वैशम्पायनः-
श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम्
अत्यन्तं भक्तिमान्देवे एकान्तित्वमुपेयिवान्
उषित्वा वर्षसाहस्रं नरनारायणाश्रमे
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम्
जगाम हिमवत्कुक्षावाश्रमं स्वं सुरार्चितम्
तावद्विख्यातयशसौ नरनारायणावृषी
तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप उत्तमम्
त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः
पावितात्माऽद्य संवृत्तश्श्रुत्वेमामादितः कथाम्
नैव तस्यापरो लोको नायं पार्थिवसत्तम
कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम्
मज्जन्ति पितरस्तस्य नरके शाश्वतीस्समाः
यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम्
कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित्
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति श्रुतः
य एष गुरुरस्माकमृषिर्गन्धवतीसुतः
तेनैतत्कथितं तात माहात्म्यं परमात्मनः
तस्माच्छ्रुतं मया चेदं कथितं च तवानघ
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्
धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम्
वर्ततां ते महायज्ञो यथासङ्कल्पितस्त्वया
सङ्कल्पिताश्वमेधस्त्वं श्रुतधर्मा च तत्त्वतः
सूतः-
एतत्तु महदाख्यानं श्रुत्वा पारीक्षितो नृपः
ततो यज्ञसमाप्त्यर्थं क्रियास्ताश्च समारभत्
नारायणीयमाख्यानमेतत्ते कथितं मया
पृष्टेन शौनकाद्यैश्च नैमिशारण्यवासिभिः
नारदेन पुरा यद्वै गुरवे तु निवेदितम्
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः
परमर्षिभुवनजनपतिः स्फुरणीयश्श्रुतिविनयपरः
द्विजगणस्सहितस्तव भवतु गतिर्हरिरमरहितः
तपसां निधिस्स महतां निधिर्महतो यशसश्च भाजनं मधुकैटभहा
एकान्तिनां शरणदोऽभयदोऽस्तु वस्स मखभागहरस्त्रिगुणातिगः
चतुष्पथमर्तिधरः पूर्तेष्टयोश्च फलभागहरः
विदधातु नित्यमजितोऽतिबलो गतिरात्मवतां सुकृतिनामृषीणाम्
तं लोकसाक्षिणमजं पुरुषं रविवर्णमीश्वरं गतिं बहुशः
प्रणमध्वमेकमतयो यतस्सलिलोद्भवोऽपि तमृषिं प्रणतः
स हि लोकयोनिरमृतस्य पदं सूक्ष्मं परायणमचलं परमं मतः
साङ्ख्ययोगिभिरुदाहृतं तद्बुद्ध्या यतात्मभिरजन इति