शौनकः-
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः
जन्मधर्मगृहे चैव नरनारायणात्मकम्
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः
सा तथा नश्श्रुतस्तात कथ्यमानस्त्वयाऽनघ
हव्यकव्यजुषो विष्णुरुदक्पूर्वमहोदधेः
यत्तु तत्कथितं पूर्वं त्वया हयशिरो महत्
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना
किं तदुत्पादितं सर्वं हरिणा लोकधारिणा
दृष्ट्वा च विबुधश्रेष्ठं सम्परीतममितौजसम्
तमश्वशिरसं पूर्वं ब्रह्मा किमकरोन्मुने
एतन्नस्संशयं सूत पुराणं ब्रह्मसम्भवम्
कथयस्वोत्तममते पुराणं ब्रह्मसञ्ज्ञितम्
पावितास्स्म त्वया सूत पुण्याः कथयता कथाः
सूतः-
कथयिष्यामि ते सर्वं पुराणं वेदसम्मितम्
जगौ यद्भगवान्व्यासो यज्ञे पारीक्षितस्य वै
श्रुत्वाऽश्वशिरसो मूर्तिं देवस्य हरिमेधसः
उत्पन्नसंशयो राजा एतदेवमचोदयत्
जनमेजयः-
यत्तद्दर्शितवान्ब्राह्म देवं हयशिरोधरम्
किमर्थं तत्समभवद्वपुर्देवोपकल्पितम्
वैशम्पायनः-
यत्किञ्चिदिह लोके वै देहबद्धं विशां पते
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः
ईश्वरो हि जगत्स्रष्टा विभुर्नारायणो विराट्
भूतान्तरात्मा वरदः सगुणो व्यक्तरूपधृक्
भूतप्रलयमव्यक्तं शृण्विमं तु नृपसत्तम
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले
वायौ चाकाशसंलीने आकाशे च मनोनुगे
मनसि व्यक्तसंलीने व्यक्ते चाव्यक्ततां गते
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च
तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन
तमसो ब्रह्मसम्भूतममूलममृतात्मकम्
तद्विश्वभावसञ्ज्ञानं पौरुषीं तनुमास्थितम्
सोऽनिरुद्ध इति ख्यातस्तत्प्रधानं प्रचक्षते
तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम
विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः
अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः
जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम्
तस्य चिन्तयतस्सृष्टिं येनात्मा सगुणस्स्मृतः
अहङ्कारस्ततो जातो ब्रह्मा इव चतुर्मुखः
हिरण्यगर्भो द्युतिमान्सर्वलोकपितामहः
पद्मोऽनिरुद्धात्सम्भूतस्तदा पद्मनिभेक्षणः
सहस्रपत्रो द्युतिमानुपविष्टस्सनातनः
ददृशेऽद्भुतसङ्काशो लोकानां पालकः प्रभुः
सत्त्वस्थः परमेष्ठी स ततो भूतगणान्सृजत्
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ
तपोऽतप्यत्स भगवाननादिनिधनोऽच्युतः
एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः
स नामतो मधुर्जातस्तदा नारायणाज्ञया
कीटाभस्त्वपरो बिन्दुः कैटभो राजसस्तु सः
तावाद्यावसुरश्रेष्ठौ तमोरजगुणान्वितौ
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ
ददृशातेऽरविन्दस्थं ब्रह्माणममितौजसम्
सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान्
ततो विग्रहवन्तस्तौ वेदान्दृष्ट्वाऽसुरोत्तमौ
सहसा जगृहतू राजन्ब्रह्मणः पश्यतस्तदा
अथ तौ दानवौ वेदान्सङ्गृह्याथ सनातनान्
रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ
ततो हृतेषु देवेषु ब्रह्मा कश्मलमागमत्
ततो वचनमीशानं प्राह वेदैर्विनाकृतः
ब्रह्मा-
वेदा मे परमं चक्षुर्वेदा मे परमं बलम्
वेदा मे परमं ज्ञानं वेदा मे ब्रह्म चोत्तरम्
इमे वेदा हृतास्सर्वे दानवाभ्यां बलादितः
अन्धकारा हि मे लोका जाता वेदैर्विनाकृताः
वेदानृते हि किं कुर्यां लोकानां वै स्रष्टुमुद्यतः
अहो बत महद्दुःखं वेदनाशनजं मम
प्राप्तं दुनोति हृदयं तीव्रं शोकादरन्ध्रयत्
को हि शोकार्णवे मग्नं आगत्याऽद्य समुद्धरेत्
वेदांस्तान्नानयेन्नष्टान्कस्य चाहं प्रियो भवेत्
वैशम्पायनः-
इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम
हरिस्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः
ब्रह्मा-
ॐनमस्ते ब्रह्महृदय नमस्ते मम पूर्वज
लोकाद्य भुवनश्रेष्ठ साङ्ख्ययोगनिधे प्रभो
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित
विश्वभूतज भूतानामन्तरात्मन्नयोनिज
अहं प्रसादजस्तुभ्यं लोकधाम स्वयम्प्रभो
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्
चाक्षुषं वै द्वितीयं मे जन्मेहासीत्पुरातनम्
त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत्
त्वत्तश्श्रवणजं चापि चतुर्थं जन्म मे विभो
नासत्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते
अण्डजं चापि मे जन्म त्वत्तष्षष्ठं विनिर्मितम्
इदं च सप्तमं जन्म पद्मजन्मामितप्रभ
सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जित
प्रथितः पुण्डरीकाक्षः प्रधानगुणकल्पितः
त्वमीश्वरस्स्वभावश्च भूतानां त्वं प्रभावन
त्वया विनिर्मितोऽहं वै चक्षुषा चापि योजितः
ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि
प्रदेहि चक्षुषी ह्येते प्रियोऽहं ते प्रियोऽसि मे
वैशम्पायनः-
एवं स्तुतस्स भगवान्पुरुषस्सर्वतोमुखः
जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः
ऐश्वर्येण स योगेन द्वितीयां तनुमास्थितः
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा
कृत्वा हयशिरश्शुभ्रं वेदानामालयं प्रभुः
तस्य मूर्धा समभवद्द्यौस्सनक्षत्रतारका
केशाश्चास्याभवन्दीर्घा रवेरंशुसमाः प्रभोः
कर्णावाकाशपाताले ललाटं भूतधारिणी
गङ्गा सरस्वती पुण्ये भ्रुवावास्तां महाद्युतेः
चक्षुषी सोमसूर्यौं तु नासा सन्ध्या पुरा स्मृता
अभवच्चास्यमोङ्कारो विद्युज्जिह्वा च निर्मिता
दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः
भूलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः
ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम्
अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः
रसां पुनः प्रविष्टश्च योगं परममास्थितः
शैक्षं परं समास्थाय ओमिति प्रासृजत्स्वरम्
सस्वरस्सानुनादश्च सर्वतस्स्निग्ध एव च
बभूवान्तर्हितगतिस्सर्वभूतगुणोदितः
ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान्
रसातले विनिक्षिप्य यतश्शब्दस्ततो द्रुतौ
एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः
जग्राह वेदानखिलान्रसातलगतान्हरिः
प्रादाच्च ब्रह्मणो भूयस्ततस्स्वां प्रकृतिं गतः
स्थापयित्वा हयशिरा उदक्पूर्वे महोदधौ
वेदानामालयश्चापि बभूवाश्वशिरास्ततः
अथ तं यदपश्यन्तौ दानवौ मधुकैटभौ
पुनराजग्मतुस्तत्र वेगितौ पश्यतां च तौ
यत्र देवा विनिक्षिप्तास्तत्स्थानं शून्यमेव च
तत उत्तममास्थाय वेगं बलवतां वरौ
पुनरुत्तस्थतुश्शीघ्रं रसानामालयात्तदा
ददृशाते च पुरुषं तमेवादिकरं प्रभुम्
श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम्
द्वावप्यमितविक्रान्तौ निद्रायोगमुपागतम्
आत्मप्रमाणरचिते अपामुपरि कल्पिते
शयने नागभोगाढ्ये ज्वालामालासमाकुले
निष्केवलेन सत्त्वेन सम्पन्नं रुचिरप्रभम्
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम्
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ
मधुकैटभौ-
अयं स पुरुषश्श्वेतश्शेते निद्रामुपागतः
अनेन नूनं वेदानां कृतमाहरणं रसात्
वैशम्पायनः-
कस्यैष को नु खल्वेष किञ्च स्वपिति भोगवान्
इच्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम्
युद्धार्थिनौ हि विज्ञाय विबुद्धः पुरुषोत्तमः
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे
अथ युद्धं समभवत्तयोर्नारायणस्य च
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ
ब्रह्मणोऽपचितिं कुर्वञ्जधान मधुसूदनः
ततस्तयोर्वधेनाशु वेदानां हरणेन च
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः
ततः परिवृतो ब्रह्मा अहानिर्वेदसत्कृतः
निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान्
दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम्
तत्रैवान्तर्दधे देवो यत एवागतो हरिः
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम्
पुनः प्रवृत्तो धर्मार्थं तामेव विदधे तनुम्
एवमेष महाभागो बभूवाश्वशिरा हरिः
पौराणमेतत्प्रख्यानं रूपं वरदमैश्वरम्
यो ह्येतद्ब्राह्मणो नित्यं शृणुयाच्छ्रावयेत वा
न तस्याध्ययनं नाशमुपगच्छेत्कदाचन
आराध्य तपसोग्रेण देवं हयशिरोधरम्
पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम्
पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि
यांयामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित्
तां तां कुर्याद्विकुर्वाणस्स्वयमात्मानमात्मना
एष वेदनिधिश्श्रीमानेष वै तपसां निधिः
एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हविर्विभुः
नारायणपरा वेदा यज्ञा नारायणात्मकाः
तपो नारायणपरं नारायणपरा गतिः
नारायणपरं सत्यं व्रतं नारायणाश्रयम्
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः
नारायणात्मको गन्धो भूमेश्श्रेष्ठतमस्स्मृतः
अपां चैव गुणो राजन्रसो नारायणात्मकः
ज्योतिषश्च गुणो रूपं स्मृतं नारायणात्मकम्
नारायणात्मकश्चैव शब्द आकाशसम्भवः
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम्
नारायणपरः कालो ज्योतिषामयनं च यत्
नारायणपरा कीर्तिश्श्रीश्च लक्ष्मीश्च देवताः
नारायणपरं साङ्ख्यं योगो नारायणात्मकः
कारणं पुरुषो ह्येषां प्रधानं चापि कारणम्
स्वभावश्चापि कर्माणि दैवं येषां च कारणम्
पञ्चकारणसङ्ख्यातो निष्ठस्सर्वत्र वै हरिः
तत्त्वं जिज्ञासमानानां हेतुभिस्सर्वतोमुखैः
तत्त्वमेको महायोगी हनिर्नारायणः प्रभुः
ब्रह्मादिसर्वलोकानामृषीणां च महात्मनाम्
साङ्ख्यानां योगिनां चैव भावितात्मनाम्
मनीषितानि जानाति केशवो न तु तस्य ते
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते
दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत्
सर्वेषामाश्रयो विष्णुरैश्वर्यं सर्गमास्थितः
सर्वभूतकृतावासो वासुदेवेति चोच्यते
एषो हि नित्यः परमो महर्षिर्महाविभूतिर्गुणवान्गुणाख्यः
गुणैश्च संयोगमुपैति शीघ्रं कालो यथर्तावृतुसम्प्रयुक्तः
नैवास्य विन्दन्ति गतिं महात्मनो न चागतिं कश्चिदिहानुपश्यति
ज्ञानात्मकाख्यं यमिनो महर्षयः पश्यन्ति नित्यं पुरुषं पुराणम्