्ये भरतर्षभ
ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत
शूद्रः-
तव प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ
तस्मादभिगतं त्वं मां प्रव्राजयितुमर्हसि
वर्णावरोऽहं भगवञ्शूद्रो जात्याऽस्मि सत्तम
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे
कुलपतिः
भीष्मः-
न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम्
रम्यतां यदि ते बुद्धिश्शुश्रूषानिरतो भव
एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप
शूद्रः-
कथमत्र मया शक्यं व्रतं श्रद्धा परा च मे
विज्ञातमेव भवतु करिष्ये प्रियमात्मनः
भीष्मः-
गत्वाऽऽश्रमपदाद्दूरमुटजं कृतवांस्तु सः
तत्र भूमिं च वेदीं च देवतायतनानि च
निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम्
अभिषेकांश्च नियमान्देवतायतनानि च
बलिं कृत्वा च हुत्वा च देवतान्यभ्यपूजयत्
सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः
नित्यं सन्निहिताभिश्च ओषधीभिः फलैस्तथा
अतिथीन्पूजयामास यथावत्समुपागतान्
एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै
अथास्य ऋषिरागच्छत्सङ्गत्या वै तमाश्रमम्
सम्पूज्य स्वागतेनर्षिं विधिवत्पर्यतोषयत्
अनूकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत
ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः
एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ
अगच्छदाश्रममृषिश्शूद्रं द्रष्टुं नरर्षभ
अथ तं तापसशूद्रस्सोऽब्रवीद्भरतर्षभ
शूद्रः-
पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु
भीष्मः-
अथ ग्राहयितुं विप्रं शूद्रो नीवारतण्डुलान्
शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत्
अथ दर्भांश्च वन्यांश्च ओषधीर्भरतर्षभ
पवित्रमासनं चैव बृसीं च समुपानयत्
अथ दक्षिणमाश्रित्य बृसीमपरशीर्षिकाम्
कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत्
भीष्मः-
ऋषिः-
कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखश्शुचिः
स च तत्कृतवाञ्शूद्रस्सर्वं यदृषिरब्रवीत्
यथोपदिष्टं मेधावी दर्भादीनि यथातथम्
हव्यकव्यविधिं कृत्स्नमुक्तं तेन यशस्विना
ऋषिणा पितृकार्येषु सदा धर्मपथे स्थितः
पितृकार्ये कृते चापि विसृष्टस्स जगाम ह
अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः
वने पञ्चत्वमगमत्सुकृतेन कृतेन वै
अजायत महाराज राजवंशे महाद्युतिः
तथैव स ऋषिस्तात कालधर्ममवाप्य ह
पुरोहितकुले विप्रस्स जातोऽस्य वशानुगः
एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा
क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ
अथर्ववेदे वेदे च बभूवर्षिस्सुनिश्चितः
कल्पप्रयोगे चोत्पन्ने ज्योतिष्येवपरं गतः
साङ्ख्ये चैव परा प्रीतिस्तयोश्चापि व्यवर्धत
पितर्युपरते चाथ कृतशौचस्स भारत
अभिषिक्तः प्रकृतिभी राजपुत्रस्स पार्थिवः
अभिषिक्तेन ऋषिरभिषिक्तः पुरोहितः
स तं पुरोधाय सुखमवसद्भरतर्षभः
राज्यं शशास धर्मेण प्रजाश्च परिपालयन्
पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत्
उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम्
एवं स बहुशो राजन्पुरोधसमुपाहसत्
लक्षयित्वा पुरोधाश्च बहुशस्तं नराधिपम्
उत्स्मयन्तं च सततं दृष्ट्वा तं मन्युमानभूत्
अथ शून्ये पुरोधास्तु सह राज्ञा समागतम्
कथाभिरनुरूपाभी राजानमभिराधयन्
ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ
पुरोहितः-
वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते
राजा-
वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम
स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव
पुरोहितः-
भीष्मः-
एकं च वरमिच्छामि यदि तुष्टोऽसि पार्थिव
यद्ददासि महाराज सत्यं यद्वद माऽनृतम्
बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर
राजा-
यदि ज्ञास्यामि वक्ष्यामि अज्ञातं न तु संवदे
पुरोहितः-
पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत्
शान्तिहोमेष्वपि तथा किं त्वं हससि वीक्ष्य माम्
व्रीळितं मे भवति हि मनो मे हसता त्वया
स मया शापितो राजन्नान्यथावक्तुमर्हसि
भाव्यं हि कारणेनात्र न ते हास्यमकारणम्
कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे
राजा-
एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि
अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज
पूर्वदेहे यथा वृत्तं निबोध द्विजसत्तम
जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु
शुद्रोऽहमभवं पूर्वं तपस्ये कृतनिश्चयः
ऋषिरुग्रतपास्त्वं तु तदाऽभूर्द्विजसत्तम
प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना
पितृकार्ये त्वया ब्रह्मन्नुपदेशः कृतो मम
बृस्यां दर्भे च हव्ये च कव्ये च द्विजसत्तम
एतेन कर्मदोषेण पुरोधास्समजायथाः
अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम्
त्वत्कृतेनोपदेशेन त्वया प्राप्तमिदं फलम्
एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम
न त्वां परिभवाद्ब्रह्मन्प्रहसामि गुरुर्भवान्
विपर्ययेण मे मन्युस्तेन स्मयति मे मतिः
जातिं स्मराम्यहं ब्रह्मंस्ततस्त्वां प्रहसामि वै
एवं तपो गृहीतं व उपदेशेन नाशितम्
पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे
भीष्मः-
इतस्त्वमसमामन्यां योनिं प्राप्स्यसि स द्विज
गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम
ततो विसृष्टो राज्ञा तु विप्रो धान्यान्यनेकशः
ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामननेकशः
कृच्छ्राणि कृत्वा च तदा यथोक्तानि द्विजोत्तमैः
तीर्थानि चापि गत्वा वै दानानि विविधानि च
दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवद्द्विजः
तमेव चाश्रमं गत्वा चचार विपुलं तपः
ततस्सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम
सत्तमश्चाभवत्तेषामाश्रमे श्रमवासिनाम्
एवं प्राप्तो महत्कृच्छ्रमृषिस्स नृपसत्तम
ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने
वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप
उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात्
नेषितव्यं सदा वाचा द्विजेन नृपसत्तम
न च प्रवक्तव्यमिह किञ्चिद्वर्णावरे जने
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः
एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति
तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किञ्चिदग्रतः
सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः
तस्मान्मौनानि ऋषयो दीक्षां कुर्वन्ति चानृते
दुरुक्तस्य भयाद्राजन्नाभाषेत किञ्चन
धार्मिका गुणसम्पन्नास्सत्यार्जवगुणान्विताः
दुरुक्तवाचाऽभिहिताः प्राप्नुवन्तीह किल्बिषम्
उपदेशो न कर्तव्यो ह्यज्ञात्वा यस्य कस्य चित्
उपदेशाद्धि तत्पापं ब्राह्मणस्समवाप्नुयात्
विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता
सत्यानृतेन हि कृत उपदेशो हिनस्ति हि
वक्तव्यमथ पृष्टेन विनिश्चयविपर्ययम्
स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात्
एतत्ते सर्वमाख्यातमुपदेशे कृते सति
महान्क्लेशो हि भवति तस्मान्नोपदिशेत् क्वचित्