युधिष्ठिरः-
विश्वामित्रो महाराज राजा ब्राह्मणतां गतः
कथितं भवता सर्वं विस्तरेण पितामह
तच्च राजन्मया सर्वं श्रुतं बुद्धिमतां वर
आगमो हि परोऽस्माकं त्वत्तः कौरवनन्दन
वीतहव्यस्तु राजर्षिर्विश्रुतो वै पितामह
ब्राह्मणत्वमनुप्राप्त इति राजन्महायशाः
स केन कर्मणा प्राप ब्राह्मण्यं राजसत्तमः
वरेण तपसा वाऽपि तन्मे ब्रूहि पितामह
भीष्मः-
शृणु राजन्यथा राजा वीतहव्यो महायशाः
क्षत्रियस्स पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम्
मनोर्महात्मनस्तात प्रजेशस्य प्रजापतेः
बभूव पुत्रो धर्मात्मा यशसाऽतीव विश्रुतः
तस्यान्ववायजौ राजन्राजानौ धर्मदर्शिनौ
हैहयस्तालजङ्घश्च वत्सेषु नृपती पुरा
हैहयस्य तु पुत्राणां दशसु स्त्रीषु भारत
शतं बभूव प्रख्यातं वीराणामनिवर्तिनाम्
तुल्यरूपप्रभावानां विदुषां युद्धशालिनाम्
महारथानां वेदे च धनुर्वेदे च योगिनाम्
काशिष्वपि तदा राजा दिवोदासपितामहः
हर्यश्व इति विख्यातो राजराज इवावरः
स वीतहव्यस्य सुतैरागत्वा पार्थिवर्षभः
युद्धे विनिर्जितो राजन्गङ्गायमनुनयोरनु
तं च हत्वा नरवरं हैहयास्ते महारथाः
प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः
हर्यश्वस्य च दायादः काशिराज्येऽभिषेचितः
सुदेवो देवसङ्काशस्साक्षाद्धर्म इवापरः
स पालयामास महीं धर्मात्मा काशिनन्दनः
स वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः
तमप्याजौ विनिर्जित्य प्रतियाता यथागतम्
सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत
सौदेविस्त्वथ विज्ञाय वीर्यं तेषां महात्मनाम्
वाराणसीमुपादाय दिवोदासो विनिर्ममे
विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम्
नैकद्रव्योच्चयवतीं समृद्धविपणापणाम्
गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम
गोमत्या दक्षिणे चैव रम्यां देवपुरीमिव
तत्र तं राजशार्दूलं निवसन्तं महाद्युतिम्
आगत्य हैहया भूयः प्रबाधान्ते पुनः पुनः
सन्निपात्य ददौ युद्धं तेषां राजा महाबलः
देवासुरसमं भीमं दिवोदासो महायशाः
स तु युद्धे महाराज दिनानां दशतीर्दश
हतवाहनभूयिष्ठो राजा दैन्यमुपागमत्
हतयोधस्स राजर्षिः क्षीणकोशश्च भारत
दिवोदासः पुरीं त्यक्त्वा पलायनपरोऽभवत्
स चाश्रममुपागम्य भरद्वाजस्य धीमतः
प्रपद्य चरणौ तस्य मूर्ध्ना च निपपात ह
उवाच भगवन्तं तं पुत्रमाद्यं बृहस्पतेः
दिवोदासः-
भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः
अहमेकः परिद्यूनश्शरणं त्वामुपागतः
शिष्यस्नेहेन भगवंस्त्वं मां रक्षितुमर्हसि
निश्शेषो हि कृतो वंशो मम तैः पापकर्मभिः
भीष्मः-
तमुवाच महातेजा भरद्वाजः प्रतापवान्
पुरोधास्तस्य राजेन्द्रः दिवोदासस्य धिमतः
भरद्वाजः-
न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम्
अहमिष्टिं च ते राजन्करोमि सुतकारिकाम्
वीतहव्यसहस्राणि येन त्वं प्रहरिष्यसे
भीष्मः-
तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकाम्
अथास्य तनयो जज्ञे दैवोदासिः प्रतर्दनः
स जातमात्रो ववृधे समास्सद्यस्त्रयोदश
वेदं चाध्यगमत्कृत्स्नं धनुर्वेदं च कृत्स्नशः
योगेन तु समाविष्टो भरद्वाजेन धीमता
कृत्स्नं हि तेजो यल्लोके तदेतद्देहमाविशत्
ततस्स कवची धन्वी बाणी दीप्त इवानलः
प्रययौ स धनुर्धुन्वन्विवर्षिषुरिवाम्बुदः
तं दृष्ट्वा परमं हर्षं सुदेवरुपपद्यते
मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः
ततो वै यौवराज्येन स्थापयित्वा प्रतर्दनम्
कृतकृत्यं तदाऽऽत्माम्स राजा प्रत्यपद्यत
ततश्च वैतहव्यानां वधाय स महीपतिः
पुत्रं प्रस्थापयासास प्रतर्दनमरिन्दमम्
सरथस्स समुत्तीर्य गङ्गा गङ्गासमानधीः
प्रययौ वीतहव्यानां पुरीं परपुरञ्जयः
वैतहव्यास्तु तं श्रुत्वा रथघोषं समास्थितम्
निर्ययुर्नगराच्छीघ्रं रथैस्तैर्नगरोपमैः
निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः
प्रतर्दनं समाजघ्नुश्शस्त्रैश्च भरतर्षभः
अस्त्रैश्च विविधैर्वीराश्शस्त्रैश्च भरतर्षभ
प्रावर्षन्वैतहव्यास्ते शिघ्रं शैलमिवाम्बुदाः
अस्त्रैरस्त्राणि संवार्य तेषां राजन्प्रतर्दनः
जघान तान्महातेजा वज्रवेगसमैश्शरैः
हृत्तोत्तमाङ्गास्ते राजन्भल्लैश्शतसहस्रशः
पतिता रुधिरार्द्रास्तु निकृत्ता इव किंशुकाः
हतेषु तेषु सर्वेषु वीतहव्यस्सुतेष्वथ
प्राद्रवन्नगरीं हित्वा भृगोराश्रममप्युत
ययौ भृगुं स शरणं वीतहव्यो नराधिपः
अभयं च ददौ तस्मै वीतहव्याय भार्गवः
आसनं शिष्यमध्ये च भृगुरन्यत्समादिशत्
अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः
आश्रमं सोऽथ सम्प्राप्य दैवोदासिरभाषत
प्रतर्दनः-
भो भो केऽत्राश्रमे सन्ति भृगोश्शिष्या महात्मनः
भीष्मः-
तमभ्यनन्दद्भगवान्सत्कारेण स्वयं भृगुः
उवाच चैनं भगवान्किं कार्यमिति सत्कृतम्
तमुवाच ततो राज दैवोदासिः प्रतर्दनः
प्रतर्दनः-
एषोऽत्र क्षत्रियो ब्रह्मन्वीतहव्यो विसृज्यताम्
अस्य पुत्रैर्महान्वंशः कृत्स्नोऽस्माकं प्रणाशितः
उत्सादितश्च विषयः काशीनां राज्यसंहितः
भीष्मः-
एतस्य बलदृप्तस्य हतं पुत्रशतं मया
अस्येदानीं वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः
तमुवाच कृपाविष्टो भृगुर्धर्मभृतांवरः
भृगुः-
नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजात्तमाः
भीष्मः-
एवमेतद्वचश्श्रुत्वा भृगोस्तथ्यं प्रतर्दनः
पादावुपस्पृश्य शनैः प्रहसन्सोऽब्रीद्वचः
प्रतर्दनः-
एवमप्यस्मि भगवन्कृतकृत्यो न संशयः
यदेष क्षत्रियो वीर्यात्स्वजातेस्त्याजितो मया
ऋषेर्हि वचनं सत्यं सर्वे स्म ब्राह्मणा इति
अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम्
त्याजितो हि मया जाते राजैष भृगुसत्तमSV-13-01-005-054
भृगुणा सोऽभ्यनुज्ञातो ययौ राजा प्रतर्दनः
यथागतं गतिं कान्तां दैवोदासिः प्रतापवान्
भृगोर्वचनमात्रेण सोऽपि ब्राह्मणतां गतः
वीतहव्यो महाराज ब्रह्मवादित्वमेव च
तस्य गृत्समदः पुत्रो वीतहव्य इवापरः
शक्रस्त्वमिति यो दैत्यैर्गृहीतः किल पूर्वजैः
ऋग्वेदे वर्तते चाग्र्या श्रुतित्र विशां पते
यत्र गार्त्समदं ब्रह्मन्ब्राह्मणैस्समुदाहृतम्
स ब्रह्मवादी विप्रर्षिश्श्रीमान्गृत्समदोऽभवत्
पुत्रो गृत्समदस्यापि विप्रस्सावैनसोऽभवत्
सावैनसस्य पुत्रो वै वितस्त्यस्तस्य चात्मजः
वितस्त्यस्य सुतस्तस्य शिवस्तस्यात्मजोऽभवत्
श्रवास्तस्य सुतश्चापि श्रवसश्चाभवत्तमः
तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः
प्रकाशस्य च वागिन्द्रो वागिन्द्राद्ब्रह्मवादिनः
बभूव प्रीतिमांस्तस्य पुत्रो वेदविदां वरः
घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत
प्रमद्वरायां तु रुरोः पुत्रस्समुदपद्यत
शुनको नाम विप्रर्षिर्यस्य पुत्रस्स शौनकः
एवं ब्राह्मणतां प्राप्य वीतहव्यो महातपाः
भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ
एष ते कथितो वंशो राजन्गार्त्समदो यथा
विस्तरेण कुरुश्रेष्ठ किमन्यदिह वर्तताम्