भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मद्रराजस्य संवादं व्यासस्य च महात्मनः
वैताने कर्मणि तते कुन्तीपुत्र यथा पुरा
उक्तो भगवता मद्रे तथा तत्राशृणोद्भवान्
मद्रराजः-
कानि तीर्थानि भगवन्फलार्थाश्चेह के श्रमाः
क इज्यते कश्च यज्ञः को यूपः क्रमते च कः
कश्चाध्वरे शस्यते गीतिशब्दः कश्चाध्वरे गीयते वल्गुभाषैः
को ब्रह्मशब्दस्स्तुतिभिस्स्तूयते च कस्येह वै हविरध्वर्यवः कल्पयन्ति
वर्णाश्रमः किम्फलः कश्च सोमः कश्चोङ्कारः कश्च वेदार्थमार्गः
पृष्टस्तन्मे ब्रूहि सर्वं महर्षे लोकज्येष्ठं कस्य विज्ञानमाहुः
द्वैपायनः-
लोकज्येष्ठं यस्य विज्ञानमाहुर्योनिज्येष्ठं यस्य वदन्ति जन्म
पूतात्मानो ब्राह्मणा वेदमुख्या अस्मिन्प्रश्नो दीयतां केशवाय
ब्राह्मणः-
बालो जात्या क्षत्रधर्मार्थशीलो जातो देवक्यां शूरपुत्रेण वीर
वेत्तुं वेदानर्हते क्षत्रियो वै दाशार्हाणामुत्तमः पुष्कराक्षः
श्रीभगवान्-
पाराशर्य ब्रूहि यद्ब्राह्मणेभ्यः प्रीतात्मा वै ब्रह्मकल्पस्सुमेधाः
पृष्टो यज्ञार्थः पाण्डवस्यातितेजा एतच्छ्रेयस्तस्य लोकस्य चैव
व्यासः-
उक्तं वाक्यं यद्भवान्मामवोचत्प्रश्नं चित्रं नाहमत्रोत्सहेऽद्य
छेत्तुं स्पष्टं तिष्ठति त्वद्विधे वै लोकज्येष्ठे विश्वरूपे सुनाभे
श्रीभगवान्-
तत्त्वं वाक्यं ब्रूहि तस्मिन्महर्षे यस्मिन्कृष्णः प्रोच्यते वै यथावत्
प्रीतस्तेऽहं ज्ञानशक्त्या महात्मन्निर्देशे वै कर्मणां ब्रूहि सिद्धिम्
वैशम्पायनः-
उक्तवाक्ये सत्तमे यादवानां कृष्णो व्यासः प्राञ्जलिर्वासुदेवम्
विप्रैस्सार्धं पूजयन्देवदेवं कृष्णं विष्णुं वासुदेवं बभाषे
व्यासः-
आनन्त्यं ते विश्वकर्मंस्तवैवं रूपं पुराणं शाश्वतं च ध्रुवं च
कस्ते बुद्ध्येद्वेदवादेषु चैतल्लोके ह्यस्मिञ्शासकस्त्वं पितेव
भीष्मः-
द्वारकायां यथा प्राह पुराऽयं मुनिसत्तमः
वेदविप्रमयं तत्त्वं वासुदेवस्य तच्छृणु
यूपं विष्णुं वासुदेवं विजानन्सर्वान् विप्रान्बोधते तत्त्वदर्शी
विष्णुं कान्तं वासुदेवं विजानन्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी
विष्णुर्यज्ञस्त्विज्यते चापि विष्णुः कृष्णो विष्णुर्यश्च कृष्णः प्रभुश्च
कृष्णो वेदाङ्ग वेदवादाश्च कृष्ण एवं जानन्ब्राह्मणो ब्रह्म एति
स्थानं सर्वं वैष्णवं यज्ञमार्गे चातुर्होत्रं वैष्णवं तत्र कृष्णः
सर्वैर्भावैरिज्यते सर्वकामैः पुण्याँल्लोकान्ब्राह्मणाः प्राप्नुवन्ति
सोमं सद्भावाद्ये च जातं पिबन्ति दीप्तं कर्म ये विदानाश्चरन्ति
एकान्तमिष्टं चिन्तयन्तो दिविस्थास्ते पन्थानं प्राप्नुवन्ति व्रतज्ञाः
ओमित्येतद्ध्यायमानो न गच्छेद्दुर्गं पन्थानं पापकर्मापि विप्रः
सर्वं कृष्णं वासुदेवं हि विप्राः कृत्वा ध्यानं दुर्गतिं न प्रयान्ति
आज्यं यज्ञस्स्रुक्स्रुवौ यज्ञदाता इध्मा वर्तिर्यज्ञाशाला हवींषि
इध्मं पुरोडशं सर्वदा होतृकर्ता कृष्णं विष्णुं संविजानंस्तमेति
योगे योगे कर्मणां चामिहारे युक्ते वैताने कर्मणि ब्राह्मणस्य
पुष्ट्यर्थेषु प्राप्नुयात्सर्वसिद्धिं शान्त्यर्थेषु प्राप्नुयात्सर्वशान्तिम्
द्वैपायनः-
श्रद्धां त्यागं निर्वृतिं चापि पूजां सत्यं धर्मं यः कृतं चाभ्युपैति
कामद्वेषौ त्यज्य सर्वेषु तुल्यश्श्रद्धापूतस्सर्वयज्ञेषु योग्यः
यस्मिन्यज्ञे सर्वभूताः प्रहृष्टास्सर्वे चारम्भाश्शास्त्रदृष्टाः प्रवृत्ताः
धर्म्यैरर्थ्यैर्ये यजन्ते ध्रुवं ते पूतात्मानो धर्ममेकं भजन्ते
एकाक्षरं द्व्यक्षरमेकमेव सदा यजन्ते नियताः प्रतीताः
दृष्ट्वा मनागर्चयित्वा स्म विप्रास्सतां मार्गं तं ध्रुवं सम्भजन्ते
पापात्मानः क्रोधरागाभिभूताः कृष्णे भक्ता नाम सङ्कीर्तयन्तः
पूतात्मानो यज्ञशीलास्सुमेधा यज्ञस्यान्ते कीर्तिलोकान्भजन्ते
श्रीभगवान्-
एको वेदो ब्राह्मणानां बभूव चतुष्पादस्त्रिगुणो ब्रह्मशीर्षः
पादं पादं ब्राह्मणा वेदमाहुस्त्रेताकाले तं च तं विद्धि शीर्षम्
द्वैपायनः-
सर्वे वेदा्स्सर्ववेद्यास्सशास्त्रास्सर्वे यज्ञास्सर्व इज्यश्च कृष्णः
विदुः कृष्णं ब्राह्मणास्तत्त्वतो ये तेषां राजन्सर्वयज्ञस्समाप्तः
ज्ञेयो योगी ब्राह्मणैर्वेदतत्वैरारण्यकैस्सैष कृष्णः प्रभुत्वात्
सर्वान्यज्ञान्ब्राह्मणान्ब्रह्म चैव व्याप्यातिष्ठद्देवदेवस्त्रिलोके
स एष देवश्शक्रमीशं यजानं प्रीत्या प्राह क्रतुयष्टारमग्र्यम्
न मे शक्रो वेद वेदार्थतत्वाद्भक्तो भक्त्या शुद्धभावः प्रधानः
मा जानन्ते ब्रह्मशीर्षं वरिष्ठं विश्वे विश्वं ब्रह्मयोनिं ह्ययोनिम्
सर्वत्राहं शाश्वतश्शाश्वतेशः कृत्स्नो वेदो निर्गुणोऽनन्ततेजाः
सर्वे देवा वासुदेवं यजन्ते ततो बुद्ध्या मार्गमाणास्तनूनाम्
सर्वान्कामान्प्राप्नुवन्ते विशालांस्त्रैलोक्येऽस्मिन्कृष्णनामाभिधानात्
कृष्णो यज्ञैरिज्यते यायजूकैः कृष्णो वीर्यैरिज्यते विक्रमद्भिः
कृष्णो वाक्यैरिज्यते सम्मृशानैः कृष्णो मुक्तैरिज्यते वीतमोहैः
विद्यावन्तस्सोमपा ये विपापा इष्ट्वा यज्ञेर्गोचरं प्रार्थयन्ते
श्रीभगवान्-
सर्वं क्रान्तं देवलोकं विशालं त्वन्ते कृत्वा मर्त्यलोकं भजन्ते
एवं सर्वे त्वाश्रमास्सुव्रता ये मां जानन्तो यान्ति लोकानदीनान्
यां यां दीक्षामुद्वहन्तो विपापा ज्योतिर्भूत्वा देवलोकं भजन्ते
पूज्यन्ते मां पूजयन्तः प्रहृष्टा मां जानन्तश्श्रद्धया वासुदेवम्
भक्त्या तुष्टोऽहं तस्य सत्त्वं प्रयच्छे सत्त्वस्पृष्टो वीतमोहोऽयमेति
द्वैपायनः-
ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास्त्रयश्च
त्रयोऽग्नयश्चाहुतयश्च पञ्च सर्वे देवा देवकीपुत्र एव
भीष्मः-
व्यासस्यैतद्वचश्श्रुत्वा मद्रराजस्सहर्षिभिः
व्यासं कृष्णं च विधिवत्प्रीतात्मा प्रत्यपूजयत्
वैशम्पायनः-
कविः प्रयातस्तु महर्षिपुत्रो द्वैपायनस्तद्वचनं निशम्य
जगाम पृथ्वीं शिरसा महात्मा नमश्च कृष्णाय चकार भीष्मः