युधिष्ठिरः-
ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैर्नराधिप
कथं प्राप्तं महाराज क्षत्रियेण महात्मना
विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः
हतं पुत्रशतं सद्यस्तपसा च पितामह
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः
मन्युनाऽऽविष्टदेहेन सृष्टाः कालान्तकोपमाः
महान्कुशिकवंशश्च ब्रह्मर्षिशतसङ्कुलः
स्थापितो नरलोकेऽस्मिन्विद्वद्ब्राह्मणसंस्तुतः
ऋचीकस्यात्मजश्चैव शुनश्शेफो महातपाः
विमोक्षितो महासत्रात्पशुतामप्युपागतः
हरिश्चन्द्रः क्रतौ देवांस्तोषयित्वाऽऽत्मतेजसा
पुत्रतामनुसम्प्राप्तो विश्वामित्रस्य धीमतः
नाभिवादयते ज्येष्ठं देवरातो नराधिप
पुत्राः पञ्चशतं चापि शप्ताश्श्वपचतां गताः
त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम्
अवाक्शिरा दिवं नीतो दक्षिणामाश्रितो दिशम्
विश्वामित्रस्य भगिनी नदी राजर्षिसेविता
कौशिकीति कृता पुण्या ब्रह्मर्षिसुरसेविता
तपोविघ्नकरी चैव पञ्चचूडा सुसम्मता
रम्भा नामाप्सराश्शापाद्यस्य शैलत्वमागता
तथैवास्य भयाद्बद्ध्वा वसिष्ठस्सलिले पुरा
आत्मानं मञ्जयञ्श्रीमान्विपाशः पुनरुत्थितः
तदाप्रभृति पुण्या सा विपाशा वै महानदी
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः
वश्यश्च भगवान्येन देवसेनाग्रगः प्रभुः
स्तुतः प्रीतमनाश्चासीत्पश्चाच्चैनममोचयत्
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम्
तस्यैतानि च कर्माणि तथाऽन्यानि च कौरव
क्षत्रियस्येत्यतो जातान्यतिकौहतूलं हि मे
किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत्
एतत्तत्वेन मे राजन्सर्वमाख्यातुमर्हसि
मतङ्गस्य यथातत्त्वं तथैवैतद्ब्रवीहि मे
स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ
चण्डालयोनौ जातस्य कथं ब्राह्मण्यमुच्यते
भीष्मः-
श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा
ब्राह्मणत्वं गतस्तात राजर्षित्वं तथैव च
भरतस्यान्ववाये वै मिथिलो नाम पार्थिवः
बभूव भरतश्रेष्ठ सत्यधर्मभृतां वरः
तस्य पुत्रो महानासीज्जह्नुर्नाम जनेश्वरः
दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः
तस्यात्मजस्तुल्यगुणस्सिन्धुद्वीपो महायशाः
सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः
पल्वलस्तस्य तु सुतस्साक्षाद्धर्म इवापरः
कुशिकस्तस्य तनयस्सहस्राक्षसमद्युतिः
कुशिकस्यात्मजश्श्रीमान्गाधिर्नाम जनेश्वरः
अपुत्रस्स महाबाहुर्वनवासमुपागमत्
कन्या जज्ञे सुता तस्य वने निवसतस्ततः
नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि
तां वव्रे भार्गवश्श्रीमांश्च्यवनस्यात्मजः प्रभुः
ऋचीक इति विख्यातो विपुले तपसि स्थितः
स तां न प्रददौ तस्मै ऋचीकाय महात्मने
दरिद्र इति मन्वा्नो गाधिश्शत्रुनिबर्हणः
प्रत्याख्याय तु तं यान्तमब्रवीद्राजसत्तमः
शुल्कं प्रदीयतां ब्रह्मन्ततो वेत्स्यसि मे सुताम्
ऋचीकः-
किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमिदं नृप
दुहितुर्ब्रूह्यसंसक्तो मा तेऽन्या भूद्विचारणा
गाधिः-
चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम्
एकतश्श्यामकर्णानां सहस्रं दिश भार्गव
भीष्मः-
ततस्स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः
वरुणं चाब्रवीद्देवमादित्यं पतिमम्भसाम्
ऋषीकः-
एकतश्श्यामकर्णानामश्वानां वातरंहसाम्
सहस्रमिन्दुवर्णानां भिक्षे त्वां देवसत्तम
भीष्मः-
तथेति वरुणो देव आदित्यो भृगुसत्तमम्
उवाच यत्र ते च्छन्दस्तत्रोत्थास्यन्ति वाजिनः
ध्यातमात्रे त्वृचीकेन हयानां चन्द्रवर्चसाम्
गङ्गाजलादुदतिष्ठत्सहस्रं विपुलौजसाम्
अदूरे कान्यकुब्जस्य गङ्गायास्तीर उत्तरे
अश्वतीर्थं तदद्यापि मानवाः परिचक्षते
तत्तता गाधये तात सहस्रं वाजिनां शुभम्
ऋचीकः प्रददौ प्रीतश्शुल्कार्थं वदतां वरः
ततस्स विस्मितो राजा गाधिश्शापभयेन च
ददौ तां समलङ्कृत्य कन्यां भृगुसुताय ह
जग्राह पाणिं विधिनां तस्या ब्रह्मर्षिसत्तमः
सा चैनं वरमासाद्य परं हर्षमवाप ह
तुतोष विप्रर्षिस्तस्यास्सवृत्तेन च भारत
छन्दयामास चैवैनां वरेण वरवर्णिनीम्
मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तम
अथ तामब्रवीन्माता सुतां किञ्चिदवाङ्मुखीम्
गाधिपत्नी-
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति
अपत्यस्य प्रदानेन समर्थस्स महातपाः
भीष्मः-
ततस्सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत्
मातुश्चिकीर्षितं राजनृचीकस्तामथाब्रवीत्
ऋचीकः-
गुणवन्तमपत्यं वै त्वं च साऽथ जनिष्यथ
जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा
तथैव च गुणश्लाघी पुत्र उत्पत्स्यते शुभे
अस्मद्वंशकरश्श्रीमांस्तव भ्राता च वंशकृत्
ऋतुस्नाता च साऽश्वत्थं त्वं च वृक्षमुदुम्बरम्
परिष्वजेतं कल्याणि तत इष्टमवाप्स्यथः
चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते
त्वं च सा चोपभुज्जाथां ततः पुत्राववाप्स्यथः
भीष्मः-
ततस्सत्यवती हृष्टा मातरं प्रत्यभाषत
यदृचीकेन कथितं तद्व्याचख्यौ चरुद्वयम्
तामुवाच ततो माता सुतां सत्यवतीं तदा
पुत्रि मूर्ध्नि पपन्नायाः कुरुष्व वचनं मम
सत्यवतीमाता-
भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः
एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च
वृक्षयोरपि व्यत्यासं कुर्याश्च वरवर्णिनि
व्यक्तं भगवतश्चात्र कृतमेवं भविष्यति
यदि प्रमाणं वचनं मम मातुरनिन्दिते
ततो मे त्वच्चरौ भावः पादपे च समुध्यमे
कथं विशिष्टो भ्राता मे भवेदित्येव मा चिरम्
भीष्मः-
तथा च कृतवत्यौ ते माता सत्यवती च सा
पृथग्गर्भमनुप्राप्ते तत एव युधिष्ठिर
दृष्ट्वा गर्भमनुप्राप्तां भार्यां स भगवानृषिः
उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः
ऋचीकः-
व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति
पादपे चापि व्यत्यासस्सुव्यक्तं ते कृतश्शुभे
मया च विश्वं यद्ब्रह्म त्वच्चरौ विनिवेशितम्
क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम्
त्रैलोक्यविख्यातगुणं त्वं विप्रं जनयेरिति
सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया
व्यत्यासस्स कृतो यस्मात्त्वया मात्रा तथैव च
तस्मात्सा ब्राह्मणं श्रेष्ठं माता ते जनयिष्यति
क्षत्रियं तूग्रकर्माणं भद्रे त्वं जनयिष्यसि
न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि
भीष्मः-
सा श्रुत्वा शोकसन्तप्ता पपात वरवर्णिनी
भूमौ सत्यवती राजंश्छिन्नमूला यथा लता
प्रतिलभ्य ततस्सञ्ज्ञां शिरसा प्रणिपत्य च
उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम्
ऋचीकपत्नी-
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर
प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियस्सुतः
कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति
न मे स स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः
भीष्मः-
एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः
ततस्सा जनयामास जमदग्निं सुतं शुभम्
विश्वामित्रं त्वजनयद्गाधेर्भार्या यशस्विनी
ऋषिप्रभावाद्राजेन्द्र ब्रह्मर्षि ब्रह्मवादिनम्
ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः
क्षत्रियस्सन्नपि तथा ब्रह्मवंशस्य कारकः
तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः
तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च
मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान्
कुक्षिरत्रिश्शकुन्तश्च बभ्रुः कालपथस्तथा
याज्ञवल्क्यश्च विव्यातस्तथा स्थूणः परावतः
उलूकोऽथ मधूकश्च तथाऽक्षस्सैन्धवाननः
पर्णजङ्घश्च भगवान्गावलश्च महानृषिः
ऋषिर्वज्रस्तथा सालस्सालङ्कायन एव च
लीलाटो नारदश्चैव तथा कूर्ममुखस्स्मृतः
ऊर्ध्वलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च
आङ्घ्रिवानेकभृत्यश्च शिलायूपस्सितश्शुचिः
चक्रतो मानमन्तव्यो वातव्यश्श्वेतवाहनः
श्यामायनाऽथ गार्ग्यश्च जाबालिस्सुश्रुतस्तथा
कार्षीरथश्च संश्रुत्यो गुरवो वरदस्तथा
महानृषिश्च कपिलस्तथर्षिस्तारकायणः
तथैव रोपगहनस्तथर्षिश्चार्जुनो मयः
मार्गमन्त्री हिरण्याक्षो जङ्घरिर्बभ्रुवाहनः
भूतिर्विभूतिस्सूतश्च सुरङ्गश्च तथैव च
अाराधिर्नामयश्चैव चण्डयोर्जुनयोस्तथा
उपामन्तुर्मङ्गशिखी शिवो निर्जतिरेव च
गोरुण्डश्चातिमत्स्यश्च शिथिहोताऽथ गार्दभिः
मज्जयोनिरजापेक्षी नारदस्तु महानृषिः
विश्वामित्रात्मजास्सर्वे ऋषयो ब्रह्मवादिनः
स नैव क्षत्रियो राजन्विश्वामित्रो महातपाः
ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर
एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ
विश्वामित्रस्य वै राजन्सोमसूर्याग्नितेजसः
यत्र यत्र च सन्देहो भूयस्ते राजसत्तम
तत्र तत्र च मां ब्रूहि वक्तास्मि तव संशयान्