श्रीभगवान् -
नाम्नां निरुक्तं वक्ष्यामि शृणुष्वैकाग्रमानसः
सूर्याचन्द्रमसौ शश्वत्मत्केशैरंशुसञ्ज्ञितैः
बोधयन् स्वापयंश्चैव जगदुत्तिष्ठते पृथक्
बोधनात्स्वापनाच्चैव जगतो हर्षणं भवेत्
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन
हृषीकेशोऽहमीशानो वरदो लोकभावनः
इलोपहूतं यागेषु हरे भागं क्रतुष्वहम्
वर्णो मे हरितश्श्रेष्ठस्तस्माद्धरिरहं स्मृतः
धामसारो हि लोकानामृतं चैवावधारितम्
ऋतधामा ततो विप्रैस्सद्यश्चाहं प्रकीर्तितः
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम्
गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः
शिपिविष्टेति यस्योक्त्या हीनरोमा शिपिर्भवेत्
तेनाविष्टं हि यत्कर्म शिपिविष्ट इति स्मृतः
यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान्
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम्
स्तुत्वा मां शिपिविष्टेति यास्को हृषिरुदारधीः
मत्प्रसादादथो नष्टं निरुक्तमभिजग्मिवान्
न हि जातो न जायेयं न जनिष्ये कदाचन
क्षेत्रज्ञस्सर्वभूतानां तस्मादहमजस्स्मृतः
नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कथञ्चन
जाता ब्रह्मस्वरूपा मे सत्या देवी सरस्वती
सच्चासच्चैव कौन्तेय मया वेशितमात्मनि
पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः
सत्वान्न च्युतपूर्वोऽहं सत्यं वै वृद्धिमत्कृतम्
जन्म हित्वाऽभवेत्सत्त्वं पूर्वकं मे नरोत्तम
निराशीःकर्मयुक्तञ्च सात्वतं चाप्यकल्पयम्
सात्वतज्ञानदृष्टोऽहं सत्वतस्सात्त्वते पथे
कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो हलः
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन
मया संश्लेषिता भूमिर्व्योम्ना तच्चापि वायुना
वायुश्च तेजसा सार्धं वैकुण्ठं तत्त्वतो मम
निर्वाणं परमं विद्धि धर्मोऽसौ पर उच्यते
सत्यादच्युतपूर्वोऽहमच्युतस्तेन कर्मणा
पृथिवीनभसी चोभे विश्रुते विश्वलौकिके
तयोस्सन्धारणार्थाय प्रागधः खं स्वमञ्जसा
निरुक्तवेदविदुषो ह्येते शब्दार्थचिन्तकाः
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्मृतः
अधो न क्षीयते यस्माद्वदन्त्यन्ये ह्यधोक्षजम्
शब्द एवं पदैरेष व्याहृतः परमर्षिभिः
नान्योऽप्यधोक्षजो लोके ऋते नारायणं प्रभुम्
घृतं ममार्चिषो लोके जनानां प्राणधारणम्
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः
त्रयो हि धातवः ख्याताः कर्मजा इति मे स्मृताः
पित्तं वायुश्च श्लेष्मा च एष सङ्घात उच्यते
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते
आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत
एवं वेदविदाख्यातं विदुर्मां वृषमुत्तमम्
कपिर्वराहश्श्रेष्ठश्च धर्मश्च वृष उच्यते
त्समाद्वृषाकपिं प्राह काश्यपो मां प्रजापतिः
न चादिर्न मध्यं न चान्तं कदाचिद्व्यजानन्द्विजा मे सुरास्सासुराश्च
अनादिर्ह्यमध्यस्तथा चाप्यनन्तः प्रगीतोऽहमीशो विभुर्लोकसाक्षी
शुचीनि श्रवणीयानि शृणोमीह धनञ्जय
न च पापं तु गृह्णामि ततोऽहं वै शुचिश्रवाः
एकशृङ्गः पुरा भूत्वा वराहो नन्दिवर्धनः
इमामुपावहं भूमिमेकशृङ्गस्ततो ह्यहम्
तथैवाहं त्रिककुदो वाराहं रूपमास्थितः
त्रिककुत्त्वेन विख्यातश्शरीरस्य प्रमापणात्
विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत्
विद्यासहायवन्तं मामादित्यस्थं सनातनम्
कपिलं प्राहुराचार्यास्साङ्ख्या निश्चितनिश्चयाः
हिरण्यगर्भो द्युतिमान् एष यश्च्छन्दसि स्तुतः
योगैस्सम्पूज्यते नित्यं स एवाहं विभुस्स्मृतः
एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते
सहस्रशाखं यत्साम साम वेदविदो जनाः
षट्पञ्चाशत्तथाष्टौ च सप्तत्रिंशत्तथैव च
यस्मिञ्शाखा यजुर्वेदे सोहमाध्वर्यवे स्मृतः
पञ्चकल्पमथर्वाणं कृत्याभिः परिजृम्भणम्
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा
शाखाभेदाश्च ये केचिद्विद्याश्शाखासु गीतयः
स्वरवर्णसमुच्चारास्सर्वांस्तान्विद्धि मत्कृतान्
यत्तद्धयशिरः पार्थ समुदेति वरप्रदम्
सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित्
रामादेशितमार्गेण मत्प्रसादान्महात्मना
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतस्सनातनात्
बाहूल्यगोत्रस्स बभौ प्रथमः क्रमपारगः
नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम्
क्रमं प्रणीय शिक्षां च प्रणयित्वा स बाहुलम्
पुण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान्
जानूमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः
सप्तजातिषु मुख्यत्वं द्योगिनां स्वपदं गतः
पुराऽहमात्मजः पार्थ प्रठितः कारणान्तरे
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजस्स्मृतः
नरनारायणौ पूर्वं तपस्तेपतुरुत्तमम्
धर्मयानं समारूढौ पर्वते गन्धमादने
तत्कालसमयं चैव दक्षयज्ञो बभूव ह
न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत
ततस्स देवीवचनाद्दक्षयज्ञमुपाद्रवत्
ससर्ज भूतं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः
तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम्
आवयोस्सहसाऽगच्छद्बदर्याश्रममन्तिकात्
वेगेन महता पार्थ पतन्नारायणोरसि
ततस्ते तेजसाऽऽविष्टाः केशा नारायणस्य च
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान्
तच्च शूलं विनिर्धूतं हुङ्कारेण महात्मना
जगाम शङ्करकरं नारायणसमाहतम्
अथ रुद्र उपाधावत्तावृषी तपसाऽन्वितौ
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना
नारायणस्स विश्वात्मा ततो मे शितिकण्ठता
अथ रुद्रविघातार्थमिषीकां जगृहे ततः
मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान्
क्षिपंश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा
ततोऽहं खण्डपरशुस्स्मृतः परशुखण्डनात्
नामानि चैव गुह्यानि निरुक्तानि च भारत
ऋषिभिः कथितानीह यानि सङ्कीर्तितानि वै
एवं बहुविधै रूपैश्चरामीह वसुन्धराम्
स्वर्लोकं ब्रह्मलोकञ्च भूलोकं च सनातनम्
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम्
यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थितः
तं रुद्रं विद्धि कौन्तेय देवदेवं पिनाकिनम्
कालस्स एवाभिहितः क्रोधजेति मया तव
निहतांस्तेन वै पूर्वं हतवानसि वै रिपून्
अप्रमेयात्मप्रभावस्त्वं देवदेवमुमापतिम्
भजस्व नित्यं प्रयतो विश्वेशं परमव्ययम्