शौनकः-
सौते सुमहदाख्यानं भवता परिकीर्तितम्
यच्छ्रुत्वेमे मुनिगणाः परं विस्मयमागताः
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्
न तथा फलदं सौम्य नारायणकथा यथा
विशुद्धचित्तास्संवृत्ताश्श्रुत्वेमामादितः कथाम्
नारायणाश्रयां पुण्यां सर्वपापप्रमोचनीम्
दुर्दर्शो भगवान्देवस्सर्वलोकनमस्कृतः
देवैस्सब्रह्मकैः कृत्स्नैरन्यैश्च स महर्षिभिः
दृष्टवान्नारदो यत्र देवं नारायणं हरिम्
नूनमेनद्ध्यनुमतं तस्य देवस्य सूतज
यद्दृष्टवाञ्जगन्नाथमनिरुद्धतनौ स्थितम्
यत्प्राद्रवत्पुनर्भूयो नारदो देवसत्तमौ
नरनारायणौ द्रष्टुं कारणं तद्ब्रवीहि मे
समागमे तस्य चाभ्यां यद्वृत्तं तच्च कथ्यताम्
सूतः -
तस्मिन्यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै
कर्मान्तरेषु विधिवद्वर्तमानेषु शौनक
कृष्णद्वैपायनं व्यासमृषिं वेदनिधिं प्रभुम्
परिपप्रच्छ राजेन्द्रः पितामहपितामहम्
जनमेजयः-
श्वेतद्वीपान्निवृत्तेन नारदेन सुरर्षिणा
ध्यायता भगवद्वाक्यं चेष्टितं किमतः परम्
बदर्याश्रममागम्य समागम्य च तावृषी
कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः
इदं शतसहस्राद्धि भारताख्यानविस्तरात्
आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम्
नवनीतं यथा दध्नो चन्दनं मलयाद्यथा
अरण्यकं च वेदेभ्य ओषधीभ्योऽमृतं यथा
समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम्
तपोनिधे त्वयं भोक्ता नारायणकथाश्रयः
अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम
स ईशो भगवान्देवस्सर्वभूतवरप्रदः
यमाविशन्ति कल्पान्ते सर्वे ब्रह्मादयस्सुराः
ऋषयश्च सगन्धर्वा यच्च किञ्चिच्चराचरम्
न ततोऽस्ति परं मन्ये पावनं दिवि चेह च
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्
न तथा फलदं प्रोक्तं नारायणकथा यथा
सर्वथा पावितास्स्मेह श्रुत्वेमामादितः कथाम्
हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम्
न चित्रं कृतवांस्तात यदार्यो मे धनञ्जयः
वासुदेवसहायोऽयं प्राप्तवानाहवे जयम्
न चास्य किञ्चिदप्राप्यं मन्ये लोकेष्वपि त्रिषु
त्रैलोक्यनाथो विष्णुस्तु यस्य साह्यात्सखाऽभवत्
धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाः
हितकृच्च सखा चैव एष आसीज्जनार्दनः
तपसाऽप्येष दुर्दर्शो भगवाल्ँलोकपूजितः
यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम्
तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः
न चाल्पतेजसमृषिं त्वं चैवावैषि नारदम्
दृष्टवान्यो हरिं देवं नारायणमजं विभुम्
श्वेतद्वीपं समासाद्य येन दृष्टस्स्वयं हरिः
देवप्रसादानुमतं व्यक्तं तत्तस्य दर्शनम्
यं दृष्टवांस्तदा देवमनिरूद्धतनौ स्थितम्
बदरीमाश्रमं यत्तु नारदः प्राद्रवत्तदा
नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने
श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः
बदरीमाश्रमं प्राप्य समागम्य च तावृषी
कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः
श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि
किमब्रूतां महात्मानौ नरनारायणावृषी
तदेतन्मे यथातत्त्वं सर्वं व्याख्यातुमर्हसि
सूतः-
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा
शशास शिष्यमासीनं वैशम्पायनमन्तिके
व्यासः-
तदेतत्सर्वमाचक्ष्व यन्मत्तश्श्रुतवानसि
सूतः-
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा
आचचक्षे ततस्सर्वमितिहासं पुरातनम्
वैशम्पायनः-
नमस्तस्मै भगवते व्यासायामिततेजसे
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्
नारदेन पुरा या मे गुरवे विनिवेदिता
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः
प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम्
निवृत्तो नारदो राजंस्तरसा मेरुमागमत्
हृदयेनोद्वहन्हारं यद्दत्तं परमात्मना
पश्चादस्याभवद्राजन्नात्मनस्साध्वसं महत्
यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम्
निपपात च खात्तूर्णं विशालां बदरीमनु
ततस्स ददृशे देवौ पुराणावृषिसत्तमौ
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ
तेजसाऽभ्यधिकौ सूर्यात्सर्वलोकविलोचनात्
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ
जानुपादभुजान्तौ तु पादयोश्चक्रलक्षणौ
व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ
षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ
स्वास्यौ पृथुललाटौ च सुहनू च सुनासिकौ
अर्कपत्रेण सदृशी शिरसी देवयोस्तयोः
एवं लक्षणसम्पन्नौ महापुरुषसञ्ज्ञितौ
स दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः
स्वागतेन तु भाष्यैव पृष्टश्चानामयं तदा
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ
समागतौ हि तत्रैतौ सर्वभूतनमस्कृतौ
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ
इति सञ्चिन्त्य मनसा कृत्वा चापि प्रदक्षिणम्
उपोपविविशे तत्र पीठे कुशमये शिवे
ततस्तौ तपसां वासौ यशसां तेजसामपि
ऋषी शमदमोपेतौ कृत्वा पौर्वाह्णिकं विधिम्
पश्चान्नारदमव्यग्रं पाद्यार्घ्याभ्यां समर्चितम्
विविशाते पीठिकायां कृतातिथ्याह्निकौ नृप
तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत
आज्याहुतिमहाज्वालैर्यज्ञवाटो इवाग्निभिः
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत्
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम्
श्रीभगवान्-
अपीदानीं स भगवान्परमात्मा सनातनः
श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा
नारदः-
दृष्टस्तेऽद्यैव पुरुषश्श्रीमान्विश्वरूपधरोऽव्ययः
सर्वे हि लोकास्तत्रस्थास्तथा देवास्सुरर्षिभिः
अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ
यैर्लक्षणैरुपेतस्स हरिरव्यक्तरूपधृक्
तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम्
दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः
इहैव चागतोऽस्म्यद्य विसृष्टः परमात्मना
को नु तस्य महेशस्य तेजसा तपसा श्रिया
सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम्
तेन मे कथितं पूर्वं यो मे क्षेत्रज्ञसञ्ज्ञकः
प्रादुर्भावाश्च कथिता यस्मिन् यस्मिन् भवे यथा
तत्र ये पुरुषाश्श्वेताः पञ्चेन्द्रियविवर्जिताः
प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम्
तेऽर्चयन्ति सदा देवं तैस्सार्धं रमते च सः
प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः
विश्वभुक्सर्वगो देवो बान्धवो भक्तवत्सलः
तपसा योज्य सोत्मानं श्वेतद्वीपात्परं हि यत्
तेज इत्यभिविख्यातं स्वयं भासाऽवभासितम्
शान्तिस्थस्त्रिषु लोकेषु शुद्धानां भावितात्मनाम्
एकया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः
न तत्र सूर्यस्तपति न सोमोऽभिविराजते
न वाति वायुर्देवेशस्तपश्चरति यत्र ह
वेदीमष्टतलोत्सेधां भूमावास्ते स विश्वभुक्
एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखः
साङ्गानावर्तयन्वेदांस्तपस्तेपेऽतिदारुणम्
यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत्
शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः
नागास्सुपर्णा गन्धर्वास्सिद्धा राजर्षयश्च ये
हव्यं कव्यं च तस्मिंस्तु विधिपूर्वं प्रयुञ्जते
कृत्स्नं तु तस्य देवस्य चरणावुपतिष्ठति
याः क्रियास्सम्प्रयुक्तास्स्युरेकान्तगतबुद्धिभिः
तास्सर्वाश्शिरसा देवः प्रतिगृह्णाति वै स्वयम्
न चास्त्यस्य प्रियतरः प्रतिबुद्धैर्महात्मभिः
विद्यते त्रिषु लोकेषु ततोऽस्म्येकान्तितां गतः
इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः
आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः