भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
चतुर्णामपि वेदानां संवादं पुत्र तच्छृणु
ऋग्वेदः-
गृहानाश्रयमाणस्य अग्निहोत्रं च जुह्वतः
सर्वं सुकृतमादत्ते यस्सायं नुद्यतेऽतिथिः
यजुर्वेदः-
न स्कन्दते न व्यथते नास्योर्ध्वं सर्पते रजः
वरिष्ठमग्निहोत्राच्च ब्राह्मणस्य मुखे हुतम्
सामवेदः-
न चेद्धन्ति पितरं मातरं वा न ब्राह्मणं नापवासं करोति
यत्किञ्चिदन्यद्वृजिनं करोति प्रीतोऽतिथिस्तदुपहन्ति पापम्
अथर्ववेदः-
भीष्मः-
यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यति यज्जुहोति
वैवस्वतो हरते सर्वमस्य मोघं चेष्टं भवति क्रोधनस्य
भूयस्त्वं शृणु राजेन्द्र धर्मान्धर्मभृतां वर
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
इन्द्राग्न्योस्सूर्यशच्योश्च तन्मे निगदतश्शृणु
इन्द्रः-
राज्ये विप्रान्प्रपश्यामि कामक्रोधविवर्जितान्
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्
अग्निः-
यथाऽहं तत्र नाश्रामि यत्र नाश्रन्ति वै द्विजाः
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्
सूर्यः-
यथा गोब्राह्मणस्यार्थे सञ्चरामि सदा ज्वलन्
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्
शची-
कर्मणा मनसा वाचा नावमन्ये पुरन्दरम्
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम्