युधिष्ठिरः-
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान्
गुणैस्समुदितस्सर्वैर्वयसा च समन्वितः
सर्वेषां चैव जन्तूनां सतामेतन्न संशयः
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर
क्षत्रियो यदि वा वैश्यश्शूद्रो वा राजसत्तम
ब्राह्मण्यं प्राप्नुयात्केन तन्मे ब्रूहि पितामह
तपसा वा सुमहता कर्मणा वा श्रुतेन वा
ब्राह्मण्यमथ चेदिच्छेत्कथं शक्यं पितामह
भीष्मः-
ब्राह्मण्यमतिदुष्प्राप्यं वर्णैः क्षत्रादिभिस्त्रिभिः
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पनः
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर
द्विजातेः कस्यचित्पार्थ तुल्यवर्णः पुनस्सुतः
पुरा मतङ्गो नाम्नाऽऽसीत्सर्वैस्समुदितो गुणैः
स यज्ञकारणात्पार्थ पित्रा सृष्टश्शुभाननः
त्वरया तं खरैर्युक्तम् आस्थाय रथमाव्रजत्
स बालं गर्दभी पुत्रं वहन्तं मातुरन्तिके
निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः
तं दृश्य नसिनिर्भिन्नं गर्दभं पुत्रगृद्धिनी
उवाच मा शुचः पुत्र चण्डालस्त्वाऽभिविध्यति
ब्राह्मणो दारुणो नास्ति मैत्रो ब्राह्मण उच्यते
आचार्यस्सर्वभूतानां शास्ता किं प्रहरिष्यति
अयं च पापप्रकृतिर्बाले न कुरुते दयाम्
स्वां योनिं मानयंस्त्वेतां भावं भावोऽधिगच्छति
एतच्छ्रुत्वा मतङ्गस्तु करुणं रासभीवचः
अवतीर्य रथात्तूर्णं तामिदं प्रत्यभाषत
महङ्गः-
ब्रूहि रासभि तत्त्वेन जननी येन दूषिता
केन मां वेत्थ चण्डालं ब्राह्मण्यं केन मेऽनशत्
तत्त्वेन मे महाप्राज्ञे ब्रूहि सर्वमशेषतः
रासभी-
ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन वै
जातस्ततोऽसि चण्डालो ब्राह्मण्यं तेन तेऽनशत्
भीष्मः-
एवमुक्तो मतङ्गस्तु प्रतिप्रायाद्गृहं पुनः
तमागतमभिप्रेक्ष्य पिता पुत्रमथाब्रवीत्
यस्त्वं यज्ञार्थसंसिद्धौ नियुक्तो गुरुकर्मणि
कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव
मतङ्गः-
अन्त्ययोनिरयोनिर्वा यस्स्यात्स कुशली भवेत्
कुशलं तु कुतस्तस्य यस्येयं जननी पितः
ब्राह्मण्यां वृषलाञ्जातं खरी वेदयते हि माम्
अमानुषी गर्दभीयं तपस्तप्स्ये महावने
भीष्मः-
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः
ततो गत्वा महारण्यमतप्यत महत्तपः
ततस्सन्तापयामास विबुधांस्तपसाऽन्वितः
मतङ्गस्सुसुखं प्रेप्सुस्स्थानं सुचरितादथ
इन्द्रः-
तं तथा तपसा युक्तमुवाच हरिवाहनः
मतङ्ग तप्स्यसे किं त्वं भोगानुत्सृज्य मानुषान्
वरं ददामि ते हन्त वृणीष्व त्वं यदिच्छसि
यदावाप्यं च यत्किञ्चित्सर्वमेव वृणीष्व तत्
मतङ्गः-
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः
गच्छेयं तदवाप्यैतद्वर एष वृतो मया
भीष्मः-
इन्द्रः-
एतच्छ्रुत्वा तु वचनं तमुवाच पुरन्दरः
ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्य विनशिष्यसि
श्रेष्ठं यत्सर्वभूतेषु तपो यदतिवर्तते
तदुक्तं प्रार्थयानस्त्वं मतङ्ग विनशिष्यसि
देवतासुरमर्त्यानां वरं विश्वस्य यत्सुखम्
चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन
भीष्मः-
एवमुक्तो मतङ्गस्तु संशितात्मा महाव्रतः
अतिष्ठदेकपादेन शतं वै परिवत्सरान्
तमुवाच सहस्राक्षः पुनरेव महायशाः
इन्द्रः-
मतङ्ग परमं स्थानं प्रार्थयनो महाव्रत
मा कृथास्साहसं तात नैष धर्मपथस्तव
विमार्गतो मार्गमाणस्सर्वथा न भविष्यसि
मतङ्ग परमं स्थानं वार्यमाणो मयाऽसकृत्
चिकीर्षस्येव तपसा सर्वथा न भविष्यसि
तिर्यग्योनिगतस्सर्वो मानुष्यं यदि गच्छति
अजाविकश्वपाको वा चण्डालो वा कदाचन
मल्लकः पुल्कसो वाऽपि ये चान्ये हीनजातिषु
तस्यामधमयोनौ स्म सततं परिवर्तते
ततो दशगुणे काले लभते शूद्रतामपि
शूद्रतायाश्चिरं कालं तत्रैव परिवर्तते
ततश्च त्रिशते काले लभते वैश्यतामपि
वैश्यकश्च चिरं कालं तत्रैव परिवर्तते
ततष्षष्टिगुणे काले राजन्यो नाम जायते
राजन्ये तु चिरं कालं तत्रैव परिवर्तते
ततस्त्रिंशद्गुणे काले लभते ब्रह्मबन्धुताम्
ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते
ततश्च द्विगुणे काले लभते काणडपृष्ठताम्
काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते
ततश्च त्रिशते काले लभते द्विजतामपि
द्विजतायां चिरं कालं तत्रैव परिवर्तते
ततश्चतुश्शते काले श्रोत्रियो नाम जायते
श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते
तदेनं क्रोधहर्षौ तु कामद्वेषौ तथैव च
विचिकित्साऽभिमानश्च ह्यपवादश्च विन्दति
तांश्चेच्छत्रूञ्जयत्येव प्राप्नोति परमां गतिम्
अथ ते वै जयन्त्येनं तालं पक्वमिवापतेत्
मतङ्ग सम्प्रधार्यैतद्यदहं त्वामचोदयम्
वृणीष्व काममन्यं वै नैतच्छक्यमिति त्वया
भीष्मः-
एवमुक्तो मतङ्गस्तु दुःखशोकपरायणः
अतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः
सुदुष्करं वहन्योगं कृशो धमनिसन्ततः
त्वगस्थिभूतो धर्मात्मा स ततापेति नश्श्रुतम्
तं तपन्तमभिद्रुत्य पाणिं जग्राह वासवः
वराणामीश्वरो दाता सर्वभूतहिते रतः
इन्द्रः-
मतङ्ग ब्राह्मणत्वं तैस्संवृतं परिपन्थिभिः
पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन्
ब्राह्मणे सर्वभूतानां योगक्षेमस्समाहितः
ब्राह्मणा ननु तृप्यन्ति पितरो देवतास्तथा
ब्राह्मणस्सर्वभूतानां मतङ्ग पर उच्यते
ब्राह्मणः कुरुते तद्धि योऽसौ यद्यदिहेच्छति
बह्वीस्स्म संसरन्योनीर्जायमानः पनुः पुनः
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति
किं नु शोचसि दुःखात्त्वं मृतं किमनुशोचसि
तं न शोचसि यो लब्ध्वा ब्राह्मण्यमिहं पातयेत्
ब्राह्मण्यं यत्तु दुष्प्रापं त्रिभिर्वर्णैर्दुरासदम्
सुदुर्लभं च तत्प्राप्य नानुतिष्ठन्ति मानवाः
ये पापेभ्यः पापतमास्तेषामधम एव सः
ब्राह्मण्यं योऽवजानीते धनं लब्ध्वा सुदुर्लभम्
दुष्प्रापमिति ब्राह्मण्यं प्राप्तं तदनुपालनम्
दुरवापमवाप्यैतन्नानुतिष्ठन्ति ब्राह्मणाः
मतङ्गः-
एकाराम एकरतिर्निर्द्वन्द्वोऽहं वने मुनिः
अहिंसादमदानस्थो नैव ब्राह्मणतां लभे
परं परं वृणे देव स मे सिध्येत वासव
यथा कामविहारी स्यां कामरूपी विहङ्गमः
ब्रह्मक्षत्रानुरोधेन लभे पूजां मनीषिभिः
एवं ममाक्षया प्रीतिर्भवत्विह पुरन्दर
इन्द्रः-
मतङ्ग गम्यतां शीघ्रमेवमेतद्भविष्यति
स्त्रियस्सर्वास्त्वया लोके यक्ष्यन्ते भूतिकर्मणि
एवं तवाक्षया कीर्तिर्भविष्यति तपोधन
छन्दोदेव इति ख्यातस्स्त्रीणां पूज्यो भविष्यसि
भीष्मः-
एतत्तस्मै वरं दत्त्वा वासवोऽन्तरधीयत
ब्रह्म त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम्
एवमेव परं स्थानं मर्त्यानां भरतर्षभ
ब्राह्मण्यं नाम दुष्प्रापमिन्द्रेणोक्तं महात्मना