युधिष्ठिरः-
यदा भक्तो भगवत आसीद्राजा महान्वसुः
किमर्थं स परिभ्रष्टो विवेश विवरं भुवः
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ऋषीणां चैव संवादं त्रिदशानां च भारत
इयं वै कर्मभूमिस्स्यात्स्वर्गो भोगाय कल्पितः
तस्मादिन्द्रो महीं प्राप्य यजमानस्तु दीक्षितः
सवनीयपशोः काल आगते तु बृहस्पतिः
पिष्टमानीयतामत्र पश्वर्थमिति भाषत
तच्छ्रुत्वा देवतास्सर्वा इदमूचुर्द्विजोत्तमम्
बृहस्पतिं मांसपुष्टाः पृथक्पृथगरिन्दम
अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमम्
स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्मृतः
ऋषयः-
बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः
अजसञ्ज्ञानि बीजानि भागं तस्य महात्मनः
नैष धर्मस्सतां देवा यत्र वध्येत वै पशुः
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः
युष्माकमजरा बुद्धिर्ह्यजो बीजं तदुच्यते
भीष्मः-
तेषां संवदतामेवमृषीणां विबुधैस्सह
मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः
अन्तरिक्षचरश्श्रीमान्समग्रबलवाहनः
तं दृष्ट्वा सहसाऽऽयान्तं वसुं ते त्वन्तरिक्षगम्
ऊचुर्द्विजातयो देवा एष च्छेत्स्यति संशयम्
यज्वा दानपतिश्श्रेष्ठस्सर्वभूतहिते रतः
कथंस्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः
एवं ते संविदं कृत्वा ऋषयो विबुधास्तथा
अपृच्छन्सहसाऽभ्येत्य वसुं राजानमन्तिकात्
देवर्षयः-
भो राजन्केन यष्टव्यमजेन किमथौषधैः
एतन्नस्संशयं छिन्धि प्रमाणं नो भवान्मतः
भीष्मः-
स तान्कृताञ्जलिर्भूत्वा पर्यपृच्छच्च वै वसुः
कस्य वा को मतः पक्षो ब्रूत सत्यं समागताः
ऋषयः-
धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप
देवानां तु पशुभिः पक्षो राजन्वदस्व नः
भीष्मः-
देवानां तु मतं श्रुत्वा वसुना पक्षसंश्रयात्
छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा
कुपितास्ते तदा सर्वे मुनयस्सूर्यवर्चसः
ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम्
ऋषयः-
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत
अद्यप्रभृति ते राजन्नाकाशे विहता गतिः
अस्माच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि
विरुद्धं वेदसूत्राणामुक्तं यदि भवेन्नृप
वयं विरुद्धवचना यदि तत्र पतामहे
भीष्मः-
ततस्तस्मिन्मुहूर्ते तु राजोपरिचरस्तथा
अधो वै सम्बभूवाशु भूमेर्विवरगो नृपः
स्मृतिं तु नैव प्रजहौ तदा नारायणाज्ञया
देवास्तु सहितास्सर्वे वसोश्शापविमोक्षणम्
चिन्तयामासुरव्यग्रास्सुकृतं हि नृपस्य नः
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना
अस्य प्रतिप्रियं कार्यं स हि धर्मो दिवौकसः
इति बुद्ध्या व्यवस्याऽऽशु गत्वा निश्चयमीश्वरम्
ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा
देवाः-
ब्रह्मण्यं दैवतं गच्छ सुरासुरगुरुं हरिम्
कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम्
मानना तु द्विजातीनां कर्तव्या नु महात्मनाम्
अवश्यं तपसा तेषां फलितव्यं नृपोत्तम
विरुद्धं वेदसूत्राणां न वक्तव्यं हितार्थिना
यतस्त्वं सहसा दृष्ट्वा आकाशान्मेदिनीतलम्
अस्मत्पक्षनिमित्तं ते व्यसनं प्राप्तमीदृशम्
एकं त्वनुग्रहं तुभ्यं कुर्मो वै नृपसत्तम
यावत्त्वं शापदोषेण कालमीक्ष्यावतिष्ठसे
भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि
यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः
प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिराविशेत्
न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः
वसोर्धाराभिपीतत्वात्तेजसाऽऽप्यागतेन च
स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति
भीष्मः-
एवं दत्त्वा वरं जग्मुस्सर्वे तत्र दिवौकसः
क्रतुं समाप्य पिष्टेन मुनीनां वचनात्तदा
गत्वा स्वभवनं देवा ऋषयश्च तपोधनाः
गृहीत्वा दक्षिणां सर्वे गतस्स्वानाश्रमान्पुनः
वसुं विसृज्य शक्रश्च प्रविवेशामरावतीम्
वसुर्विवरगस्तत्र व्यलीकस्य फलाद्गुरोः
चक्रे च सततं पूजां विष्वक्सेनाय भारत
जपञ्जगौ च सततं नारायणमुखोद्गतम्
ततोऽपि पञ्चभिर्यज्ञैः पञ्चकालानरिन्दम
अयजद्धरिं तु सगुरुर्भूमेर्विवरगो वसुः
ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः
अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः
वरदो भगवान्विष्णुस्समीपस्थं द्विजोत्तमम्
गरुत्मन्तं महाभागमाबभाषे स तं तदा
श्रीभगवान्-
द्विजोत्तम महाभाग गम्यतां वचनान्मम
सम्राड्राजा वसुर्नाम धर्मात्मा संशितव्रतः
ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम्
मानितास्ते न विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम
भूमेर्विवरगं गुप्तं गरुडेह ममाज्ञया
अधश्चरं नृपश्रेष्ठं खेचरं कुरु मा चिरम्
भीष्मः-
गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान्
विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः
तत एनं समुत्क्षिप्य सहसा विनतासुतः
उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत
तस्मिन्मुहुर्ते सञ्जज्ञे राजोपरिचरः पुनः
सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः
एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया
प्राप्ता गतिरयज्वार्हा द्विजशापान्महात्मना
केवलं पुरुषस्तेन सेवितो हरिरीश्वरः
ततश्शीघ्रं जहौ शापं ब्रह्मलोकमवाप च
एतत्ते सर्वमाख्यातं सम्भूता मानवा यथा
नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः
तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप