युधिष्ठिरः-
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
श्रुतं मे महदाख्यानमिदं मतिमतां वर
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप
कथ्यमानं त्वया किञ्चित्तन्मे व्याख्यातुमर्हसि
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः
इत्येतं धर्ममाचक्ष्व तत्त्वेन भरतर्षभ
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः
तस्य पुत्रशतं जज्ञे नृपतेस्सूर्यवर्चसः
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत
माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः
सत्ये तपसि दाने च यस्य नित्यं रतं मनः
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः
धनुर्वेदे च वेदे च यस्य नित्यं रतं मनः
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम भारत
महाभागो महातेजा महासत्त्वो महाबलः
पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम नामत
धर्मात्मा कोशवांश्चैव राजराज इवापरः
सुवीरस्य च राजेन्द्र पुत्रो युद्धेषु दुर्जयः
दुर्जयो नाम विख्यातस्सर्वशस्त्रविशारदः
दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः
दुर्योधनो नाम महान्राजाऽऽसीद्राजसत्तमः
तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः
विषयश्च प्रतापश्च तुल्यमेवाभ्यवर्तताम्
अन्नैर्धनैश्च बहुभिस्सस्यैरन्यैश्च भारत
नगरं विषयं चास्य प्रतिपूर्णं तदाऽभवत्
न तस्य विषये कश्चित्कृपणो नाम दुर्गतः
व्याधितो दुर्गतश्चैव पुरुषः प्रत्यदृश्यत
स दक्षिणो मधुरवागनसूयुर्जितेन्द्रियः
धर्मात्मा चानृशंसश्च विक्रान्तो नविकत्थनः
धन्यो वदायो मेधावी ब्रह्मण्यस्सत्यसङ्गरः
न चावमन्ता दाता च वेदवेदाङ्गपारगः
तं नर्मदा देवनदी पुण्या शीतजला शिवा
चकमे पुरुषश्रेष्ठं स्नेहभावेन भारत
तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना
नाम्ना सुदर्शना चैव रूपेण च सुदर्शना
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर
दुर्योधनसुता यादृगभवद्वरवर्णिनी
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम्
स्वरूपं दीप्तिमत्कृत्वा शरदर्कसमद्युति
सा चाग्निशरणे राज्ञा शुश्रूषाकृतनिश्चया
नियुक्ता पितृसन्देशादारिराधयिषुश्शिखिम्
तस्या मनोहरं रूपं दृष्ट्वा देवो हुताशनः
मन्मथेन समादिष्टः पत्नीत्वे यतते मिथः
अग्निः-
भज मामनवद्याङ्गि कामात्कमललोचने
रम्भोरु मृगशाबाक्षि पूर्णचन्द्रनिभानने
तवेदं पद्मपत्राक्षं मुखं दृष्ट्वा मनोहरम्
भ्रूलताललितं कान्तमनङ्गो बाधते हि माम्
ललाटं चन्द्ररेखाभं शिरोरुहविभूषितम्
दृष्ट्वा ते पत्रलेखाङ्कमनङ्गो बाधते भृशम्
बालातपेनाकुलितं सस्वेदपुलकोद्गमम्
बिम्बाधरोष्ठवदनं विबुद्धमिव पङ्कजम्
अतीव चारुविभ्रान्तं मदमावहते मम
दन्तप्रकारनियता वाणी तव सुरक्षिता
ताम्रपल्लवसङ्काशा जिह्वेयं मे मनोहरा
समास्स्निग्धास्सुजाताश्च सहिताश्च द्विजास्तव
द्विजप्रिये प्रसीदस्व भज मां सुभगा ह्यसि
मनोज्ञं ललितापाङ्गं मुखं तव मनोहरम्
स्तनौ ते संहतौ भीरु हाराभरणभूषितौ
पक्वबिल्वप्रतीकाशौ कर्कशौ सङ्गमक्षमौ
गम्भीरनाभिसुभगे भज मां वरवर्णिनि
भीष्मः-
सैवमुक्ता विरहिते पावकेन महात्मना
ईषदाकम्पहृदया व्रीडिता वाक्यमब्रवीत्
सुदर्शना-
ननु नाम कुलीनानां कन्यकानां विशेषतः
माता पिता प्रभवतः प्रदाने बान्धवाश्च ये
पाणिग्रहणमन्त्रैश्च हुते चैव विभावसौ
सतां मध्ये निविष्टायाः कन्यायाश्शरणं पतिः
साऽहं नात्मवशा देव पितरं वरयस्व मे
भीष्मः-
अथ नातिचिरात्कालाद्राजा दुर्योधनः किल
यज्ञसम्भारनिपुणान्मन्त्रीनाहूय चोक्तवान्
यज्ञं यक्ष्येऽहमिति वै सम्भारास्सम्भ्रियन्तु मे
ततस्समाहिते तस्य यज्ञे ब्राह्मणसत्तमैः
विप्ररूपी हुतवहो नृपं कन्यामयाचत
न तु राजा प्रदानाय तस्मै भावमकल्पयत्
दरिद्रश्च सवर्णश्च ममायमिति पार्थिवः
इति तस्मै न वै कन्यां दित्सां चक्रे नराधिपः
अथ दीक्षामुपेतस्य यज्ञे तस्य महात्मनः
आहितो हवनार्थाय वेद्यामग्निः प्रणश्यत
ततस्स भीतो नृपतिर्भृशं प्रव्यथितेन्द्रियः
मन्त्रिणो ब्राह्मणांश्चैव पप्रच्छ किमिदं भवेत्
यज्ञे समिद्धो भगवान्नष्टो मे हव्यवाहनः
स मन्त्रकुशलैस्तैस्तैर्ब्राह्मणैर्वेदपारगैः
अमानुषो विकरोऽयमिति तैरेव बोधितः
धर्मविघ्नकरं वीर नैतत्त्वय्युपपद्यते
स्तूयतां भगवान्वह्निर्ब्राह्मणैर्वेदपारगैः
ऋत्विग्भिर्मन्त्रकुशलैर्यज्यतां वा हुताशनः
अथ ऋक्सामयजुषां पारगैर्वेदपारगैः
वेदतत्त्वार्थकुशलैस्स्तुतस्स्तोमपुरस्कृतैः
गुह्येषु नामधेयेषु कीर्त्यमानेषु पावकः
स्वरूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान्
वरये ह्यात्मनोऽर्थाय दुर्योधनसुतामिति
ततस्ते कल्यमुत्थाय तस्मै राज्ञे न्यवेदयन्
ततस्स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम्
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान्
प्रायाचत ततश्शुल्कं भगवन्तं विभावसुम्
नित्यं सान्निध्यमिह ते चित्रभानो भवेदिति
तमाह भगवानग्निरेवमस्त्विति पार्थिवम्
ततस्सान्निध्यमद्यापि माहिष्मत्यां विभावसोः
दृष्टं हि सहदेवेन दिशो विजयता च तत्
ततस्तां समलङ्कृत्य कन्यामहतवाससम्
ददौ दुर्योधनो राजा पावकाय महात्मने
प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम्
विधिना वेददृष्टेन वसोर्धारामिवाध्वरे
तस्या रूपेण शीलेन कुलेन वपुषा श्रिया
अभवत्प्रीतिमानग्निर्गर्भं चास्यां समादधे
तस्यां समभवत्पुत्रो नाम्नाऽग्नेयस्सुदर्शनः
शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम्
अथौघवान्नाम नृपो नृगस्यासीत्पितामहः
तस्याप्योघवती पुत्री पुत्रश्चौघरथोऽभवत्
तामोघवान्ददौ तस्मै स्वयमोघवतीं तदा
सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम्
स गृहस्थाश्रमरतस्तया सह सुदर्शनः
कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः
गृहस्थश्चापि जेष्यामि मृत्युमित्येव स प्रभो
प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते
तामेवौघवतीं राजन्स पावकसुतोऽब्रवीत्
सुदर्शनः-
अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन
येन येन च तुष्येत नित्यमेवातिथिस्तव
अप्यात्मनः प्रदानेन न ते कार्या विचारणा
एतद्व्रतं मम सदा हृदि सम्परिवर्तते
गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम्
प्रमाणं यदि वामोरु वचनं मम शोभने
इदं वचनमव्यग्रा हृदि त्वं धारयेस्सदा
भीष्मः-
निष्क्रान्ते मयि कल्याणि तथा सन्निहितेऽनघे
अतिथिर्नावमन्तव्यः प्रमाणं यद्यहं तव
तमब्रवीदोघवती तथा मूर्ध्नि कृताञ्जलिः
ओगवती-
न मे त्वद्वचनं किञ्चिदकर्तव्यं कथञ्चन
भीष्मः-
जिगीषमाणस्तु सदा तथा मृत्युस्सुदर्शनम्
पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तथा सदा
इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने
अतिथिर्ब्राह्मणश्श्रीमांस्तामाहौघवतीं तदा
मृत्युः-
आतिथ्यं दत्तमिच्छामि त्वयाऽद्य वरवर्णिनि
प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसम्मतः
भीष्मः-
इत्युक्ता तेन विप्रेणि राजपुत्री यशस्विनी
विधिना प्रतिजग्राह वेदोक्तेन विशां पते
आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये
प्रोवाचौघवती विप्रं केनार्थी किं ददामि ते
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम्
मृत्युः-
त्वया ममार्थः कल्याणि निर्विशङ्क तदाचर
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसम्मताः
प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम्
भीष्मः-
तया स छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया
नान्यमात्मप्रदानात्स तस्या वव्रे परं द्विजः
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः
तथेति लज्जमाना सा तमुवाच द्विजर्षभम्
ततो रहस्स विप्रर्षिस्सा चैवोपविवेश ह
संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः
अथेध्मान्समुपादाय स पावकिरुपागमत्
मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः
ततस्त्वाश्रममागम्य स पावकसुतस्तदा
तामजुहावौघवतीं क्वासि यातेति चासकृत्
तस्मै प्रतिवचस्सा तु भर्त्रे न प्रददौ तदा
कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती
न दोषोऽस्तीति मन्वाना लज्जिता भर्तुरेव च
तूष्णीम्भूताऽभवत्साध्वी विप्रकोपाच्च शङ्किता
अथ तां किं न्विति पुनः प्रोवाच स सुदर्शनः
सुदर्शनः-
क्व सा साध्वी क्व सा याता गरीयः किमतो मम
भीष्मः-
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता
कथं न प्रत्युदेत्यद्य स्मयमाना यथापुरम्
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम्
मृत्युः-
अतिथिं विद्धि सम्प्राप्तं पावके ब्राह्मणं च माम्
अनया छन्द्यमानोऽहं भार्यया तव सत्तम
तैस्तैरतिथिसत्कारैरार्जवेन भृतो मतः
आत्मप्रदानवधिना मामर्चति शुभानना
अनूरूपं यदत्राद्य तद्भवान्वक्तुमर्हति
भीष्मः-
कूटमुद्गरहस्तश्च मृत्युश्चैनं समन्वयात्
हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन्
सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा
त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम्
सुदर्शनः-
सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम
गृहस्थस्य तु धर्मोऽग्र्यस्सम्प्राप्ताोऽतिथिपूजनम्
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति
नास्मात्परो धर्म इति ब्रह्मन्मम मनीषितम्
प्राणाश्च मम दाराश्च यच्चान्यद्विद्यते वसु
अतिथिभ्यो मया देयमिति मे व्रतमाहितम्
निस्सन्दिग्धं मया वाक्यमेतत्ते समुदाहृतम्
ततोऽहं विप्र सत्येन स्वयमात्मानमालभे
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
बुद्धिरात्मा मनः कालो दिशश्चैतास्तथा दश
नित्यमेतानि पश्यन्ति देहिनां देहसंश्रिताः
सुकृतं दुष्कृतं चापि कर्म कर्मवतां वर
यथैषा नानृता वाणी मयाऽद्य समुदीरिता
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा
भीष्मः-
ततो नादस्समभवद्दिक्षु सर्वासु भारत
असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः
उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः
वपुषा खं च भूमिञ्च व्याप्य वायुरिवोद्धतः
स्वरेण विप्रशक्येन त्रीँल्लोकाननुनादयन्
उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः
मृत्युः-
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ
प्राप्तस्सत्यं च ते ज्ञात्वा प्रीतिर्हि परमा त्वयि
विजितश्च त्वया मृत्युर्येष त्वामनुगच्छति
रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः
न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम
पतिव्रतामिमां भार्यां तव वीक्षितुमप्युत
रक्षिता त्वद्गुणैरेषा पातिव्रत्यगुणादपि
अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत्
एषा हि तपसा स्वेन संयुता ब्रह्मवादिनी
पावनार्थं तु लोकस्य सरिच्छ्रेष्ठा भविष्यति
अर्धेनौघवती नाम त्वामर्धेनानुयास्यति
शरीरेण महाभागा योगो ह्यस्या वशे स्थितः
अनया सह लोकांश्च गन्ताऽसि तपसाऽऽर्जितान्
यत्र नावृत्तिमभ्येति शाश्वतांस्ताननुत्तमान्
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे
निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम्
पञ्चभूतान्यतिक्रान्तस्स्ववीर्याच्च मनोभवात्
गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ
स्नेहो रागश्च तन्द्री च लोभो द्रोहश्च केवलः
तव शुश्रूषया राजन्राजपुत्र्या च निर्जिताः
भीष्मः-
शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम्
युक्तमारुह्य भगवान्यमस्साक्षाज्जगाम ह
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च
बुद्धिः कालो मदो मोहः कामक्रोधौ तथैव च
तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै
ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय
अतिथिः पूजितो यद्धि मनसा ध्यायते शुभम्
न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत्
सुदत्तं सुकृतं वाऽपि क्षपयेदप्यनर्चितः
एतत्ते कथितं पुत्र मयाऽऽख्यानमनुत्तमम्
यथा विनिर्जितो मृत्युर्गृहस्थेन पुराऽभवत्
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम्
यः पठेच्छृणुयाद्वाऽपि सर्वपापप्रणाशनम्
य इदं कथयोन्नित्यमहन्यहनि पार्थिव
सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात्