युधिष्ठिरः-
कर्मणां च समस्तानां फलिनां भरतर्षभ
फलानि भरतश्रेष्ट प्रब्रूहि परिपृच्छतः
भीष्मः-
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता
येन येन शरीरेण यद्यत्कर्म करोत्ययम्
तेन तेन शरीरेण तत्फलं प्रतिपद्यते
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम्
तस्यां तस्यामवस्थायां तत्फलं प्रतिपद्यते
न नश्यति कृतं कर्म चित्तपञ्चेन्द्रियैरिह
तान्यस्य साक्षिणो नित्यं षष्ठ आत्मा शुभाशुभे
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्यात्सुभाषिताम्
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्
स्थण्डिलेषु शयानानां गृहाणि शयनानि च
चीरवल्कलसंवीते वासांस्याभरणानि च
वाहनासनयानानि योगात्मनि तपोधने
अग्नीनुपशयानस्य राजन्पौरुषमुच्यते
रसानां प्रतिसंहारात्पशून्पुत्रांश्च विन्दति
अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत्
मण्डूकशायी च नरो लभते चेप्सितां गतिम्
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम्
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः
वीरासनं वीरशय्यां वीरस्थानमुपासतः
अक्षयास्तस्य वै लोकास्सर्वकामोपगास्तथा
धनं प्राप्नोति दानेन मौनेनाज्ञां विशां पते
उपभोगांश्च तपसा जीवितं ब्रह्मचर्यया
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते
फलमूलाशिनो राज्यं स्वर्गः पर्णाशिनस्तथा
प्रायोपवेशिनाद्राज्यं सर्वत्र सुखमुच्यते
सत्येन लभते स्वर्गं दीक्षया कुलमुच्यते
गवाढ्यश्शाकदीक्षायास्स्वर्गकामी तृणाशनत्
स्थितस्त्रिषवणस्नाने वायुं पीत्वा शतक्रतोः
सलिलाशो भवेद्यश्च स मनुस्सत्कृतो द्विजः
मरुत्साधयतो राज्यं नाकपृष्ठमनाशिने
उपवासं च दीक्षायामभिषेकं च पार्थिव
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते
अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते
तत्पाठधारणात्स्वर्गमर्थज्ञानात्परां गतिम्
वितृष्णानां वेदजपात्स्वर्गमोक्षफलं स्मृतम्
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतस्सुखं
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्
एवमेव कृतं कर्म कर्तारमनुगच्छति
अचोद्यमानानि पुनः पुष्पाणि च फलानि च
स्वकालमनुवर्तन्ते तथा कर्म कृतं पुरा
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः
चक्षुश्श्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः
माता तु येन प्रीणाति अतिथिस्तेन पूजितः
येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम्
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः
वैशम्पायनः-
भीष्मस्यैतद्वचश्श्रुत्वा विस्मिताः कुरुपुङ्गवाः
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा
भीष्मः-
यन्मन्त्रे भवति वृथा पयुज्यमाने यत्सोमे भवति वृथाप्रसूयमाने
यच्चाग्नौ भवति वृथा च हूयमाने तत्सर्वं भवति वृथाऽभिधीयतेऽद्य
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि भारत
शुभाशुभफलप्राप्तौ किमतश्श्रोतुमिच्छसि