युधिष्ठिरः-
यथैव ते नमस्कार्याः प्रोक्ताश्शक्रेण मानद
तथैव मयि चाचक्ष्व येषां स्पृहयसे नृपः
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः
मनुष्यलोके सर्वत्र यदमुत्रेह चाप्युतम्
भीष्मः-
स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम्
येषां सम्प्रत्ययस्स्वर्गस्तपस्स्वाध्यायसाधनम्
येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम्
उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम्
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम्
श्रुतवृत्तोपपन्नानां पदाक्षरविदां सताम्
संसत्सु वदतां तात हंसानामिव सङ्घशः
माङ्गल्यरूपरुचिरा व्योम्नि जीमूतनिस्स्वनाः
सम्यगुच्चरिता वाचश्श्रूयन्ते ह्यतिपावनाः
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः
येषां च तेषां दातारस्सदा सदसि सम्मताः
विज्ञानगुणसम्पन्नास्तेषां च स्पृहयाम्यहम्
सुसंस्कृतानि प्रयतश्शुचीनि गुणवन्ति च
दद्यादन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठर
ये चापि येषां दातारस्तेषां च स्पृहयाम्यहम्
शक्यं यैश्चाहवे योद्धुं न दातुमनसूयितुम्
शूरा वीराश्च शतशस्सन्ति लोके युधिष्ठिर
तेषां सङ्ख्यायमानानां दानशूरो विशिष्यते
भद्रं तु जन्म सम्प्राप्य भूयो ब्राह्मणको भवेत्
बन्धुमध्ये कुले जातस्सुदुरापमवाप्नुयात्
न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन
त्वत्तश्च मे प्रियतरा ब्राह्मणा एव भारत
यथा च मे प्रियतरा विप्रास्त्वत्तः कुरूद्वह
तेन सत्येन गच्छेयं लोकान्यत्र च शन्तनुः
न मे पिता प्रियतरो ब्रह्मणेभ्यस्तथा भवान्
न मे पितुः पिता वाऽपि ये चान्येऽपि सुहृज्जनाः
न च मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह
अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः
कर्मणा मनसा वाऽपि वाचा वाऽपि परन्तप
यन्मे कृतं ब्राह्मणेषु तेनाद्य भवितास्म्यहम्
ब्रह्मण्य इति मामाहुस्तया वाचाऽस्मि पावितः
एतदेव पवित्रेभ्यस्सर्वेभ्यः परमं स्मृतम्
पश्यामि लोकानमलाञ्शुचीन्ब्राह्मणतोषणान्
तत्र तत्र तु गन्तव्यमह्नाय च चिराय च
यथा पत्याश्रयो धर्मस्स्त्रीणां लोके युधिष्ठिर
पतिरेव गतिर्नार्याः क्षत्रियस्य तथा द्विजः
क्षत्रियश्शतवर्षीयो दशवर्षी च ब्राह्मणः
पितापुत्रौ च विज्ञेयौ तस्य हि ब्राह्मणः पिता
नारी तु पत्यभावे वै देवरं कुरुते पतिम्
पृथिवी ब्राह्मणाभावात्क्षत्रियं कुरुते पतिम्
ब्राह्मणानुज्ञया ग्राह्यं राज्यं च सपुरोहितैः
तद्रक्षणेन स्वर्गोऽस्य तत्कोपान्नरकोऽक्षयः
पुत्रवच्चैव ते रक्ष्या उपास्या गुरुवच्च नः
अग्निवच्चोपचार्या वै ब्राह्मणाः कुरुसत्तम
ऋजून्सतस्सत्यशीलान्सर्वभूतहिते रतान्
आशीविषानिव क्रुद्धान्द्विजान्परिचरेत्सदा
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर
दूरतो मातृवत्पूज्याः विप्रदारास्सुरक्षया
हन्युः क्रुद्धा महाराज ब्राह्मणाश्च तपस्विनः
अकोपनापराधेन भूयो नरकमश्नुते
ब्राह्मणेषु स्थितं ब्रह्म क्षत्रियः परिपालयेत्
पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः
गृहे चैषामवेक्षेथाः किच्चदस्तीह जीवतम्