युधिष्ठिरः-
धर्मो बहुविधाकारस्सूक्ष्मश्चोक्तः पितामह
न च वै हृदये शान्तिरस्ति काचिन्ममानघ
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयाऽनघ
स्वकृतात्का नु शान्तिस्स्याद्दुःखाद्बहुविधादपि
शराचितं शरीरं हि तीव्रव्रणमुदीक्ष्य ते
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन्
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाऽचलम्
त्वां दृष्ट्वा पुरुषव्याघ्रं सदावर्षामिवाम्बुदम्
अतः कष्टतरं किं नु मत्कृते यत्पितामहः
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे
मन्ये नृपतयश्चान्ये सहपुत्रास्सबान्धवाः
वयं हि धार्तराष्ट्राश्च काममन्युवशं गताः
कृत्वैतान्निन्दितं कर्म प्राप्स्यामः कां गतिं नृप
सोऽहमार्तिकरो राजन्सुहृद्वधकरस्तथा
न शान्तिमधिगच्छामि कुतश्चित् संशितव्रत
भीष्मः-
परतन्त्रः कथं हेतुमात्मानमनुपश्यसि
कर्मण्यस्मिन् महाभाग सूक्ष्मं ह्येतदतीन्द्रियम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः
गौतमी नाम काऽप्यासीत्स्थविरा शमसंयुता
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम्
अथ तं साधु पाशेन बद्ध्वा सर्पममर्षितः
लुब्धकोऽर्जुननामा तु गौतम्यास्समुपानयत्
तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः
ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा
न ह्ययं बालहा पापश्चिरं जीवितुमर्हति
गौतमी-
विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक त्वया
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन्
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः
मज्जन्ति पापगुरवश्शस्त्रं स्कन्नमिवोदके
नास्यामृतत्वं भवितैवं हतेऽस्मिञ्जीवत्यस्मिन्को व्यसुस्स्यादनन्ते
अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्मृत्युं लोके को न गच्छेदनन्ते
लुब्धकः-
जानाम्यहं नेह गुणागुणज्ञास्सदायुक्ता गुरवो वै भवन्ति
स्वर्गस्य ते सूपदेशा भवन्ति तस्मात्क्षुद्रं सर्पमिमं हनिष्ये
शममीप्सन्तः कालयोगं त्यजन्ति शुचं च सन्तस्त्वर्थविदस्त्यजन्ति
श्रियः क्षयश्शोचतां नित्यशो हि तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन्
गौतमी-
न चैवार्तिर्विद्यतेऽस्मद्विधानां धर्मात्मानस्सततं सञ्जनो हि
नित्यायस्तो बालजनो न चाहं धर्मोऽपैति प्रभवाम्यस्य नाहम्
ब्राह्मणानां न कोपोऽस्ति कुतः कोपाच्च यातना
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः
लुब्धकः-
हत्वा हि लाभाश्रेयणेन भाव्यं सद्यो लाभो बलवद्धि प्रशस्तः
कालाल्लाभो यस्तु सद्यो भवेत श्रेयः कुत्सिते त्वीदृशे स्यात्
गौतमी-
काऽर्थप्राप्तिर्गृह्य शत्रुं निहत्य का वा प्रीतिः प्राप्य शत्रुं न मुच्य
तस्मात्सौम्य भुजगे तु क्षमेयं मोक्षं किं वा कारणं नास्य कुर्याम्
लुब्धकः-
कस्मादस्माद्बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः
कृतागसं धर्मकृतस्त्यजन्ति सरीसृपं पापमिमं त्यज त्वम्
गौतमी-
नास्मिन्हते पन्नगे पुत्रको मे सम्प्राप्स्यते लुब्धक जीवितं वै
गुणं वाऽन्यं नास्य वधे प्रपश्ये तस्मात्सर्पं लुब्धक मुञ्च जीवम्
लुब्धकः-
वृत्रं हत्वा देवराड्धर्मभागं हत्वा यज्ञं धर्ममवाप चैव
शूली देवो देववृत्तं कुरु त्वं क्षिप्रं सर्पं जहि मा ते विशङ्का
भीष्मः-
असकृत्प्रोच्यमानाऽपि गौतमी भुजगं प्रति
लुब्धकेन महाभागा सा पापे नाकरोन्मतिम्
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः
सर्पः-
को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश
अस्वतन्त्रं हि मां मृत्युर्विवशं समचूचुदत्
तस्यायं वचनाद्दष्टो न कोपेन न काम्यया
तस्य तत्किल्बिषं लुब्ध विद्यते यदि किञ्चन
लुब्धकः-
यदन्यवशगेनेदं कृतं ते पन्नगाशुभम्
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी
मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा
कारणं च प्रकल्प्यन्ते तथा त्वमपि पन्नग
किल्बिषी चापि मे वध्यस्त्वमाख्याहि भुजङ्गम
सर्पः-
सर्व एतेऽन्यवशगा दण्डचक्रादयो यथा
तथाऽहमपि तस्माद्वै नैव हतुर्मतस्तव
अथवा मतमेतत्ते अन्योऽन्यस्य प्रयोजकः
कार्यकारणसन्देहो भवत्यन्यत्र चोदनात्
एवं सति न मे दोषो नास्मि वध्यो न किल्बिषी
किल्बिषं मन्यसे हि त्वं वध्यमेव प्रभाषसे
लुब्धकः-
कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत
विनाशे कारणं त्वं च तस्माद्वध्योऽसि पन्नग
असत्यपि कृते कार्ये नेह पन्नग विद्यते
तस्मान्नात्रैव हेतुस्स्याद्वध्यः किं बहु भाषसे
पन्नगः-
कार्याभावे क्रिया न स्यात्सत्यं सत्यपि कारणे
तस्माद्धतेऽस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः
यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः
अन्यः प्रयोक्ता स्यादत्र किं न जन्तुविनाशने
लुब्धकः-
वध्यस्त्वं चेतनावत्त्वाद् बालघाती नृशंसकः
भाषसे किं बहु पुनर्वध्यस्सन्पन्नगाधम
पन्नगः-
यथा हवींषि जुह्वाना मखे लुब्धक ऋत्विजः
न फलं प्राप्नुवन्त्यत्र फलयोगात्तथा ह्ययम्
भीष्मः-
तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदनाम्
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम्
मृत्युः-
कालेनाहं प्रमुदितः पन्नग त्वामचूचुदम्
विनाशहेतुर्नास्य त्वं न त्वहं प्राणिनश्शिशोः
यथा वायुर्बलोपेतो विकर्षति जलप्रदान्
तद्वधस्त्वद्वशे चाहं कालस्या वशगश्चिरम्
सात्त्विका राजसाश्चैव तामसा ये च केचन
भावाः कालात्मकास्सर्वे प्रवर्तन्ते हि जन्तुषु
जङ्गमास्स्थावराश्चैव विदित्वा भुवि वा दिवि
सर्वे कालात्मकास्सर्प कालात्मकमिदं जगत्
प्रवृत्तयश्च या लोके तथैव च निवृत्तयः
तासां प्रकृतयो याश्च सर्वं कालात्मकं स्मृतम्
आदित्यश्चन्द्रमा त्वग्निरापो वायुश्शतक्रतुः
अग्निः खं पृथिवी द्यौश्च ओषध्यो मरुतो दिशः
सरितस्सागराश्चैव भावाभावौ च पन्नग
सर्वे कालेन सृज्यन्ते संह्रियन्ते पुनस्तथा
एतज्जानन्कथं वा त्वं मद्दोषं सर्प मन्यसे
अथ चैवागतो दोषो मयि त्वमपि दोषवान्
सर्पः-
निर्दोषं दोषवन्तं तु न त्वां मृत्यो ब्रवीम्यहम्
त्वयाऽहं चोदित इति ब्रवीम्येतावदेव तु
यदि काले च दोषोऽस्ति यदि तत्रापि नेष्यते
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम्
निर्मोक्षस्त्वस्य मोहस्य मया कार्यो यथातथम्
मृत्यो तवापि दोषस्स्यादित्यतेन्मे प्रयोजनम्
भीष्मः-
सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम्
नानागसं मां पाशेन सन्तापयितुमर्हसि
लुब्धकः-
मृत्यो श्रुतं ते वचनं तव चैव भुजङ्गम
नैव तावद्विदोषत्वं भवति त्वयि पन्नग
मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने
उभयं कारणं जन्तोर्न कारणमकारणम्
मृत्युं च धक्करिष्यन्ति क्रूरं दुःखकरं नृणाम्
त्वामेव हि वधिष्यामि परं पापस्य कारणम्
सर्पः-
विवशौ कालवशगौ श्रुतनिर्दिष्टकारिणौ
नावां दोषेण हन्तव्यौ यदि सम्यक्प्रपश्यसि
लुब्धक उवाच
युवामुभौ परवशौ यदि वै मृत्युपन्नगौ
हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम्
मृत्युः-
याः काश्चिदेव चेष्टास्स्युस्सर्वा कालवशानुगाः
पूर्वमेवैतदुक्तं हि मया लुब्धक तत्त्वतः
भीष्मः-
अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये
अब्रवीत्पन्नगं मृत्युं तं चार्जुनकलुब्धकम्
कालः-
नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः
अकरोद्यदयं कर्म र्तदजुनक चोदितम्
प्राणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा
यदनेन कृतं कर्म तेनायं निधनं गतः
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्
कर्मदायादको लोकः कर्म बन्धनलक्षणम्
कर्माणि चोदयन्तीह यथाऽन्योन्यं तथा वयम्
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति
एवमात्मकृतं कर्म मानवः प्रतिपद्यते
यथा च्छायातपौ नित्यं सुसम्बद्धौ निरन्तरम्
तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः
एवं नाहं नैव मृत्युर्न सर्पो न तथा भवान्
न चैव ब्राह्मणी वृद्धा शिशुरेवात्र कारणम्
भीष्मः-
तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप
स्वकर्मप्रत्ययाल्ँलोकान्मत्वाऽर्जुनकमब्रवीत्
गौतमी-
नैव कालो न भुजगो न मृत्युरिह कारणम्
स्वकर्मभिरयं बालः कालेन निधनं गतः
मया च तत्कृतं कर्म येनायं मे सुतो मृतः
यथा कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम्
भीष्मः-
ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः
अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी
एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप
स्वकर्मप्रत्ययाल्ँलोकांस्त्रीन्विद्धि समितिञ्जय
न तत्त्वया कृतं पार्थ नापि दुर्योधनेन च
कालेन तत्कृतं विद्धि निहता येन पार्थिवाः
वैशम्पायनः-
इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः
युधिष्ठरो महातेजाः पप्रच्छेदं स धर्मवित्