भीष्मः-
एवं स्तुतस्स भगवान् गुह्यैस्स्तथ्यैश्च नामभिः
भगवान्विश्वसृक्सिंहस्सर्वमूर्तिमयः प्रभुः
तं मुनिं दर्शयामास नारदं विश्वरूपदृक्
किञ्चिच्चन्द्रविशेषात्मा किञ्चिच्चन्द्रविशेषवान्
किञ्चित्कृशानुवर्णश्च किञ्चिद्धिष्ण्याकृतिप्रभः
शुकवर्णस्त्रिवर्णश्च किञ्चित्स्फटिकसन्निभः
नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित्
प्रवालाङ्कुरवर्णश्च श्वेतवर्णः क्वचिद्बभौ
क्वचित्सुवर्णवर्णाभो वैडूर्यसदृशच्छविः
नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित्
मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित्
एतान्वर्णान्बहुधान्रूपैर्बिभ्रत्सनातनः
सहस्रनयनश्श्रीमाञ्छतशीर्षस्सहस्रपात्
सहस्रोदरबाहुश्च अव्यक्त इव च क्वचित्
ओङ्कारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम्
शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदोड्गतं वसु
आरण्यकं जगौ देवो हरिर्नारायणो वशी
वेदिं कमण्डलुं दर्भान्मणिरूपानथो ध्रुवान्
अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम्
धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा
तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः
आहूतः प्रयतो भूत्वा ववन्दे परमेश्वरम्
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः
श्रीभगवान्-
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
इमं देशमनुप्राप्ता मम दर्शनलालसाः
न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन
ऋते ह्येकान्तिनश्श्रेष्ठात्त्वं चैवैकान्तिको मतः
ममैतास्तनवश्श्रेष्ठा जाता धर्मभृतो द्विज
तास्त्वं भजस्व सततं साधयस्व यथागतम्
वरं वृणीष्व विप्रेन्द्र मत्तस्त्वं यदिहेच्छसि
प्रसन्नो हि तवात्मानं विश्वमूर्तिरिहाव्ययम्
नारदः-
अद्य मे तपसो देव यमस्य नियमस्य च
सद्यः फलमवाप्तं वै दृष्टोऽसि भगवान्मया
वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः
भगवन्विश्वदृक् सिंहस्सर्वमूर्तिर्महान्प्रभुः
भीष्मः-
एवं सन्दर्शयित्वा तु नारदं परमेष्ठिजम्
उवाच वचनं भूयो गच्छ नारद मा चिरम्
इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः
एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति
सिद्धाश्चैते महाभागा नराशचैकान्तिनोऽभवन्
तमोरजोभ्यां निर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम्
न दृश्यश्चक्षुषा योऽसौ न स्पृश्यस्स्पर्शनेन च
न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः
सत्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै
यश्च सर्वगतस्साक्षी लोकस्यात्मेति कथ्यते
भूतग्रामशरीरेषु नश्यत्सु न विनश्यति
अजो नित्यश्शाश्वतश्च निर्गुणो निष्कलस्तथा
द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो़ऽयं पञ्चविंशकः
पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते
यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः
स वासुदेवो विज्ञेयः परमात्मा सनातनः
पश्य देवस्य माहात्म्यं महिमानं च नारद
शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन
सत्वं रजस्तमश्चेति गुणानेतान्प्रचक्षते
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च
एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते तैर्न स भुज्यते
निर्गुणो गुणभृच्चैव गुणस्रष्टा गुणाधिकः
जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते
खे वायुः प्रलयं याति मनस्याकाश एव च
मनो हि परमं भूतं तदव्यक्ते प्रलीयते
अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते
नास्ति तस्मात्परं भूतं पुरुषाद्वै सनातनात्
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्
ऋते मदेकं पुरुषं वासुदेवं सनातनम्
सर्वभूतात्मभूतो हि वासुदेवो महाबलः
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
ते समेत्य महात्मानश्शरीरमिति सञ्ज्ञिताः
तदाविशत्यन्तरात्मा ह्यदृश्यो लघुविक्रमः
उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः
स जीवः परिसङ्ख्यातश्शेषः सङ्कर्षणः प्रभुः
तस्मात्सनत्कुमारत्वं लभते यस्स्वकर्मणा
यस्मिंश्च सर्वभूतानि प्रलयं यान्ति सङ्क्षये
स मनस्सर्वभूतानां प्रद्युम्नः परिपठ्यते
तस्मात्प्रसूतो यः कर्ता कारणं कार्यमेव च
सोऽनिरुद्धो स ईशानो व्यक्तिस्सात्त्वतकर्मसु
तस्मात्सर्वं सम्भवति जगत्स्थावरजङ्गमम्
यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः
श्रेयस्स एव राजेन्द्र जीवस्सङ्कर्षणः प्रभुः
सङ्कर्षणाच्च प्रद्युम्नो मनोभूतस्स उच्यते
प्रद्युम्नाद्योऽनिरूद्धस्तु सोऽहङ्कारो महेश्वरः
मत्तस्सर्वं सम्भवति जगत्स्थावरजङ्गमम्
अक्षरं च क्षरं चैव सच्चासच्चैव नारद
मां प्रविश्य भवन्तीह भक्ता मुक्तास्तु ये मम
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः
निर्गुणो निष्कलश्चैव निष्पन्दो निष्परिग्रहः
एतत्त्वया न विज्ञेयं रूपं वा नैव दृश्यते
इच्छन्मूर्तिरपश्यौऽयमीशोऽयं जगतो गुरुः
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद
सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि
मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम्
सिद्धा ह्येते महाभागा नरा ह्येकान्तिनोऽभवन्
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने
अहं कर्ता च कार्यं च कारणं चापि नारद
मत्तस्सर्वं सम्भवति जगत्स्थावरजङ्गमम्
न दृश्यश्चक्षुषा योऽसौ न स्पृश्यस्स्पर्शनेन च
न घ्रेयश्चैव गन्धेन रसेन च विसर्जितः
सत्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै
स हि सर्वगतसाक्षी लोकस्यात्मेति कथ्यते
अहं हि जीवसञ्ज्ञो वै मयि जीवस्समाहितः
मैवं ते बुद्धिर्भवतु दृष्टो जीवो मयेति ह
अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः
भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम्
हिरण्यगर्भो लोकादिश्चतुर्वक्त्रोऽनिरुक्तगः
ब्रह्मासने गतो देवो मम बह्वर्थचिन्तकः
पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान्
द्वादशैवमथाऽऽदित्यान्वामं पक्षमथाश्रितान्
अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान्
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः
सर्वान्प्रजापतीन्पश्य पश्य सप्त ऋषीनपि
वेदान्यज्ञान्पशूंश्चैव पश्य स्रुक्च महौषधीः
तपांसि नियमांश्चैव यमानपि पृथग्विधान्
तथाऽष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत्
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम्
वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम्
ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम्
अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा
मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम
त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्ज्ञप्तिविवर्जितान्
देवकार्यादपि मुने पितृकार्यं विशिष्यते
देवानां च पितॄणां च पिता ह्येकोऽहमादितः
अहं हयशिरा भूत्वा समुद्रे पश्चिमोत्तरे
पिबामि सुहुतं हव्यं कव्यं च श्रद्धयाऽन्वितम्
मया सृष्टः पुरा ब्रह्मा येनाहमयजं स्वयम्
ततस्तस्मै वरान्प्रीतो ददावाहमनुत्तमान्
मत्पुत्रत्वं च कल्पादौ लोकस्रष्टारमेव च
अहङ्कारकृतानां च नामपर्यायवाचकम्
त्वया कृतां च मर्यादां नातिक्रंस्यति कश्चन
त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि
सुरासुरगणानां च महर्षीणां तथैव च
पितॄणां च महाभाग सततं संशितव्रत
विविधानां च भूतानां त्वमुपास्यो भविष्यसि
प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा
अनुशास्यस्त्वया ब्रह्मन्सुयोज्यस्सुतो यथा
एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे
अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम्
निर्वाणं सर्वधर्माणां निवृत्तिः परमा सुत
तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः
विद्यासहायवन्तं मामनादिस्थं सनातनम्
कपिलं प्राहुराचार्यास्साङ्ख्यनिश्चियनिश्चयाः
हिरण्यगर्भो भगवाञ्श्रावयन्सदसि स्तुतः
सोऽहं योगगतिर्ब्रह्मन्योगशास्त्रे च शब्दितः
एषोऽहं व्यक्तिमागम्य तिष्ठामि दिवि शाश्वतः
ततो युगसहस्रान्ते संहरिष्यामि वै जगत्
कृत्वाऽऽत्मस्थानि भूतानि जङ्गमान्यचराणि च
एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम
अतो भूयो जगत्सर्वं करिष्यामीति विद्यया
अस्मिन्मूर्तिश्चतुर्थी या साऽसृजच्छेषमव्ययम्
स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत्
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः
अनिरुद्धात्तथा ब्रह्मा तन्नादिकमलोद्भवः
ब्रह्मणस्सर्वभूतानि चराणि स्थावराणि च
यथा सूर्यस्य गमनादुदयास्तमयावपि
नष्टौ पुनर्बलात्काल आनयत्यमितद्युतिः