जनमेजयः-
साख्यं योगः पाञ्चरात्रं वेदारण्यकमेव च
ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति हि
किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने
प्रब्रूहि वै मया पृष्टः प्रवक्तॄंश्च यथाक्रमम्
कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम्
वदस्व त्वं मया पृष्टः प्रवृत्तिं च यथाक्रमम्
वैशम्पायनः-
जज्ञे बहुज्ञं परम ह्युदारं यं द्वीपमध्ये सुतमात्मवन्तम्
पराशराद्गन्धवती महर्षिं तस्मै नमोऽज्ञानतमोनुदाय
पितामहाद्यं प्रवदन्ति षष्ठं महर्षिमार्षेयविभूतियुक्तम्
नारायणस्यांशजमेकपुत्रं द्वैपायनं वेदमहानिधानम्
तमादिकाले सुमहाविभूतिर्नारायणो ब्रह्म महानिधानम्
ससर्ज पुत्रार्थमुदारतेजा व्यासं महात्मानमजः पुराणम्
जनमेजयः-
तत्त्वेन कथितः पूर्वं सम्भवो द्विजसत्तम
वसिष्ठस्य सुतश्शक्तिश्शक्तेः पुत्रः पराशरः
पराशरस्य दायादः कृष्णद्वैपायनो मुनिः
भूयो नारायणसुतं त्वमेवैनं प्रभाषसे
किमेतत्पूर्वकं जन्म व्यासस्यामिततेजसः
कथयस्वेह धर्मो वै जन्म नारायणोद्भवम्
वैशम्पायनः-
वेदार्थवेत्तुर्व्यासस्य धर्मिष्ठस्य तपोनिधेः
गुरोर्मे ज्ञाननिष्ठस्य वासिष्ठस्य दयानिधेः
कृत्वा भारतमाख्यानं तपश्श्रान्तस्य धीमतः
शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः
अहं चतुर्थश्शिष्यो वै शुको व्यासात्मजस्तथा
एतैः परिवृतो व्यासश्शिष्यैः पञ्चभिरुत्तमैः
शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा
वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः
तमेकमनसं दान्तं युक्ता वयमुपास्महे
कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः
वेदान्स भारतार्थांश्च जन्म नारायणात्तथा
स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित्
नारायणादिदं जन्म व्याहर्तुमुपचक्रमे
व्यासः-
शृणुध्वमाख्यानवरमेतदाख्यानमुत्तमम्
आदिकालोद्भवं विप्रास्तपसाऽधिगतं मया
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसम्भवे
नारायणो महायोगी शभाशुभविवर्जितः
ससृजे नाभिजं पुत्रं ब्रह्माणममितप्रभम्
ततस्स प्रादुरभवदथैनं वाक्यमब्रवीत्
श्रीभगवान्-
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः
सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः
व्यासः-
स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः
प्रणम्य वरदं देवमुवाच हरिमीश्वरम्
बद्धाञ्जलिपुटो बुद्धिरुपतस्थे हरिं प्रभुम्
योगेन चैनां संयोज्य स्वयं नियुयुजे तदा
स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं गतिम्
उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये
ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश ह
अथैनं बुद्धिसंयुक्तं पुनस्स ददृशे हरिः
भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः
बाढमित्येव कृत्वाऽसौ यथाऽऽज्ञां शिरसा हरेः
तथाऽकरोच्च धर्मात्मा ब्रह्मा लोकपितामहः
एवमुक्त्वा स भगवांस्तत्रैवान्तरधायत
प्राप चैव मुहूर्तेन स्वं स्थानं देवसञ्ज्ञितम्
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत्
अथास्य बुद्धिरभवत्पुनरन्या तदा किल
श्रीभगवान्-
सृष्टाः इमाः प्रजास्सर्वा ब्रह्मणा परमेष्ठिना
दैत्यदानवगन्धर्वयक्षोरगसमाकुला
जाता चैवं वसुमती भाराक्रान्ता तपस्विनी
बहवो बलिनः पृथ्व्यां दैत्यराक्षसदानवाः
भविष्यन्ति तपोयुक्ता वरान्प्राप्स्यन्ति चोत्तमान्
अवश्यमेव तैस्सर्वैर्वरदानेन दर्पितैः
बाधितव्यास्सुरगणा ऋषयश्च तपोधनाः
तत्र न्याय्यमिदं कर्तुं भारावतरणं मया
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम्
निग्रहेण च पापानां साधूनां प्रग्रहेण च
इयं तपस्विनी धारा धारयिष्यति मेदिनीम्
मया ह्येषा हि ध्रियते पातालस्थेन भोगिना
मया धृता धारयति जगद्धि सचराचरम्
तस्मात्पृथ्व्याः परित्राणं करिष्ये सम्भवं गतः
एते मया निहन्तव्या दुर्विनीतास्सुरारयः
व्यासः-
एवं सञ्चिन्तयित्वा तु भगवान्मधुसूदनः
रुपाण्यनेकान्यसृजत्प्रादुर्भावानि भारत
वाराहं नारसिंहं च वामनं मानुषं तथा
अथ भूयो जगत्स्रष्टा गोशब्देनानुनादयन्
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत्
अवान्तरतपा नाम सुतो वाक्सम्भवो विभोः
भूतभव्यभविष्यज्ञस्सत्यवादी दृढव्रतः
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः
श्रीभगवान्-
वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर
व्यासः-
तस्मात्कुरु यथाज्ञप्तं ममैतद्वचनं मुने
स्वेन भिन्नास्तदा वेदा मनोस्स्वायम्भुवेऽन्तरे
ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा
श्रीभगवान्-
मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः
भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः
पुनस्तिष्ये च सम्प्राप्ते कुरवो नाम नामतः
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि
तेषां तव प्रसूतानां कुलभेदो भविष्यति
परस्परविनाशार्थं त्वामृते द्विजसत्तम
तत्राप्यनेकधा भेदात्वेदव्यासेति सञ्ज्ञितः
कृष्णे युगे च सम्प्राप्ते कृष्णवर्णो भविष्यसि
धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा
भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे
वीतरागश्च पुत्रस्ते परमात्मा भविष्यति
महेश्वरप्रसादेन नैतद्वचनमन्यथा
यं मानसं वै प्रवदन्ति पुत्रं पितामहस्योत्तमबुद्धियुक्तम्
वसिष्ठमुग्रं तपसो निधानं यश्चापि सूर्यं ह्यतिरिच्य भाति
जातो हि तस्यान्वय एष विप्रः पराशरो नाम महाप्रभावः
पिता स ते वेदनिधिर्वरिष्ठो महामना वै तपसां निवासः
कानीनगर्भः पितृकन्यकायास्तस्मादृषेस्त्वं भविता च विप्रः
भूतभव्यभविष्याणां ज्ञानानां वेत्स्यसे गतिम्
ये ह्यतिक्रान्तगाः पूर्वं सहस्रयुगपर्ययाः
तांश्च सर्वान्मयोद्दिष्टो द्रक्ष्यसे नात्र संशयः
पुनर्द्रक्ष्यसि चानेकान्सहस्रयुगपर्ययान्
अनादिनिधनान्लोके चक्रवत्वं महामुने
महेश्वरप्रसादेन नैतद्वचनमन्यथा
शनैश्चरस्सूर्यपुत्रो भविष्यति मनुर्महान्
तस्मिन्मन्वन्तरे चैव मन्वादिगणपूर्वकः
त्वमेव भविता वत्स मत्प्रसादान्न संशयः
व्यासः-
एवं सारस्वतमृषिमवान्तरतपां तथा
उक्त्वा वचनमीशानस्साधयस्वेत्यथाब्रवीत्
सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः
अवान्तरतपात्मानमहं जातोऽऽज्ञया हरेः
पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः
तदेतत्कथितं जन्म मया पूर्वकमात्मनः
नारायणप्रसादेन तदा नारायणांशजम्
मया हि सुमहत्तप्तं तपः परमदारुणम्
पुरा मतिमतां श्रेष्ठाः परमेण समाधिना
एतद्वः कथितं सर्वं यन्मां पृच्छत पुत्रकाः
पूर्वजन्म भविष्यच्च भक्तानां स्नेहतो मया
वैशम्पायनः-
एष ते कथितः पूर्वस्सम्भवोऽस्मद्गुरोर्नृप
व्यासस्याक्लिष्टमनसो यथा पृष्टं पुनश्शृणु
साङ्ख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा
ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै
साङ्ख्यस्य वक्ता कपिलः परमर्षिस्स उच्यते
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः
अवान्तरतपा नाम वेदाचार्यस्स उच्यते
प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन
उमापतिः पशुपतिश्श्रीकण्ठो ब्रह्मणस्सुतः
उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः
पाञ्चरात्रस्य कृत्स्नस्य वक्ता तु भगवान्स्वयम्
सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते
यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः
न चैनमभिजानन्ति तमोभूता विशां पते
तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः
निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः
निस्संशयेषु सर्वेषु नित्यं वसति वै हरिः
ससंशयान्हेतुबलानध्यावसति माधवः
पाञ्चरात्रविदो ये तु यथाक्रमपरा नृप
एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै
साङ्ख्यं च योगं च सनातने द्वे वेदाश्च सर्वे निखिलेन राजन्
जनमेजयः-
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु
को ह्यत्र पुरुषश्श्रेष्ठः को वा योनिरिहोच्यते
वैशम्पायनः-
नमस्कृत्वा तु गुरवे व्यासायामिततेजसे
तपोनित्याय वन्द्याय पराय परमर्षये
बहूनां पुरुषाणां च यथैका योनिरुच्यते
तथा तं पुरुषं विश्वमाख्यास्यामि गुणातिगम्
बहवः पुरुषा लोके साङ्ख्ययोगविचारिणः
नैकमिच्छन्ति पुरुषमेकं कुरुकुलोद्वह
इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते
ऋतं सत्यं च प्रख्यातमृषिसिंहेन चिन्तितम्
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः
अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत
समासतस्तु तद्व्यासः पुरुषैकाग्र्यमुक्तवान्
तत्तेऽहं सम्प्रवक्ष्यामि प्रसादादमितौजसः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते
क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभे
वैजयन्त इति ख्यातः पर्वतः परमो नृप
तत्राध्यात्मगतिं देव एकान्ते प्रविचिन्तयन्
वैराजसदनान्नित्यं वैजयन्तं निषेवते
अथ तत्राऽऽसतस्तस्य चतुर्वक्त्रस्य धीमतः
ललाटप्रभवः पुत्रश्शिव आगाद्यदृच्छया
अंशांशेनैव योगीशः पुरा त्रिनयनः प्रभुः
ततः खान्निपपाताशु धरणीधरमूर्धनि
अग्रतश्चाभवद्भीतो ववन्दे चापि पादयोः
तं पादयोर्निपतितं स्पृष्ट्वा सव्येन पाणिना
अत्थापयामास तदा प्रभुरेकः प्रजापतिः
उवाच चैनं भगवांश्चिरस्यागतमात्मजम्
पितामहः-
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम्
कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोस्सदा
नित्यमुग्रतपा हि त्वं ततः पृच्छामि ते तपः
रुद्रः-
त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम
कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा
चिराद्दृष्टोऽसि भगवन्वैराजभवने मया
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम्
कौतूहलं चापि हि मे एकान्तगमनेन वै
नैतत्कारणमल्पं हि भविष्यति पितामह
किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम्
सुरासुरैरध्युषितमृषिभिश्चामितप्रभैः
गन्धर्वैरप्सरोभिश्च सततं सन्निषेवितम्
उत्सृज्यैनं गिरिवरमेकान्तं प्राप्तवानसि
ब्रह्मा-
वैजयन्तो गिरिवरः सततं सेव्यते मया
अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट्
रुद्रः-
बहवः पुरुषा ब्रह्मंस्त्वया सृष्टास्स्वयम्भुवा
सृज्यन्ते चापरे ब्रह्मन्स परः पुरुषो विराट्
यो ह्यसौ चिन्त्यते ब्रह्मंस्त्वयैकः पुरुषोत्तमः
एतन्मे संशयं छिन्धि महत्कौतूहलं हि मे
ब्रह्मा-
बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः
एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि
आधारत्वं प्रवक्ष्यामि एकस्य पुरुषस्य वै
बहूनां पुरुषाणां स यथैका योनिरुच्यते
तथा तं पुरुषं विश्वं आख्यास्यामि गुणातिगम्
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम्