जनमेजयः-
अहो ह्येकान्तिनस्सर्वान्प्रीणाति भगवान्हरिः
विधिप्रयुक्तां पूजां च गृह्णाति शिरसा स्वयम्
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः
तेषां त्वया हि निर्दिष्टा पारम्पर्यागता गतिः
चतुर्थ्यां चापि ते गत्यां गच्छन्ति पुरुषोत्तमम्
एकान्तिनस्तु पुरुषा गच्छन्ति परमं गतिम्
नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः
अल्पा हि गतयतिस्रो यद्गच्छत्यव्ययं हरिम्
साङ्गोपनिषदान्वेदान्ये विप्रास्सम्यगास्थिताः
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्
केनैव धर्मः कथितो देवेन ऋषिणाऽपि वा
एकान्तिनां च का चर्या कदा चोत्पादिता विभो
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे
वैशम्पायनः-
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे
अर्जुने विमनस्के वै गीता भगवता स्वयम्
आगतिश्च गतिश्चैव पूर्वं ते कथिता मया
गहनो ह्येष वै धर्मो दुर्विज्ञेयोऽकृतात्मभिः
सम्मितस्सामवेदेन पुरेवादिकृते युगे
धार्यते स्वयमीशेन राजन्नारायणेन ह
इममर्थं महाराज पृष्टः पार्थेन नारदः
ऋषिमध्ये तमाचष्ट शृण्वतोः कृष्णभीष्मयोः
गुरुणा च ममाऽप्येष कथितो नृपसत्तम
यथा तु कथितस्तत्र नारदेन तथा शृणु
यदाऽऽसीन्मानसं जन्म नारायणमुखोद्गतम्
ब्रह्मणः पृथिवीपाल तदा नारायणस्स्वयम्
तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे
वैखानसाः फेनपेभ्यो तं धर्मं प्रतिपदिरे
वैखानसेभ्यस्सोमस्तु ततस्सोऽन्तर्दधे पुनः
यदाऽऽसीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप
यदा पितामहेनैष सोमाद्धर्मः प्रतिष्ठितः
नारायणात्मकं धर्मं रुद्राय प्रददौ च सः
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप
वालखिल्यानृषीन्सर्वान्धर्ममेनमपाठयत्
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया
तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत्
तत्रैष धर्मस्सम्भूतस्स्वयं नारायणान्नृप
सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात्
तपसैव सुतप्तेन दमेन नियमेन च
त्रिः परिक्रान्तवानेनं सुपर्णो धर्ममुत्तमम्
यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिति स्मृतम्
ऋग्वेदपाठे पठितं व्रतमेतद्धि दुश्चरम्
सुपर्णाद्वाय्वधिगतो धर्म एष सनातनः
वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा
वायोस्सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः
तेभ्यो महोदधिश्चैनं प्राप्तवान्धर्ममुत्तमम्
अन्तर्दधे ततो भूयो नारायणसमाहृतः
यदा भूयश्श्रवणजं जन्म चासीन्महात्मनः
ब्रह्मणः पुरुषव्याघ्र तत्तु कीर्तयतश्शृणु
जगत्स्रष्टुमना देवो हरिर्नारायणस्स्वयम्
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुम्
तथा चिन्तयतस्तस्य कर्णाभ्यां पुरुषस्स्मृतः
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः
श्रीभगवान्-
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा
तेन सर्वं कृतयुगं स्थापयस्व यथाविधि
वैशम्पायनः-
ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे
धर्मं चाग्र्यं स जग्राह सरहस्यं ससङ्ग्रहम्
आरण्यकेन सहितं नारायणमुखोद्गतम्
उपदिश्य ततो धर्मान्ब्रह्मणेऽमिततेजसे
तं कार्तयुगधर्माणं निराशीःकर्मसञ्ज्ञितम्
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम्
ततोऽथ वरदो देवो ब्रह्मा लोकपितामहः
असृजत्स तदा देवान्कृत्स्नान्स्थावरजङ्गमान्
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम्
ततो हि सात्त्वतो धर्मो व्याप्य लोकानवस्थितः
तेनैवाथ स धर्मेण ब्रह्मा लोकविसर्गकृत्
पूजयामास देवेशं हरिं नारायणं प्रभुम्
धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः
अध्यापयामास तदा लोकानां हितकाम्यया
ततस्स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप
अध्यापयत्पुराऽव्यग्रस्स च लोकपतिर्बभौ
ततश्शङ्खपदश्चापि पुत्रमात्मजमौरसम्
दिशापालं सुधन्वानमध्यापयत भारत
ततश्चान्तर्गते भूयः प्राप्ते त्रेतायुगे पुनः
नासत्ये जन्मनि पुरा ब्रह्मणः पार्थिवोत्तम
धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप
उज्जगादारविन्दाक्षो ब्रह्मणः पश्यतस्तदा
सनत्कुमारादपि च वीरणो वै प्रजापतिः
कृतादौ कुरुशार्दूल धर्ममेतदधीतवान्
वीरणश्चाप्यधीत्यैनं रौच्याय मनवे तदा
रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे
कुक्षिनाम्ने तं प्रददौ विमलाय च धर्मिणे
ततस्त्वन्तर्दधे भूयो नारायणमुखोद्गतः
अण्डजे जन्मनि ततो ब्रह्मणे हरिमेधसः
एष धर्मस्समुद्भूतो नारायणमुखेऽधुना
गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि
अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप
बर्हिषद्भ्यश्च सङ्क्रान्तं सामवेदान्तगं द्विजम्
ज्येष्ठनाम्नाऽभिविख्यातं ज्येष्ठसामव्रतो हरिः
ज्येष्ठश्चाप्यनुसङ्क्रान्तो राजानमविकम्पनम्
अन्तर्दधे ततो राजन्नेष धर्मः प्रभो हरेः
यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप
तदैष धर्मः कथितस्स्वयं नारायणेन ह
पितामहाय शुद्धाय युगादौ लोकधारिणे
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ
ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम
आदित्ये सवितुश्श्रेष्ठे विवस्वाञ्जगृहे ततः
त्रेतायुगादौ च ततो विवस्वान्मनवे ददौ
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप
यतीनां चापि यो धर्मः स ते पूर्वं नृपोत्तम
कथितो हरिगीतासु समासविधिकल्पितः
नारदेन सुसम्प्राप्तः सरहस्यस्ससङ्ग्रहः
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप
एवमेष महान्धर्म आद्यो राजन्सनातनः
दुर्विज्ञेयो दुष्करश्च सात्त्वतैर्धार्यते सदा
धर्मज्ञानेन चानेन सुप्रयुक्तेन कर्मणा
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः
एकव्यूहविभागो वा क्वचिद्द्विव्यूहसञ्ज्ञितः
त्रिव्यूहश्चापि सङ्ख्यातश्चतुर्व्यूहश्च दृश्यते
हरिरेव च क्षेत्रज्ञो निर्ममो निष्कलस्तथा
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः
अतश्च प्रथितो राजन्पञ्चेन्द्रियसमीरणः
एष लोकनिधिश्श्रीमानेष लोकविसर्गकृत्
अकर्ता चैव कर्ता च कार्यं कारणमेव च
यथेच्छति तथा राजन्क्रीडते हरिरव्ययः
एवं स परमं ब्रह्म श्वेतचन्द्रसमोऽच्युतः
यत्र चैकान्तिनो यान्ति नारायणपरायणाः
तदेव केवलं स्थानं मुक्तानां परमं भवेत्
एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः
एवं स भगवान्व्यासो गुरुर्मम विशां पते
कथयामास धर्मज्ञो धर्मराजे द्विजोत्तमः
ऋषीणां सन्निधौ राजञ्शृण्वतोः कृष्णभीष्मयोः
तस्याप्यकथयत्पूर्वं नारदस्सुमहातपाः
जनमेजयः-
एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम्
न कुर्वन्ति कथं विप्रा आद्यं नानाव्रतेऽञ्चिताः
एकान्तिनो हि पुरुषा बहवो दुर्लभा नृप
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दनः
अहिंसकैरात्मविद्भिस्सर्वभूतहिते रतैः
भवेत्कृतयुगप्राप्तिरीदृशैः कर्मवर्जितैः
वैशम्पायनः-
तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः
सात्त्विकी राजसी चैव तामसी चैव भारत
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह
सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चयः
अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम्
नारायणां परं मोक्षं ततो वै सात्विकस्स्मृतः
मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम्
एकान्तभक्तस्सततं नारायणपरायणः
मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः
तेषां वै च्छिन्नतृष्णानां योगक्षेमवहो हरिः
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः
सात्त्विकस्स तु विज्ञेयो भवेन्मोक्षार्थचिन्तकः
नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान्
एवमेष महाभाग प्रबुद्धादपि जायते
साङ्ख्यतुल्यो हि भूपाल धर्म एकान्तिसेवितः
नारायणात्मको मोक्षस्ततो याति परां गतिम्
राजसी तामसी चैव जनितृप्रकृती स्मृते
तदात्मकं हि पुरुषं जायमानं विशां पते
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिस्स्वयम्
पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः
रजसा तपसा चैव मानसं समभिप्लुतम्
कामं देवाश्च मुनयस्सत्त्वस्था नृपसत्तम
हीनास्सत्त्वेन सूक्ष्मेण ततो वैकारिकास्स्मृताः
जनमेजयः-
कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम्
वैशम्पायनः-
सुसूक्ष्मतत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः
पुरुषः पुरुषं गच्छेन्निष्क्रियं पञ्चविंशकम्
एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च
परस्पराङ्गान्येतानि पाञ्चरात्रं च कथ्यते
एष एकान्तिनां धर्मो नारायणपरात्मकः
यथा समुद्रात्प्रसृता जलौघास्तमेव राजन्पुनराविशन्ति
इमे जना ज्ञानमहाजलौघा नारायणं वै पुनराविशन्ति
एष ते कथितो धर्मस्सात्वतोऽयं तु पाण्डव
कुरुष्वैवं यथान्यायं यदि शक्तो हि भारत
एवं हि स महाभागो नारदो गुरवे मम
चेतनां यमिनामाह एकान्तगतिमव्ययाम्
व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते
स एव तव धर्मोऽयमाख्यातः प्रसृतो गुरोः
इत्थं हि दुष्करो धर्म एष पार्थिवसत्तम
यथैव त्वं तथैवान्ये न भजन्तीह मोहिताः
कृष्ण एव हि लोकानां भावनो मोहनस्तथा
संहारकारकश्चैव कारणं च विशां पते