युधिष्ठिरः-
गरुडः पक्षिणां श्रेष्ठ इति पूर्वं पितामह
उक्तस्त्वया महाबाहो श्वेतवाहं प्रशंसता
अत्र कौतूहल इति श्रवणे जायते मतिः
कथं गरुत्मान्पक्षीणां श्रैष्ठ्यं प्रापः परन्तप
सुपर्णो वैनतेयश्च केन शत्रुश्च भोगिनाम्
किंवीर्यः किम्बलश्चासौ वक्तुमर्हसि भारत
भीष्मः-
वासुदेव महाबाहो देवकीसुप्रजास्त्वया
श्रुतं ते धर्मराजस्य यदुहर्षविवर्धन
सुपर्णं शंस इत्येव मामाह कुरुनन्दनः
अस्य प्रवक्तुमिच्छामि त्वया पृष्टो महाद्युते
त्वं हि शौरे महाबाहो सुपर्णः प्रोच्यसे पुरा
अनादिनिधने काले गरुडश्चासि केशव
तस्मात्पूर्वं प्रसाद्य त्वां धर्मपुत्राय धीमते
गरुडं पततां श्रेष्ठं वक्तुमिच्छामि माधव
श्रीभगवान्-
यथैव मां भवान्वेद तथा वेद युधिष्ठिरः
यथा च गरुडो जातस्तथाऽस्मै ब्रूहि तत्वतः
भीष्मः-
युधिष्ठिर महाबाहो शृणु राजन्यथातथम्
गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम्
तथा च गरुडो राजन्सुपर्णश्च यथाऽभवत्
यथा च भुजगान्हन्ति तथा मे ब्रुवतश्शृणु
पुराऽहं तात रामेणि जामदग्न्येन धीमता
कैलासशिखरे रम्ये मृगान्निघ्नन्सहस्रशः
तमहं तात दृष्टैव शस्त्रण्युत्सृज्य सर्वशः
अभिवाद्य पूर्वं रामाय विनयेनोपतस्थिवान्
तमहं कथान्ते वरदं सुपर्णस्य बलौजसी
अपृच्छं स च मां प्रीतः प्रत्युवाच युधिष्ठिर
रामः-
कद्रूश्च विनता चास्तां प्रजापतिसुते उभे
ते धर्मेणोपयेमे च मारीचः कश्यपः प्रभुः
प्रादात्ताभ्यां वरं प्रीतो भार्याभ्यां सुमहातपाः
तत्र कद्रूर्वरं वव्रे पुत्राणां दशतीश्शतम्
तुल्यतेजःप्रभावानां सर्वेषां तुल्यजन्मनाम्
द्वौ पुत्रौ विनता वव्रे वीरौ भरतसत्तम
कद्रूपुत्रसहस्रेण तुल्यवेगपराक्रमौ
स तु ताभ्यां वरं प्रादात्तथेत्युक्त्वा महातपाः
जनयामास तान्पुत्रांस्ताभ्यामासीद्यथा पुरा
कद्रूः प्रजज्ञे ह्यण्डानां तथैव दशतीश्शतम्
अण्डे द्वे विनता चैव दर्शनीयतरे शुभे
तानि त्वण्डानि तु तयोः कद्रूविनतयोर्द्वयोः
सोपस्वेदेषु पात्रेषु निदधुः परिचारिणः
निस्सरन्ति तदाऽण्डेभ्यः कद्रूपुत्रा भुजङ्गमाः
पञ्चवर्षशते काले दृष्ट्वाश्द सबलौजसः
विनता तेषु जातेषु पन्नगेषु महात्मसु
विपुत्रा पुत्रसन्तापाद्दण्डमेकं बिभेद ह
किमनेन करिष्येऽहमिति वाक्यमभाषत
न हि पञ्चशते काले पुरा पुत्रं ददर्श सा
साऽपश्यदण्डान्निष्क्रान्तं विना पुत्रं मनस्विनम्
पूर्वकायोपसम्पन्नं वियुक्तमितरेण ह
दृष्ट्वा तु तं तथारूपमसमग्रशरीरिणम्
पुत्रदुःखान्विताऽशोचत्स च पक्षी तथा गतः
अब्रवीच्च मुदा युक्तः पर्यश्रुनयनस्तदा
मातरं चपलाऽसीति हतोऽहमिति चासकृत्
न त्वया काङ्क्षितः कालो यावानेवात्यगात्पुरा
आवां भवाव पुत्रौ तु श्वसनाद्बलवत्तरौ
ईर्ष्याक्रोधाभिभूतत्वाद्योऽहमेवं कृतस्त्वया
तस्मात्त्वमपि मे मातर्दासीभावं गमिष्यसि
पञ्चवर्षशतानि त्वं स्पर्धसे वै यया सह
दासी तस्या भवित्रीति साश्रुपातमुवाच ह
एष चैव महाभागे बली बलवतां वरः
मोक्षयिष्यति ते मातर्दासीभावान्ममानुजः
विनता पुत्रशोकार्ता शापाद्भीता च भारत
प्रतीक्षते स्म तं कालं यः पुत्रोक्तस्तदाऽभवत्
ततोऽप्यतीते पञ्चशते वर्षाणां कालसंयुगे
गरुडोऽथ महावीर्यो जज्ञे भुजगभुग्बली
बन्धुरास्यश्शिखी पत्रकोशः कूर्मनखो महान्
रक्ताक्षस्संहतग्रीवो ह्रस्वपादो महाशिराः
यस्त्वण्डात्स विनिर्भिन्नो निष्क्रान्तो भरतर्षभ
विनतापूर्वजः पुत्रस्सोऽरुणो दृश्यते दिवि
पूर्वां दिशामभिप्रेत्य सूर्यस्योदयनं प्रति
अरुणोऽरुणसङ्काशो नाम्ना चैवारुणस्स्मृतः
जातमात्रस्तु विहगो गरुडः पन्नगाशनः
विहाय मातरं क्षिप्रमगमत्सर्वतो दिशः
स तथा चातिववृधे सर्वकामैरथार्चितः
पितामहविसृष्टेन भोजनेन विशां पते
तस्मिंश्च विहगे तत्र यथाकामं विवर्धति
कद्रूश्च विनता चैव गच्छतां सागरं प्रति
ददृशाते तु ते यान्तमुच्चैश्श्रवसमन्तिकात्
स्नात्वोपवृत्तं त्वरितं पीतवन्तं च वाजिनम्
कद्रूः-
ततः कद्रूर्हसन्त्येव विनतामिदमब्रवीत्
हयस्य वर्णः को न्वत्र ब्रूहि यस्ते मतश्शुभे
विनता-
एकवर्णो हयो राज्ञि सर्वश्वेतो मतो मम
वर्णं वा कीदृशं तस्य मन्यते त्वं मनस्विनि
कद्रूः-
सर्वश्वेतो मतस्तुभ्यं य एष हयसत्तमः
ब्रूहि कल्याणि दीव्यानि वर्णान्यत्वेन भामिनि
विनता-
यद्यये दीव्यसि त्वं मे कः पणो नो भविष्यति
सा तज्ज्ञात्वा पणेयं वै ज्ञात्वा तु विपणे त्वया
कद्रूः-
विनता-
जिता दासी भवेर्मे त्वमहं चाप्यसितेक्षणे
रोचते मे पणो राज्ञि दासीत्वेन न संशयः
नैकवर्णैकवर्णत्वे विनते रोचते च ते
सत्यमातिष्ठ भद्रं ते सत्ये स्थास्यामि चाप्यहम्
रामः-
विनता तु तथेत्युक्त्वा कृतसंशपथा पणे
कद्रूरपि तथेत्युक्त्वा पुत्रानिदमुवाच ह
कद्रूः-
मया कृतः पणः पुत्रा मिथो विनतया सह
उच्चैश्श्रवसि गान्धर्वे तच्छृणुध्वं भुजङ्गमाः
अहं व्रुवं नैकवर्णं सैकवर्णमथाब्रवीत्
जिता दासी भवेत्पुत्रास्साहसं वै न संशयः
एकवर्णश्च वाजी स चन्द्रकोकनदप्रभः
साऽहं दासी भविष्यामि जिता पुत्रा न संशयः
ते यूयमश्वप्रवरमाविशध्वमतन्द्रिताः
सर्वश्वेतं वालधिषु वाला भूत्वाऽञ्जनप्रभाः
सर्पाः-
निकृत्या न जयश्श्रेयान्मातस्सत्या गिरश्शृणु
आयत्यां च तदात्वे च न च धर्मोऽत्र विद्यते
सा त्वं धर्मादपेतं वै कुलस्यैवाहितं तव
निकृत्या विजयं मातर्मा स्म कार्षीः कथञ्चन
यद्यधर्मेण विजयं वयं काङ्क्षामहे क्वचित्
त्वया नाम निवार्यास्स्म मा कुरुध्वमिति ध्रुवम्
सा त्वमस्मानपि सतो विपापानृजुबुद्धिनः
कल्मषेण हि संयोक्तुं काङ्क्षसे लोभमोहिता
ते वयं त्वां परित्यज्य द्रविष्याम दिशो दश
यत्र वाक्यं न ते मातः पुनश्श्रोष्याम ईदृशम्
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते
कद्रूः-
शृणोमि विविधा वाचो हेतुमत्यस्समीरिताः
वक्रकामनिवृत्त्यर्थं तदहं वो न रोचये
न च तत्पणितं मन्दाश्शक्यं जेतुमतोऽन्यथा
जिते निकृत्या श्रुत्वैतत्क्षेमं कुरुत पुत्रकाः
श्वोऽहं प्रभातसमये जिता धर्मेण पुत्रकाः
शैलूषिणी भविष्यामि विनताया न संशयः
इह चामुत्र चार्थाय पुत्रानिच्छन्ति मातरः
साऽहं विपन्ना निरये युष्मानासाद्य सङ्गताम्
इह वा तारयेत्पुत्रः प्रेत्य वा तारयेत्पितॄन्
नात्र चित्रं भवेत्किञ्चित्पुनातीति च पुत्रकः
ते यूयं तारणार्थाय मम पुत्रा मनोजवाः
आविशध्वं हयश्रेष्ठं वाला भूत्वाऽञ्जनप्रभाः
जानाम्यधर्मस्सकलो विजिता विनता भवेत्
निकृत्या दासभावस्तु युष्मानप्यवपीडयेत्
निकृत्या विजयो वेति दासत्वमवरं भवेत्
उभयं निश्चयं कृत्वा जयो वै धार्मिको वरः
यद्यप्यधर्मो विजयो युष्मानेव स्पृशेत्पुनः
गुरोर्वचनमादाय धर्मो वस्स भविष्यति
रामः-
श्रुत्वा तु वचनं मातुः क्रुद्धायास्ते भुजङ्गमाः
कृच्छ्रेणैवान्वमोदन्त केचिद्धित्वा दिशो गताः
ये प्रतस्थुर्दिशस्तत्र क्रुद्धा तानशपद्भृशम्
भुजङ्गमानां माता वै कद्रूर्वैरकरी तदा
कद्रूः-
उत्पत्स्यति हि राजन्यः पाण्डवो जनमेजयः
चतुर्थो धन्विनां श्रेष्ठात्कुन्तीपुत्राद्धनञ्जयात्
स सर्पसत्रमाहर्ता क्रुद्धः कुरुकुलोद्वहः
तस्मिन्सत्रेऽग्निना युष्मान्पञ्चत्वमुपनेष्यति
रामः-
एवं च साऽशपन्माता पन्नगान्धर्मचारिणः
गुरोः परित्यागकृतो दोष एतद्भविष्यति
एवं शप्ता दिशः प्राप्ताः पन्नगा धर्मचारिणः
विहाय मातरं प्राप्ता गता वैरकरीं तदा
तत्र ये वृजिनं तस्यामुपपन्ना भुजङ्गमाः
ते तस्य वाजिनो वाला बभूवुरसितप्रभाः
तान्दृष्ट्वा वालधिस्थांश्च पुत्रान्कद्रूरथाब्रवीत्
विनतामथ संहृष्टा हयोऽसौ दृश्यतामिति
एकवर्णो न वा भद्रे पणो नौ सुव्यवस्थितः
उदकादुत्तरन्तं तं हयं चैव च भामिनि
सा त्ववक्रमतिर्देवी विनता जिह्मगामिनीम्
अब्रवीद्भगिनीं किञ्चिद्विहसन्तीव भारत
विनता-
हन्त गच्छाव पश्याव सुकृतो नौ पणश्शुभे
दासी वा ते भविष्यामि त्वं वा दासी भविष्यसि
रामः-
एवं स्थिरं पणं कृत्वा हयं ते तं ददर्शतुः
कृत्वा साक्षिणमात्मानं भगिन्यौ कुरुसत्तम
सा दृष्ट्वैव हयं मन्दं विनता शोककर्शिता
श्वेतं चन्द्रांशुवालं तं कालवालं मनोजवम्
तत्र सा व्रीलिता वाक्यं विनता साश्रुबिन्दुका
उवाच कालवालोऽयं तुरगो विजितं त्वया
दासी मां प्रेषयस्वार्थे यथाकामवशां शुभे
दास्यश्च कामकारा हि भर्तृणां नात्र संशयः
ततः कद्रूर्हसन्तीव विनतां धर्मचारिणीम्
दासीवत्प्रेषयामास सा च सर्वं चकार तत्
न विवर्णा न सङ्क्षुब्धा न च क्रुद्धा न दुःखिता
प्रेष्यकर्म चकारास्या विनता कमलेक्षणा
इमा दिशश्चतस्रोऽस्याः प्रेष्यभावेन वर्तिताः
अथ स्म वैनतेयं वै बलदर्पौ समीयतुः
तं दर्पवशमापन्नं परिधावन्तमन्तिकात्
ददर्श नारदो राजन्देवर्षिर्दर्पसंयुतम्
तमब्रवीद्देवऋषिर्नारदः प्रहसन्निव
नारदः-
किं दर्पवशमापन्नो न वै पश्यसि मातरम्
बलेन दृप्तस्सततमहम्मानकृतस्सदा
दासीं पन्नगराजस्य मातुरन्तर्गृहे सतीम्
रामः-
तमब्रवीद्वैनतेयः कर्म किं तन्महामते
यज्जनित्री मयि सुते जाता दासी तपस्विनी
अथाब्रवीदृषिर्वाक्यं दीव्यती विजिता खग
निकृत्या पन्नगेन्द्रस्य मात्रा पुत्रैः पुरा सह
गरुडः-
कथं जिता निकृत्याऽसौ भगवञ्जननी मम
ब्रूहि तन्मे यथावृत्तं श्रुत्वा वेत्स्ये ततः परम्
रामः-
ततस्तस्य यथावृत्तं सर्वं तन्नारदस्तदा
आचख्यौ भरतश्रेष्ठ यथावृत्तं पतत्रिणः
तच्छ्रुत्वा वैनतेयस्य कोपो हृदि समाविशत्
जगर्हे पन्नगान्सर्वान्सह मात्रा परन्तपः
ततस्तु रोषाद्दुःखाच्च तूर्णमुत्प्लुत्य पक्षिराट्
जगाम यत्र माताऽस्य कृच्छ्रे महति वर्तते
तत्रापश्यत्ततो दीनां जटिलां मलिनां कृशाम्
तोयदेन प्रतिच्छन्नां सूर्याभामिव मातरम्
तस्य दुःखाच्च रोषाच्च नेत्राभ्यामश्व्रवास्रवत्
प्रवृत्तिं च निवृत्तिं च पौरुषे प्रतितस्थुषः
अनुक्त्वा मातरं किञ्चित्पतत्रिवरपुङ्गवः
कद्रूमेव स धर्मात्मा वचनं प्रत्यभाषत
गरुडः-
यदि धर्मेण मे माता जिता यद्यप्यधर्मतः
ज्येष्ठा त्वमसि मे माता धर्मस्सर्वस्स मे मतः
इयं तु मे स्यात्कृपणा मयि पुत्रेऽम्ब दुःखिता
अनुजानीहि तां साधु मत्कृते धर्मदर्शिनि
रामः-
कद्रूश्श्रुत्वास्य तद्वाक्यं वैनतेयस्य धीमतः
उवाच वाचं दुष्प्रज्ञा दुःखक्रोधाविमूर्च्छिता
कद्रूः-
नाहं तव न ते मातुर्वैनतेय कथञ्चन
कुर्यां प्रियमनिष्टात्मा मां ब्रवीषि खग द्विज
रामः-
तां तदा ब्रुवतीं वाक्यमनिष्टां क्रूरभाषिणीम्
दारुणां सूनृताभिस्तामनुनेतुं प्रचक्रमे
गरुडः-
ज्येष्ठा त्वमसि कल्याणि मातुर्मे भामिनि प्रिया
सोदर्यी मम चासि त्वं ज्येष्ठा माता न संशयः
कद्रूः-
विहङ्गम यथाकामं गच्छ कामगम द्विज
सूनृताभिस्त्वया माता नादासी शक्यमण्डज
अमृतं यद्याहरेस्त्वं विहङ्गं जननीं तव
अदासीं त्वमपश्येमां वैनतेय न संशयः
रामः-
तथेत्युक्त्वा तु विहगः प्रतिज्ञाय महाद्युतिः
अमृताहरणे वाचं ततः पितरमब्रवीत्
गरुडः-
कामं हि सूनृता वाचो विसृज्य च मुहुर्मुहुः
यच्चाप्यनुज्ञां मातुर्वै न च सा ह्यनुमन्यते
सा मा बहुविधा वाचो वज्रकल्पा विसृज्य वै
भगवन्विनता दासी मम माता महाद्युते
कद्रूः प्रेषयते चैव दासीयमिति चाब्रवीत्
आहरामृतमित्येव विनता मोक्ष्यते ततः
सोहं मातृविमोक्षार्थमाहरिष्य इति ब्रुवन्
अमृतं प्रार्थितस्तूर्णं हर्तुमप्रतिनन्द्य वै
पिता-
अमृतं तात दुष्प्रापं देवैरपि कुतस्त्वया
रक्ष्यते हि भृशं पुत्र रक्षिभिस्तन्निबोध मे
गुप्तमद्भिर्भृशं साधु सर्वतः परिवारितम्
अनन्तरमथो गुप्तं ज्वलता जातवेदसा
ततश्शतसहस्राणि प्रयुतान्यर्बुदानि च
रक्षन्त्यमृतमत्यन्तं किङ्करा नाम राक्षसाः
तेषां शक्त्यश्च शूलांश्च शतघ्न्यः पट्टसास्तथा
आयुधा रक्षिणां तात वज्रकल्पाश्शिलास्तथा
ततो जालेन महता अवनद्धं समन्ततः
अयस्मयेन वै तात वृत्रहन्तुस्स्म शासनात्
तत्त्वमेवंविधं तात कथं प्रार्थयसेऽमृतम्
सुरक्षितं वज्रभृतां वैनतेय विहङ्गम
गरुडः-
पुत्रगृद्ध्या ब्रवीष्येतच्छृणु तात विनिश्चयम्
बलवानुपायवानस्मि भूयः किं करवाणि ते
रामः-
तमब्रवीत्पिता हृष्टः प्रहसन्वै पुनः पुनः
काश्यपः-
यदि तौ भक्षयेस्तात क्रूरौ कच्छपवारणौ
तथा बलममेयं ते भविता तन्न संशयः
अमृतस्यैव चाहर्ता भविष्यसि न संशयः
गरुडः-
क्व तौ क्रूरौ महाभाग वर्तेते हस्तिकच्छपौ
भक्षयिष्याम्यहं तात बलस्याप्यायनं प्रति
कश्यपः-
पर्वतो वै समुद्रान्ते नभस्स्तब्ध्वेव तिष्ठति
उरगो नाम दुष्प्रापः पुरा देवगणैरपि
गोरुतानि स विस्तीर्णः पुष्पितद्रुमसानुमान्
तत्र पन्थाः कृतस्तात कुञ्जरेण बलीयसा
गोरुतान्युच्छ्रयस्तस्य नव सप्त च पुत्रक
गच्छताऽगच्छता चैव क्षपितस्स महागिरिः
तावान्भूमिसमस्तात कृतः पन्थास्समुत्थितः
तेन गत्वा स मातङ्गः पिपासुर्युद्धमिच्छति
तमतीत्य तु शैलेन्द्रं ह्रदः कोकनदायुतः
कनकेति च विख्यातस्तत्र कूर्मो महाबलः
गोरुतानि स विस्तीर्णः कच्छपः कुञ्जरश्च सः
आयामतश्चाद्रिसमौ तेजोबलसमन्वितौ
पुनरावृत्तिमापन्नौ तावेतौ मधुकैटभौ
जन्मान्तरे विप्रमूढौ परस्परवधैषिणौ
यदा स नागो व्रजति पिपासुस्तं जलाशयम्
तदैनं कच्छपो रोषात्प्रतियाति महाबलः
नखैश्च दशनैश्चापि निमज्योन्मज्य चासकृत्
विददाराग्रहस्तेन कुञ्जरं तं जलेचरः
नागराडपि तोयार्थी पिपासुश्चरणैरपि
अग्रहस्तेन दन्ताभ्यां निवारयति वारिजम्
स तु तोयादनुत्तिष्ठन्वारिजो गजयूथपम्
नखैश्च दशनैश्चैव द्विरदं प्रतिषेधति
निवारितो गजश्रेष्ठः पुनर्गच्छति स्वं वनम्
पिपासुः क्लिन्नहस्ताग्रो रुधिरेण समुक्षितः
तौ गच्छ सहितौ पुत्र यदि शक्नोषि भक्षय
न तौ पृथक्त्वया शक्यावप्रमत्तौ जले स्थितौ
गरुडः-
कथं तौ भगवञ्शक्यौ मया वारणकच्छपौ
युगपद्गृहीतुं तं मे त्वमुपायं वक्तुमर्हसि
कश्ययः-
योद्धुकामे गजे तस्मिन्मुहूर्तं स जलेचरः
उत्तिष्ठति जलात्तूर्णं योद्धुकामः पुनःपुनः
जलजं निर्जलं तात प्रमत्तं चैव वारणम्
ग्रहीष्यसि पतङ्गेश नान्यो योगोऽत्र विद्यते
रामः-
इत्येवमुक्तो विहगस्तद्गत्वा वनमुत्तमम्
ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम्
तां स नागो गिरेर्वीथिं सम्प्राप्त इव भारत
स तं दृष्ट्वा महाभागस्सम्प्रहृष्टतनूरुहः
बिभक्षयिषतो राजन्दारुणस्य महात्मनः
मातङ्गं कच्छपं चैव प्रहर्षस्सुमहानभूत्
अथ वेगेन महता खेचरस्स महाबलः
सङ्कुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत
तथा गत्वा तमध्वानं वारणप्रवरो बली
निशश्वास महाश्वासश्श्रमाद्विश्रमणाय च
तस्य निश्वासवातेन तेन गन्धेन चैव ह
उदतिष्ठन्महाकूर्मो वारणप्रतिषेधकः
तयोस्सुतुमुलं युद्धं ददर्श पतगेश्वरः
कच्छपेन्द्रद्विरदयोरिन्द्रप्रह्लादयोरिव
स्पृशन्तमग्रहस्तेन तोयं वारणयूथपम्
दन्तैर्नखैश्च जलजो वारयामास भारत
जलजं वारणोऽप्येवं चरणैः पुष्करेण च
प्रत्यषेधन्निमज्जन्तमुन्मज्जन्तं तथैव च
मुहूर्तमभवद्युद्धं तयोर्भीमप्रदर्शनम्
अथ तस्माज्जलाद्राजन्कच्छपस्स्थलमास्थितः
स तु नागः प्रभग्रोऽपि पिपासुर्न न्यवर्तते
तोयगृध्नुश्शनैस्तर्षादपासर्पत पृष्ठतः
तं दृष्ट्वा जलजस्तूर्णमपसर्पन्तमाहवे
अभिदुद्राव वेगेन वज्रपाणिरिवासुरम्
तं रोषात्स्थलमुत्तीर्णमसम्प्राप्तं गजोत्तमम्
उभावेव समस्तौ तु जग्राह विनतासुतः
चरणेन तु सव्येन जग्राह स गजोत्तमम्
प्रस्कन्दमानं बलवान्दक्षिणेन तु कच्छपम्
उत्पपात ततस्तूर्णं पन्नगेन्द्रनिषूदनः
दिवं खं च समावृत्य पक्षाभ्यामपराजितः
तेन चोत्पतता तूर्णं सङ्गृहीतैर्नखैर्भृशम्
वज्रगर्भैस्सुनिशितैः प्राणांस्तूर्णं मुमोचतुः
तौ गृह्य बलवांस्तूर्णं स्रस्तपादशिरोधरौ
विवल्गन्निव खे क्रीडन्खेचरोऽभिजगाम ह
अत्तुकामस्ततो वीरः पृथिव्यां पृथिवीपते
निरैक्षत न चापश्यद्द्रुमं पर्याप्तमासितुम्
नैमिशं त्वथ सम्प्राप्य देवारण्यं महाद्युतिः
अपश्यत द्रुमं कञ्चिच्छाखास्कन्धसमावृतम्
हिमवच्छिखरप्रख्यं योजनद्वयमुच्छ्रितम्
परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः
तस्य शाखाऽभवत्काचिदायता पञ्चयोजनम्
दृढमूला दृढस्कन्धा बहुपत्रसमाचिता
तत्रोपविष्टस्सहसा वैनतेयो निगृह्य तौ
अत्तुकामस्ततश्शाखा तस्य वेगादवापतत्
तां पतन्तीमभिप्रेक्ष्य प्रेक्ष्य चर्षिगणानधः
आसीनान्वसुभिस्सार्धं सत्रेण जगतीपते
वैखानसान्नाम यतीन्वालखिल्यगणानपि
तत्र भीराविशत्तस्य पतगेन्द्रस्य भारत
तान्दृष्ट्वा स यतींस्तत्र समासीनान्सुरैस्सह
तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः
तौ च पक्षी भुजङ्गाशो व्योम्नि क्रीडन्निवाव्रजत्
तं दृष्ट्वा गुरुसम्भारं प्रगृह्योत्पतितं खगम्
ऋषयस्तेऽब्रुवन्सर्वे गरुडोऽयमिति स्म ह
न त्वन्यः क्षमते कश्चिद्यथाऽयं वीर्यवान्खगः
असौ यच्छति धर्मात्मा गुरुभारसमन्वितः
अयं क्रीडन्निवाकाशे तस्माद्गरुड एव सः
एवं ते समयं सर्वे वसवश्च दिवौकसः
अकार्षुः पक्षिराजस्य गरुडेत्येव नाम ह
स पक्षी पृथिवीं सर्वाम्परिधावंस्ततस्ततः
मुमुक्षश्शाखिनश्शाखां न स्म देशमपश्यत
स वाचमशृणोद्दिव्यामुपर्युपरि जल्पतः
देवदूतस्य विस्पष्टमाभाष्य गरुडेति च
देवदूतः-
वैनतेय कुविन्देषु समुद्रान्ते महाबल
पात्यतां शाखिनश्शाखा न भीस्ते धर्मनिश्चयात्
रामः-
तच्छ्रुत्वा गरुडस्तूर्णं जगाम लवणाम्भसः
उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः
तत्र गत्वा ततश्शाखां मुमोच पततां वरः
तया हता जनपदास्तदा षड्त्रिंशतो नृप
स देशो राजशार्दूल ख्यातः परमदारुणः
शाखापतग इत्येव कुविन्दानां दुरात्मनाम्
हृत्वा तं पक्षिशार्दूलः कुविन्दानां जनव्रजम्
उपोपविश्य शैलाग्रे भक्षयामास तावुभौ
वारणं कच्छपं चैव संहृष्टस्स पतत्रिराट्
तयोः स रुधिरं पीत्वा मेदसी च परन्तप
संहृष्टः यततांश्रेष्ठो लब्ध्वा बलमनुत्तमम्
जगाम देवराजस्य भवनं पन्नगाशनः
तं प्रणम्य महात्मानं पावकं विस्फुलिङ्गिनम्
रात्रिन्दिवं प्रज्वलितं रक्षार्थममृतस्य ह
तं दृष्ट्वा विहगेन्द्रस्य भयं तीव्रमथाविशत्
न तु तोयान्न रक्षिभ्यो भयमस्योपपद्यते
पक्षित्वमात्मनो दृष्ट्वा ज्वलन्तं च हुताशनम्
पितामहमथो गत्वा ददर्श भुजगाशनः
तं प्रणम्य महात्मानं गरुडः प्रयताञ्जलिः
प्रोवाच तदसन्दिग्धं वचनं प्रक्षिराट्ततः
गरुङः-
उद्यतं गुरुकृत्ये मां भगवन्धर्मनिश्चितम्
विमोक्षणार्थं मातुर्हि दासभावादनिन्दित
कद्रूसकाशममृतं मया हर्तव्यमीश्वर
तदा मे जननी देव दासभावात्प्रमोक्ष्यते
तत्रामृतं प्रज्वलितो नित्यमीश्वर रक्षति
हिरण्यरेता भगवान्पाकशासनशासनात्
तत्र मे देवदेवेश भयं तीव्रमथाविशत्
ज्वलन्तं पावकं दृष्ट्वा पक्षित्वं चात्मनः प्रभो
समतिक्रमितुं शक्यः कथं स्यात्पावको मया
तस्याभ्युपायं वरद वक्तुमीशोऽसि मे प्रभो
रामः-
तमब्रवीन्महाभाग तप्यमानं विहङ्गमम्
अग्नेस्संशमनोपायमुत्सयन्स पुनःपुनः
ब्रह्मा-
पयसा शाम्यते वत्स सर्पिषा च हुताशनः
शरीरस्थोऽपि भूतानां किं पुनः प्रज्वलन्भुवि
नवनीतं पयो वाऽपि पावके त्वं समादधेः
ततो गच्छ यथाकामं न त्वा धक्ष्यति पावकः
भीष्म उवाच
पितामहवचः श्रुत्वा गरुडः पततांवरः
जगाम गोकुलं किञ्चिन्नवनीतजिहीर्षया
नवनीतं तथाऽपश्यन्मथितं कलशे स्थितम्
तदादाय ततोऽगच्छद्यतस्तद्रक्ष्यतेऽमृतम्
स तत्र गत्वा पतगस्तिर्यक्तोयं महाबलः
हुताशनमपक्रम्य नवनीतमपातयत्
सोऽर्चिष्मान्मन्दवेगोऽभूत्सर्पिषा तेन सर्वतः
धूमकेतुर्न जज्वाल धूममेव ससर्ज ह
तमतीत्याशु गरुडो हृष्टात्मा जातवेदसम्
रक्षांसि समतिक्रामत्पक्षवातेन पातयन्
ते पतन्ति शिरोभिश्च जानुभिश्चरणैस्तथा
उत्सृज्य शस्त्रावरणं पक्षिपक्षसमाहताः
उत्पत्य पर्वतं नागं हत्वा चक्रं व्यतीत्य च
अरान्तरेण शिरसा भित्त्वा जालं समाद्रवत्
स भित्त्वा शिरसा जालं वज्रवेगसमो बली
उज्जहार ततश्शीघ्रममृतं भुजगाशनः
तदादाय द्रवच्छीघ्रं गरुडश्श्वसनो यथा
अथ सन्नाहमकरोद्वृत्रहा विबुधैस्सह
ततो मातलिना युक्तं हरिभिस्स्वर्णमालिभिः
आरुरोह रथं शीघ्रं सूर्याग्निसमतेजसम्
सोऽभ्यद्रवत्पक्षिवरं वृत्रहा पाकशासनः
उद्यम्य निशितं वज्रं वज्रहस्तो महाबलः
तथैव गरुडो राजन्वज्रहस्तात्समाद्रवत्
ततो वै मातलिं प्राह शीघ्रं वाहय वाजिनः
अथ दिव्यं महाघोरं गरुडाय ससर्ज ह
वज्रं सहस्रनयनस्तिग्मवेगपराक्रमः
उत्सिसृक्षन्तमाज्ञाय वज्रं वै त्रिदशेश्वरम्
तूर्णं वेगपरो भूत्वा जगाम पततां वरः
पितामहनिसर्गेण ज्ञात्वा लब्धवरः खगः
आयुधानां वरं वज्रमथ शक्रमुवाच ह
गरुडः-
वृत्रहन्नेष वज्रस्ते वरलब्धः पितामहात्
अतस्सम्मानमाकाङ्क्षन्मुञ्चाम्येकं तनूरुहम्
एतेनायुधराजेन यदि शक्तोषि वृत्रहन्
हन्यास्त्वं परया शक्तया गच्छाम्यहमनामयः
रामः-
तत्तु तूर्णं तदा वज्रं स्वेन वेगेन भारत
जघान परया शक्त्या न चैनमदहद्भृशम्
ततो देवर्षयो राजन्गच्छन्तो वै विहायसा
दृष्ट्वा वज्रं विषक्तं तं पक्षिपर्णेऽब्रुवन्वचः
देवर्षयः-
सुपर्णः पक्षिगरुडो यस्य पर्णे वरायुधम्
विषक्तं देवराजस्य वृत्रहन्तुस्सनातनम्
भीष्मः-
एवं सुपर्णो विहगो वैनतेयः प्रतापवान्
ऋषयस्तं विजानन्ति चाग्नेयं वैष्णवं पुनः
वेदाभिष्टुतमत्यर्थं स्वर्गमार्गफलप्रदम्
तनुपर्णं सुपर्णस्य जगृहुर्बर्हिणस्तथा
मयूरा विस्मितास्सर्वे आद्रवन्ति स्म वज्रिणम्
ततो व्रज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम्
ऋषींश्च दृष्ट्वा सहसा सुपर्णमिदमब्रवीत्
इन्द्रः-
न ते सुपर्ण पश्यामि प्रभावं येन मे भवान्
इत्युक्ते न मया रक्षा शक्या कर्तुमतोऽन्यथा
इदं वज्रं मया सार्धं निवृत्तं हि यथागतम्
भीष्मः-
ततस्सहस्रनयने निवृत्ते गरुडस्तथा
कद्रूमभ्यगमत्तूर्णममृतं गृह्य भारतः
गरुडः-
तदाहृतं मया शीघ्रममृतं जननीकृते
अदासी सा भवत्वद्य विनता धर्मचारिणी
कद्रूः-
स्वागतं स्वाहृतं चेदममृतं विनतात्मज
अदासी जननी तेऽद्य पुत्र कामवशा शुभा
भीष्मः-
एवमुक्ते तदा सा च सम्प्राप्ता विनता गृहम्
उपनीय यथान्यायं विहगो बलिनां वरः
स्मृत्वा निकृत्या विजयं मातुस्सम्प्रतिपद्य च
वधं च भुजगेन्द्राणां ये वालास्तस्य वाजिनः
बभूवुरसितप्रख्या निकृत्या वै जितास्त्वया
तामुवाच ततो न्याय्यं विहगो बलिनां वरः
उज्जहारामृतं तूर्णमुत्पपात च रंहसा
तद् गृहीत्वाऽमृतं तूर्णं प्रयान्तमपराजितम्
कद्रूर्भुजङ्गजननी सुपर्णमिदमब्रवीत्
कद्रूः-
किमर्थं वैनतेय त्वमाहृत्यामृतमुत्तमम्
पुनर्हरसि दुर्बुद्धे मा जातु वृजिनं कृथाः
सुपर्णः-
अमृताहरणं मेऽद्य यत्कृतं जननीकृते
भवत्या वचनादेतदाहरामृतमित्यथ
आहृतं तदिदं शीघ्रं मुक्ता च जननी मम
हराम्येष पुनस्तत्र यत एतन्मयाऽऽहृतम्
यदि मां भवती व्रूयादमृतं मे च दीयताम्
तथा कुर्यां न वा कुर्यां न हि त्वममृतक्षमा
मया धर्मेण सत्येन विनता च समुद्धृता
भीष्मः-
ततो गत्वाऽथ गरुडः पुरन्दरमुवाच ह
गरुडः-
इदं मया वृत्रहंस्तद्धृतं तेऽमृतमुत्तमम्
मात्रर्थे हि तथैवेदं गृहाणामृतमाहृतम्
माता च मम देवेश दासीत्वमुपजग्मुषी
भुजङ्गमानां मातुर्वै सा मुक्ताऽमृतदर्शनात्
भीष्मः-
एतच्छ्रुत्वा सहस्राक्षस्सुपर्णमनुमन्यत
उवाच च मुदा युक्तो दिष्ट्या दिष्ट्येति वासवः
ऋषयो ये सहस्राक्षमुपासन्ते सुरैस्सह
ते सर्वे च मुदा युक्ता विश्वे देवास्तथैव च
ततस्तमृषयस्सर्वे देवाश्च भरतर्षभ
ततश्शचीपतिर्वाक्यमुवाच प्रहसन्निव
ऊचुः पुरन्दरं हृष्टा गरुडो लभतां वरम्
इन्द्रः-
जनिष्यति हृषीकेशस्स्वयमेवैष पक्षिराट्
केशवः पुण्डरीकाक्षश्शूरपुत्रस्य वेश्मनि
स्वयं धर्मस्य रक्षार्थं विभज्य भुजगाशनः
भीष्मः-
एष ते पाण्डवश्रेष्ठ गरुडोऽथ पतत्रिराट्
सुपर्णो वैनतेयश्च कीर्तितो भद्रमस्तु ते
तदेतद्वदतां श्रेष्ठ मयाऽऽख्यानं प्रकीर्तितम्
सुपर्णस्य महाबाहो किं भूयः कथयामि ते