शौनकः-
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः
यज्ञधारी च सततं वेदवेदाङ्गकृत्तथा
निवृत्तिं चास्थितो धर्मं मोक्षं भागवतः प्रभुः
प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः
कथं निवृत्तिधर्मेषु कृताऽभ्यावृत्तिबुद्धयः
एतं नस्संशयं छिन्धि सौते गुह्यं सनातनम्
त्वया नारायणाच्छ्रुत्वा त्राता वै धर्मसंहिताः
सूतः-
जनमेजयेन यत्पृष्टश्शिष्यो व्यासस्य धीमतः
तत्तेऽहं कथयिष्यामि पौराणं शौनकोत्तरम्
श्रुत्वा माहात्म्यमेतस्य देहिनां परमात्मनः
जनमेजयो महाप्राज्ञो वैशम्पायनमब्रवीत्
जनमेजयः-
इमे सब्रह्यका लोकास्ससुरासुरमानवाः
क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः
मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम्
ये तु मुक्ता भवन्तीह पुण्यपापविवर्जिताः
ते सहस्रार्चिषं देवं प्रविशन्तीह शुश्रुम
अहो हि दुरनुष्ठेयो मोक्षधर्मस्सनातनः
यं हित्वा देवतास्सर्वा हव्यकव्यभुजोऽभवन्
किञ्च ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः
सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च
आकाशं जगती चैव ये च शेषा दिवौकसः
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम्
यतस्तन्नास्थिता धर्मं ध्रुवमक्षरमव्ययम्
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः
एष कालपरीणामो महान्दोषः क्रियावताम्
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम्
छिन्धीतिहासकथनात्परं कौतूहलं हि मे
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज
किमर्थं चाध्वरे ब्रह्मन्यजन्तेऽपि दिवौकसः
ये भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम
ते यजन्तो महायज्ञैः कस्य भागं ददाति वै
वैशम्पायनः-
अहो गूढतमः प्रश्नस्त्वया पृष्टो नराधिप
नातप्ततपसा ह्येष नावेदविदुषा तथा
नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः
कृष्णद्वैपायनो व्यासो वेदव्यासो महामुनिः
सुमन्तुर्जैमिनिश्चैव पैलवश्च दृढव्रतः
अहं चतुर्थश्शिष्यो वै पञ्चमश्च शुकस्स्मृतः
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान्
शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान्
वेदानध्यापयामास महाभारतपञ्चमान्
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते
तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत्
एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः
ततश्श्रुतो मया चापि तवाख्येयो हि भारत
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः
पराशरसुतः श्रीमान्व्यासो वाक्यमथाब्रवीत्
व्यासः-
मया हि सुमहत्तप्तं तपः परमदारुणम्
तथा भूतभविष्यच्च जानीयामिति सत्तमाः
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च
नारायणप्रसादेन क्षीरोदस्यानुकूलतः
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम्
तच्छृणुध्वं यथान्यायं वक्ष्ये संशयमुत्तमम्
यथावृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा
परमात्मेति यं प्राहुस्साङ्ख्ययोगविदो जनाः
महापुरुषसञ्ज्ञां स लभते स्वेन कर्मणा
तस्मात्प्रसूतमव्यक्तं प्रधानं तं विदुर्बुधाः
अव्यक्ते व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात्
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते
योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम्
योऽहङ्कार इति प्रोक्तस्सर्वतेजोमयो हि सः
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
अहङ्कारात्प्रसूतानि पञ्च भूतानि भागतः
महाभूतानि सृष्ट्वा च तद्गुणान्निर्ममे पुनः
भूतेभ्यश्चैव निष्पन्नानष्टौ मूर्तिमतश्शृणु
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः
वसिष्ठश्च महात्मा वै मनुस्स्वायम्भुवस्तथा
ज्ञेयाः प्रकृतयोऽष्टौ च यासु लोकाः प्रतिष्ठिताः
वेदान्वेदाङ्गसंयुक्तान्यज्ञयज्ञाङ्गसंयुतान्
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः
अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत्
रुद्रो रोषात्मको जातो दशान्यानसृजस्त्वयम्
एकादशैते रुद्रास्तु विकाराः पुरुषास्स्मृताः
ते रुद्राः प्राकृताश्चैव सर्वे चैव सुरर्षयः
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः
रुद्रादयः-
वयं सृष्टास्तु भगवंस्त्वया च प्रभविष्णुना
येन यस्मिन्नधीकारे वेदितव्यः पितामह
परिपाल्यः कथं तेन साहङ्कारेण कर्तृणा
प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः
योऽसौ त्वया हि निर्दिष्ट अधिकारोऽर्थचिन्तकः
व्यासः-
एवमुक्तो महादेवो देवस्तानिदमब्रवीत्
ब्रह्मा-
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः
ममाप्येषा समुत्पन्ना चिन्ता या भवतामिह
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः
कथं बलक्षयो न स्याद्युष्माकं स्वात्मनिश्चये
इतस्सर्वे हि गच्छामश्शरणं लोकसाक्षिणम्
महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम्
व्यासः-
ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा
क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः
ते तपस्समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम्
स महानियमो नाम तपश्चर्या सुदारुणा
ऊर्ध्वदृष्टीबाहवश्च एकाग्रमनसोऽभवन्
एकपादस्थितास्सम्यक्प्रादुर्भूतास्समाहिताः
दिव्यवर्षसहस्रान्ते तपस्तप्त्वा सुदुष्करम्
शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम्
वागुवाच-
भो भोस्सब्रह्यका देवा ऋषयश्च तपोधनाः
स्वागतेनाद्य वस्सर्वाञ्श्रावये वाक्यमुत्तमम्
विज्ञातं वो मया कार्यं तच्च लोकहितं महत्
प्रवृत्तियुक्तं वक्तव्यं युष्मत्प्राणोपबृंहणम्
सुतप्तं वस्तपो देवा ममाराधनकाम्यया
भोक्ष्यथास्य महासत्वास्तपसः फलमुत्तमम्
एष ब्रह्मा लोकगुरुस्सर्वलोकपितामहः
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः
सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः
तत्र श्रेयोऽभिधास्यामि यथाऽधीकारमीश्वराः
व्यासः-
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः
ततस्ते विबुधास्सर्वे ब्रह्मा ते च महर्षयः
वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन्
तस्मिन्यज्ञे तदा ब्रह्मा स्वयं भागमकल्पयत्
देवा देवर्षयश्चैव स्वंयं भागमकल्पयम्
ते कार्तयुगधर्माणो भागाः परमसत्कृताः
प्रापुरादित्यवर्णं तं पुरुषं तमसः परम्
बृहन्तं देवमीशानं परमं वरदं प्रभुम्
ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान्
अशरीरो बभाषेदं वाक्यं स्वस्थो महेश्वरः
श्रीभगवान्-
येन यः कल्पितो भागस्स तथा मामुपागतः
प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम्
एतद्वै लक्षणं देवा मत्प्रसादसमुद्भवम्
यूयं यज्ञैरिज्यमानास्समाप्तवरदक्षिणैः
युगे युगे भविष्यध्वं प्रवृत्तिफलभागिनः
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः
कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान्
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ
स तथा यज्ञभागो वै वेदसूत्रे मया कृतः
यूयं लोकान्भावयध्वं यज्ञभागैश्च योजिताः
सर्वार्थचिन्तका लोके मयाऽधीकारनिर्मिताः
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः
ताभिराप्यायितबला लोकान्वै धारयिष्यथ
यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः
मां ततो भावयिष्यध्वमेषा वो भावना मम
इत्यर्थं भावना देवा यज्ञाश्चौषधिभिस्सह
एभिस्सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ
निर्माणमद्य युष्माकं प्रवृत्तिगुणकल्पितम्
मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिह
चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः
वसिष्ठ इति सप्तैते मनसा निर्मिता हि वै
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः
प्रवृत्तिधर्मिणश्चैव प्राजापत्ये च कल्पिताः
अयं क्रियावतां बन्धुर्व्यक्तीभूतस्सनातनः
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः
सनातनश्शिलाकश्च सनकश्च सनन्दनः
सनत्कुमारः कपिलस्सप्तमश्च सनातनः
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणस्सुताः
स्वयमागतविज्ञाना निवृत्तिं धर्ममास्थिताः
एते योगविदो मुख्यास्साङ्ख्यधर्मविदस्तथा
आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः
यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणात्मकात्
तस्मात्परतरो यस्तु प्रकृतिं सोऽश्नुतेऽवशः
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः
एष माता पिता चैव युष्माकं च पितामहः
मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः
अस्य चैवानुजो रुद्रो ललाटाद्यस्समुत्थितः
ब्रह्मानुशिष्टो भविता सर्वसत्त्ववरप्रदः
गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि
प्रवर्तन्तां क्रियास्सर्वास्सर्वलोकेषु मा चिरम्
प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस्तथा
परिनिर्मितकालानि आयूंषि च सुरोत्तमाः
इदं कृतयुगं नाम कालश्रेष्ठं प्रवर्तते
अहिंस्या यत्र पशवो युगेऽस्मिन्नैतदन्यथा
चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति
प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे
यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति
द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति
तत्र वध्यन्ति पशवो यूपेष्वत्र निबध्यते
ततस्तिष्येऽथ सम्प्राप्ते युगे कलिपुरस्कृते
एकपादस्थितो धर्मो यत्र कुत्र भविष्यति
देवाः-
एकपादस्थिते धर्मे यत्र क्वचन गामिनि
कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः
श्रीभगवान्-
गुरवो यत्र पूज्यन्ते साधुवृत्तास्समन्विताः
वस्तव्यं तत्र युष्माभिर्यत्र धर्मो न हीयते
यत्र वेदाश्च यज्ञाश्च तपस्सत्यं दमस्तथा
अहिंसा धर्मसंयुक्ताः प्रचरेयुस्सुरोत्तमाः
स वै देशो हि वस्तव्यो मा वोऽधर्मः पदा स्पृशेत्
व्यासः-
तेऽनुशिष्टा भगवता देवास्सर्षिगणास्तथा
नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान्
गतेषु त्रिदिवौकस्सु ब्रह्मैकः पर्यवस्थितः
दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम्
तं देवो दर्शयामास कृत्वा हयशिरो महत्
साङ्गानावर्तयन्वेदान्कमण्डलुत्रिदण्डधृक्
ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम्
लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः
स परिष्वज्य देवेन वचनं श्रावितस्तदा
श्रीभगवान्-
लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि
पिता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः
त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा
यदा च सुरकार्यं ते अविषह्यं भविष्यति
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदैशिकः
व्यासः-
एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत
तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः
एवमेष महाभाग पद्मनाभस्सनातनः
यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा
निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम्
प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम्
स आदिस्स मध्यस्स चान्तः प्रजानां स धाता स धेयं स कर्ता प्रजानाम्
युगान्ते प्रसुप्तः सुसङ्क्षिप्य लोकान्युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज
तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम्
चतुर्वेदोद्गताभिस्तमृग्भिस्समभितुष्टुवे
महाभूताधिपतये रुद्राणां पतये तथा
आदित्यपतये चैव वसूनां पतये तथा
अश्विभ्यां पतये चैव मरुतां पतये तथा
देवयज्ञाधिपतये वेदाङ्गपतयेऽपि च
सुतामुपासिने नित्यं हरये मुञ्जकेशिने
शान्ताय सर्वभूतानां मोक्षधर्मानुभाषिणे
तपसां तेजसां चैव पतये यशसोऽपि च
प्राणस्य पतये नित्यं सरितां पतये तथा
कपर्दिने वराहाय एकशृङ्गाय धीमते
विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा
सूक्ष्माय ज्ञानदृश्याय अजरायाक्षयाय च
एष देवस्सञ्चरति सर्वत्र गतिरव्ययः
एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा
कथितं तच्च वै सर्वं मया पृष्टेन तत्त्वतः
क्रियतां तद्वचश्शिष्यास्सेव्यतां हरिरीश्वरः
गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि
वैशम्पायनः-
वेदव्यासेन गुरुणा एवमुक्तास्ततो वयम्
सर्वे शिष्याश्शुकश्चास्य सुतः परमधर्मवित्
स चास्माकमुपाध्यायस्सहास्माभिर्विशां पते
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः
यश्चैनं शृणुयान्नित्यं यश्चैनं परिकीर्तयेत्
नमो भगवते कृत्वा समाहितमना नरः
भवत्यरोगो द्युतिमान्बलरूपसमन्वितः
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्
कामकामी लभेत्कामं दीर्घं चायुरवाप्नुयात्
ब्राह्मणस्सर्ववेदी स्यात्क्षत्रियो विजयी भवेत्
वैश्यो विपुललाभस्स्याच्छूद्रस्सुखमवाप्नुयात्
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम्
लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम्
वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत्
क्षेमेण गच्छेदध्वानमिदं यः पठतेऽध्वनि
यो यं कामं कामयते स तमाप्नोति यद्ध्रुवम्
इदं महर्षेर्वचनं विपश्चित महात्मनः पुरुषवरस्य कीर्तितम्
समागमं चर्षिदिवौकसामिमं निशम्य भक्तो लभते सुखं महत्