युधिष्ठिर
आनृशंस्यस्य धर्मज्ञ गुणान्भक्तजनस्य च
श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह
भीष्मः-
विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः
सविषं काण्डमादाय मृगयामास वै मृगम्
तत्र चामिषलुब्धेन लुब्धकेन महावने
अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः
तेन दुर्वारितास्त्रेण निमित्तचफलेषुणा
दुरात्मनातरुर्विद्धो मृगं तत्र जिघांसता
स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः
उत्सृज्य फलपत्राणि पादपश्शोषमागतः
तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः
शुको न जहते वासं तस्य भक्त्या वनस्पतेः
निष्प्रचारो निराहारो ग्लानश्शिथिलभाषणः
कृतज्ञस्स हि धर्मात्मा वृक्षेणात्माप्यशुष्यत
तमुदारं महासत्वमतिमानुषचेष्टितम्
समदुःख शुकं दृष्ट्वा विस्मितः पाकशासनः
ततश्चिन्तामुपगतश्शक्रः कथमयं द्विजः
तिर्यग्योनावसम्भाव्यमानृशंस्यं समास्थितः
अथवा नात्र चित्रं हीत्यभवद्वासवस्य तु
प्राणिनामिह सर्वेषां सर्वं सर्वत्र पश्यति
ततो ब्राह्मणवेषेणि मानुषं रूपमास्थितः
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह
इन्द्रः-
भीष्मः-
शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया
पृच्छे त्वां शुकमेनं तु कस्मान्न त्यजसे द्रुमम्
अथ पृष्टश्शुकः प्राह मूर्ध्ना तमभिवाद्य च
शुक्रः-
स्वागतं देवराजाय विज्ञातं तपसा मया
भीष्मः-
ततो दशशताक्षेण साधु साध्विति भाषितम्
अहो विज्ञानमस्येति तपसा पूजितस्ततः
तमेव शुभकर्माणं शुकं परमधार्मिकम्
जानन्नपि च तत्पापं पृच्छते पाकशासनः
इन्द्रः-
निष्पत्रमफलं शुष्कमशरण्यं पतत्त्रिणाम्
किमर्थं सेवसे वृक्षं यदा महदिदं वनम्
अन्येऽपि बहवो वृक्षाः पत्रसञ्छन्नकोटराः
शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने
गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम्
विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम्
भीष्मः-
तदुपश्रुत्य धर्मात्मा शुकश्शक्रेण भाषितम्
सुदीर्घमतिनिश्श्वस्य दीनो वाक्यमभाषत
शुक्रः-
अनतिक्रमणीयानि दैवतानि शचीपते
यत्राभवंस्तत्र भवांस्तन्निबोध सुराधिप
अस्मिन्द्रुमवरे जातस्साधुभिश्च गुणैर्युते
बालभावे च सङ्गुप्तश्शत्रुभिश्चाप्यधर्षितः
किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ
अनुरक्तस्य भक्तस्य संस्पृशेन्न च पावकः
आनृशंस्येऽभिरक्तस्य भक्तस्यानुगतस्य च
अनुक्रोशो हि साधूनां सदा प्रीतिं प्रयच्छति
त्वमेव दैवतैस्सर्वैः पृच्छ्यसे धर्मसंश्रयान्
अतस्त्वं देवदेवानामाधिपत्ये प्रतिष्ठितः
त्वमर्हसि सहस्राक्ष मां योजयतुं भक्तितः
तद्भक्तितस्त्याजयितुं न मामर्हसि सत्तम
समस्थमुपजीवन्वै विषमस्थं कथं त्यजेत्
भीष्मः-
तस्य वाक्येन सौम्येन भाषितः पाकशासनः
शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः
वरं वृणीष्वेति तदा स च वव्रे वरं शुकः
आनृशंस्यपरो नित्यमस्य वृक्षस्य सम्भवम्
विदित्वा च शुभां शक्रस्तां शुके शीलसम्पदम्
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान्
ततऽस्य फलपत्राणि शाखाश्चापि मनोहराः
शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः
शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह
आयुषोऽन्ते महाराज प्राप शक्रसलोकताम्
एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः