भीष्मः-
नारदस्त्वथ प्रपच्छ भगवन्तं जनार्दनम्
केषु केषु च भावेषु द्रष्टव्यो महाप्रभो
श्रीभगवान्
शृणु नारद तत्वेन प्रादुर्भावान्महामुने
मत्स्यः कूर्मो वराहश्च नरसिंहश्च वामनः
रामो रामश्च रामश्च कृष्णः कल्की च ते दश
पूर्वं मीनो भविष्यामि स्थापयिष्याम्यहं प्रजाः
लोकान्वेदान् धरिष्यामि मज्जमानान्महार्णवे
द्वितीयं कूर्मरूपं मे हेमकूटनिभं सुत
मन्दरं धारयिष्यामि अमृतार्थे द्विजोत्तम
मग्नां महार्णवे घोरे भाराक्रान्तामिमां पुनः
ततो बलादहं पृथ्वीं सर्वभूतहिताय वै
सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम्
धारयिष्यामि वसुधां वाराहं रूपमास्थितः
सुरकार्येण वै तेन यज्ञघ्नो दितिनन्दनः
विरोचनस्य बलवान्बलिः पुत्रो महासुरः
अवध्यस्सर्वलोकानां सदेवासुररक्षसाम्
भविष्यति स शक्रं च स्वराज्याच्चालयिष्यति
त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ
अदित्यां वामनः पुत्रस्सम्भविष्यामि कश्यपान्
जटी गत्वा यज्ञसदस्स्तूयमानो द्विजोत्तम
यज्ञस्तवं करिष्यामि श्रुत्वा प्रीतो भवेद्बलिः
किमिच्छसि वटो ब्रूहीत्युक्तो याचे महद्वरम्
दीयतां त्रिपदीमात्रमिति याचे महासुरम्
स दद्यान्मयि सम्प्रीतः प्रतिषिद्धश्च मन्त्रिभिः
यावज्जलं हस्तगतं त्रिभिर्विक्रमणैर्वृतम्
ततो राज्यं प्रदास्यामि शक्रायामिततेजसे
देवतास्स्थापयिष्यामि स्वेषु स्थानेषु नारद
बलिं चैव करिष्यामि पातालतलवासिनम्
ततस्त्रेतायुगे प्राप्ते द्वाविंशद्युग्पर्यये
भविष्यामि ऋषिस्तत्र जमद्निसुतो बली
बाहुवीर्ययुतो रामो वीरो भृगुकुलोद्वहः
क्षत्रं चोत्सादयिष्यामि प्रवृद्धबलवाहनम्
सन्धौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च
रामो दाशरथिः पूर्वं भविष्यामि जगत्पतिः
त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा
प्राप्स्येते वानरत्वं हि प्रजापतिसुतावृषी
तयोर्ये त्वन्वनौ जाता भविष्यन्ति वनौकसः
महाबला महावीर्याश्शक्रतुल्यपराक्रमाः
ते सहाया भविष्यन्ति सुरकार्ये मम द्विज
ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम्
हनिष्ये रावणं सङ्ख्ये सगणं लोककण्टकम्
विभीषणाय दास्यामि राज्यं तस्य यथाक्रमम्
कलिद्वापरयोस्सन्धावष्टाविंशे चतुर्युगे
प्रादुर्भावं करिष्यामि भूयो वृष्णिकुलोद्वहः
मधुरायां कंसहेतोर्वासुदेवेति नामतः
तृतीयो राम इत्येव वसुदेवसुतो बली
तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान्
कुशस्थलीं करिष्यामि हत्वा वै दानवोत्तमान्
कृकलासं नृगं चैव मोचयिष्ये च वै पुनः
तत्र पौत्रनिमित्तेन गत्वा वै शोणितं पुरम्
बाणस्य च पुरं गत्वा करिष्ये कदनं महत्
शङ्करं समहासेनं बाणप्रियहिते रतम्
पराजेष्याम्यथात्युग्रौ देवौ लोकनमस्कृतौ
ततस्सुतं बलेर्जित्वा बाणं बाहुसहस्रकम्
विनाशयिष्यामि ततस्सर्वान्सौभनिवासिनः
कंसं केशिं तथाकालमरिष्टं च महासुरम्
चाणूरं च महावीर्यं मुष्टिकं च महाबलम्
प्रलम्बं धेनुकं चैव अरिष्टं वृषरूपिणम्
कालीयं च वशे कृत्वा यमुनाया महाह्रदे
गोकुलेषु ततः पश्चाद्गवार्थे तु महागिरिम्
सप्तरात्रं धरिष्यामि वर्षमाणे तु वासवे
अपक्रान्ते ततो वर्षे गिरिमूर्धन्यवस्थितः
इन्द्रेण सह संवादं करिष्यामि तदा द्विज
यः कालयवनः ख्यातो यतस्तेजोऽभिसंवृतः
भविष्यति वधस्तस्य मत्त एव द्विजोत्तम
जरासन्धश्च बलवान्सर्वराजविरोधकः
भविष्यत्यसुरस्स्फीतो भूमिपालो गिरिव्रजे
मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति
दुर्योधनानुरागेण युधिष्ठिरगुणेन च
समागतेषु बलिषु पृथिव्यां सर्वराजसु
वासविस्सुसहायो वै मम श्वेतो भविष्यति
एवं लोका वदिष्यन्ति नरनारायणावृषी
उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ
शस्त्रैर्निपतितास्सर्वे नृपा यान्ति यमक्षयम्
कृत्वा भारावतरणं वसुधाया यथेप्सितम्
राज्यं प्रशास्ति हि पुनः कुन्तीपुत्रो युधिष्ठिरः
सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम
करिष्ये प्रलयं घोरमात्मज्ञानातिवधासंश्रयम्
कर्माण्यमेयरूपाणि चतुर्मूर्तिधरो ह्यहम्
कृत्वा लोकान्गमिष्यामि स्वानेव ब्रह्मसत्कृतान्
ततः कलियुगस्यादौ भूत्वा राजतरुं श्रितः
भाषया मागधेनैव धर्मराजगृहे वसन्
काषायवस्त्रसंवीतो मुण्डितश्शुक्लदन्तवान्
शुद्धोदनसुतो बुद्धो मोहयिष्यामि मानवान्
शूद्राश्श्राद्धेषु भुज्यन्ते मयि बुद्धत्वमागते
भविष्यन्ति नरास्सर्वे मुण्डाः काषायसंवृताः
अनध्याया भविष्यन्ति विप्राश्चाग्निविवर्जिताः
अग्निहोत्रा विनश्यन्ति गुरुपूजावसीदति
न शृण्वन्ति पितुः पुत्रा न स्नुषा नैव भ्रातरः
न मित्रा न कलत्रा वा वर्तन्ते ह्यधरोत्तरम्
हाहाभूतं जगत्सर्वं श्रुतिस्मृतिविवर्जितम्
भविष्यति कलौ नग्नो ह्यशुद्धो वर्णसङ्करः
तेषां सकाशाद्धर्मज्ञा देवब्रह्मविदो नराः
भविष्यन्ति ह्यशुद्धाश्च न्यायच्छलविभाषिणः
ये नग्नधर्मशरोतारस्ते समाः पापनिश्चयैः
तस्मादेता न सम्भाष्या न स्प्रष्टव्या हितार्थिभिः
उपवासत्रयं कुर्यात्तत्संसर्गविशुद्धये
ततः कलियुगस्यान्ते महात्मा ब्राह्मणो हरिः
कल्किर्विष्णुयशःपुत्रो याज्ञ्यवल्क्यः पुरोहितः
संहता ब्राह्मणास्सर्वे तैरहं सहितः पुनः
म्लिच्छानुत्सादयिष्यामि पाषण्डांश्चैव सर्वशः
पाषण्डिषट्कान्हत्वा वै तत्र तैः प्रलये ततः
अहं पश्चाद्भविष्यामि यज्ञेषु निरतस्सदा
हंसो हयशिराश्चैव प्रादुर्भावो द्विजोत्तम
यदा चैव श्रुतिर्नष्टा तदा प्रत्याहृता मया
सवेदास्सश्रुतीकाश्च कृताः पूर्वं कृते युगे
अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित्
अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः
लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः
न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम्
यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना
एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया
पुराणं च भविष्यं च सरहस्यं च सत्तम
भीष्मः-
एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः
एतावदुक्त्वा वचनं तत्रैवान्तरधीयत
नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम्
नरनारायणौ द्रष्टुं प्राद्रवद्बदराश्रमम्
इदं महोपनिषदं चतुर्वेदसमन्वितम्
साङ्ख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम्
नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः
ब्रह्मणस्सदने तात यथादृष्टं यथाश्रुतम्
श्रुत्वा ब्रह्ममुखाद्रुद्रस्स देव्यै कथयत्पुनः
युधिष्ठिरः
एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः
किं ब्रह्मा न विजानीते यतश्शुश्राव नारदात्
पितामहस्तु भगवांस्तस्माद्देवादनन्तरः
कथं स न विजानीयात्प्रभावममितौजसः
भीष्मः-
महाकल्पसहस्राणि महाकल्पशतानि च
समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह
सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः
जानाति देवप्रवरं भूयस्सर्वाधिकं नृप
ये त्वन्ये ब्रह्मसदने सिद्धसङ्घास्समाहिताः
तेभ्यस्स श्रावयामास पुराणं वेदसम्मितम्
तेषां सकाशात् सूर्यश्च श्रुत्वा वै भावितात्मनाम्
आत्मानुगान्स्थितान्राजञ्श्रावयामास तत्वतः
अष्टाशीतिसहस्राणि मुनीनां भावितात्मनाम्
सूर्यस्य तपतो लोकान्निर्मिता ये पुरस्सराः
तेषामकथयत्सूर्यस्सर्वेषां भावितात्मनाम्
सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः
मेरौ समागता देवाश्श्राविता वै तदनुत्तमम्
देवानां तु सकाशाद्वै ततश्श्रुत्वाऽसितो द्विजः
श्रावयामास राजेन्द्र पितॄन्वै मुनिसत्तमः
एवं परम्पराख्यातमिदं शन्तनुमाश्रितम्
मम चापि पिता तात कथयामास शन्तनुः
ततो मयैतच्छ्रुत्वा च कीर्तितं तव भारत
असुरैर्मुनिभिश्चापि पुराणं यैरिदं श्रुतम्
सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः
आख्यातमिदमार्षेयं पारम्पर्यागतं नृषु
नावासुदेवभक्ताय त्वयाऽऽख्येयं कथञ्चन
आख्यानमुत्तमं चेदं श्रावयेद्यस्सदा नृप
तदैव मनुजो भक्तश्शुचिर्भूत्वा समाहितः
प्राप्नुयादचिराद्राजन्विष्णुलोकं सनातम्
मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि च
यानि श्रुतानि धर्माणि तेषां सारोऽयमुद्धृतः
सुरासुरैर्यथा राजन्निर्मथ्यामृतमुत्तमम्
एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम्
यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः
एकान्तभावोपगत एकान्ते सुसमाहितः
प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः
मुच्येतासौ तथा रोगाच्छ्रुत्वेमामादितः कथाम्
जिज्ञासुर्लभते भक्तिं भक्तो मुक्तगतिं लभेत्
सुरैर्वा मनिभिश्चैव पुराणं यैरिदं श्रुतम्
ते सर्वे परमात्मानं पूजयन्ति पुनः पुनः
त्वया हि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः
स हि माता पिता चैव कृत्स्नस्य जगतोऽभवत्
ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः
युधिष्ठिर महाबाहो महाबुद्धिर्जनार्दनः
एतत्ते सर्वमाख्यातं नारदोक्तं मयेरितम्
पारम्पर्यागतं ह्येतत्पित्रा मे कथितं पुरा
वैशम्पायनः-
श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय
भ्रातरश्चास्य ते सर्वे नारायणपरा भवन्
जितं हि भवता चैव पुरुषेणेति भारत
नित्यं जप्यपरा भूत्वा सारस्वतमुदीरयन्
यो ह्यस्माकं नरश्रेष्ठः कृष्णद्वैपायनः प्रभुः
स जगौ परमं जप्यं नारायणमुदीरयन्
गत्वाऽन्तरिक्षात्सततं क्षीरोदममृतालयम्
पूजयित्वाऽथ देवेशं पुनरायात्स्वमाश्रमम्
सूतः-
एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम्
जनमेजयेन तच्छ्रुत्वा कृतं सम्यग्यथाविधि
यूयं हि तप्ततपसस्सर्वे सुचरितव्रताः
सर्वे वेदविदो मुख्या नैमिशारण्यवासिनः
शौनकस्य महासत्रं प्राप्तास्सर्वे द्विजोत्तमाः
यजध्वं सुहुतैर्यज्ञैरात्मानं परमेश्वरम्