युधिष्ठिरः-
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह
न प्रयच्छन्ति लोकास्ते के भवन्ति महामते
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः
भीष्मः-
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु
आशास्तस्य हतास्सर्वाः क्लीबस्येव प्रजाफलम्
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत
यच्च तस्य हुतं किञ्चित्सर्वं तस्योपहन्यते
अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः
निशास्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया
अपि चोदाहरन्तीमं धर्मं धर्मविदो जनाः
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सृगालस्य च संवादं वानरस्य च सत्तम
तौ सहायौ पुरा ह्यास्तां मानुषत्वे परन्तप
अन्यां योनिं समुत्पन्नौ सृगालीं वानरीं तथा
सम्भाषणं ततस्सख्यं तत्र तत्र परस्परम्
ततः परा सहायं तं सृगालं वानरोऽब्रवीत्
श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन्
वानरः-
किं त्वया पापकं पूर्वं कृतं पूर्वं सुदारुणम्
यत्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान्
भीष्मः-
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा
सृगालः-
ब्राह्मणस्य प्रतिश्रुत्य न मया तदपाकृतम्
तत्कृते पापिकां योनिमापन्नोस्मि प्लवङ्गम
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः
भीष्मः-
स चाप्याह ब्राह्मणानां फलाहारः प्लवङ्गमः
वानरः-
तस्मान्न ब्राह्मणस्वं तु हर्त्तव्यं विदुषा सदा
सीमाविवादे मोक्तव्यम्दातव्यं च प्रतिश्रुतम्
भीष्मः-
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम्
तथा कथां कथयतः पुण्यां धर्म्यां पुरातनाम्
श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते
न हर्तव्यं विप्रधनं क्षन्तव्यं तेषु नित्यशः
बालाश्च नावमन्तव्या दरिद्राः कृपणा अपि
एवमेवेह मां नित्यम्ब्राह्मणास्सन्दिशन्ति वै
प्रतिश्रुतं भवेद्देयं आशाकामो हि ब्राह्मणः
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते
सुसमिद्धो यता दीप्तः पावकस्तद्विधस्स्मृतः
यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया
प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा
स एव च यदा तुष्टो वचसा प्रतिनन्दति
भवत्यगदसङ्काशो विषये तस्य भारत
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा
पुरं जनपदं चैव शान्तिरिष्टेन पोषति
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते
सहस्रकिरणस्येव सवितुर्धरणीतले
तस्माद्दातव्यमित्येव प्रतिश्रुत्य युधिष्ठिर
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः
शक्यः प्राप्तुं विशेषेण दानं हि महती क्रिया
इतो दत्तेन जीवन्ति देवताः पितरस्था
तस्माद्दानानि दानानि ब्राह्मणानां परन्तप
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते
वेलायां न तु कस्याञ्चिद्विप्रो गच्छेदपूजितः