वैशम्पायनः-
कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम्
ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः
नारायणः-
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते
त्वया मतिमतां श्रेष्ठ तन्मे शंस यथातथम्
किमेतत्क्रियते कर्म फलं वाऽस्य किमिष्यते
नारदः-
त्वयैव कथितं पूर्वं दैवं कर्तव्यमित्यपि
दैवतश्च परो ज्ञेयः परमात्मा सनातनः
ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम्
तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः
ममैव पितरं प्रीतः परमेष्ठी त्वजीजनत्
अहं सङ्कल्पजस्तस्य पुत्रः प्रथमकल्पितः
यजाम्यहमतस्साधो नारायणविधौ कृते
एवं स एव भगवान्पिता माता पितामहः
इज्यते पितृयज्ञेषु याज्यो नित्यं जगत्पतिः
श्रुतिश्च परमा देव पुत्रान्हि पितरोऽयजन्
वेदश्रुतिः प्रनष्टा च पुनरध्यापिता सुतैः
ततस्ते मन्त्रदाः पुत्राः पितॄणामिति वैदिकम्
नूनं सुरैस्तद्विदितं युवयोर्भावितात्मनोः
पुत्राश्च पितरश्चैव परस्परमपूजयन्
त्रीन्पिण्डान्न्यस्य वै पित्र्यान्पूर्वं दत्त्वा कुशानिति
कथं तु पिण्डसञ्ज्ञां ते लेभिरे पितरः पुरा
नरनारायणौ-
इमां तु धरणीं पूर्वं नष्टां सागरमेखलाम्
गोविन्द उज्जहाराशु वाराहं रूपमास्थितः
स्थापयित्वा तु धरणीं स्वस्थाने पुरुषोत्तमः
जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः
प्राप्ते चाह्निककाले स मध्यन्दिनगते रवौ
दंष्ट्राविलग्नान्मृत्पिण्डान्विधूय सहसा प्रभुः
स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि
सङ्कल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः
आत्मगात्रोषु सम्भूतैस्स्नेहगर्भैस्तिलैरपि
वृषाकपिः-
प्रोक्ष्यापस्सर्वदेवेशः प्राङ्मुखः कृतवान्स्वयम्
मर्यादास्थापनार्थं च ततो वचनमुक्तवान्
अहं हि पितरस्स्रष्टुमुद्यतो लोककृत्स्वयम्
तस्य चिन्तयतस्त्वद्य पितृकार्यविधिं प्रति
दंष्ट्राभ्यां प्रविनिर्धूता मृत्पिण्डा दक्षिणां दिशम्
आश्रिता धरणीं पीड्यास्तस्मात्पितर एव ते
त्रयो मूर्तिविहीनास्तु पिण्डमूर्तिधरास्त्विमे
भवन्तु पितरो लोके मया सृष्टास्सनातनाः
पिता पितामहश्चैव तथैव प्रपितामहः
अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः
नास्ति मत्तोऽधिकः कश्चित्को वाऽप्यर्च्यो महान्भवेत्
अहमेव पिता लोके अहमेव पितामहः
पितामहपिता चैव अहमेवात्र कारणम्
नरनारायणौ-
इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः
वराहघूर्णिते विप्र दत्त्वा पिण्डान्सविस्तरम्
आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः
एतदर्थं शुभमते पितरः पिण्डसञ्ज्ञिताः
लभन्ते सततं पूजां वृषाकपिवचो यथा
ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिथींस्तथा
गाश्चैव द्विजमुख्यांश्च पितरं मातरं तथा
कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते
अन्तर्गतस्स भगवान्सर्वसत्त्वशरीरगः
समस्सर्वेषु भूतेषु ईश्वरस्सुखदुःखयोः
महान्महात्मा सर्वात्मा नारायण इति श्रुतः