भीष्मः-
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसस्सुते
बभूवुर्मुदिता देवास्तदा देवपुरोहिते
बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः
एभिस्समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम्
स राजा भावितः पूर्वं दैवेन विधिना नृपः
पालयामास पृथिवीं दिवमाखण्डलो यथा
तस्य यज्ञो महानासीदश्वमेधो महात्मनः
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह
धनुषाख्योऽथ रैभ्यश्च त्वर्वावसुपरावसू
ऋषिर्मायातिथिश्चैव ताण्ड्यश्चैव महानृषिः
ऋषिश्शान्तिर्महाभागस्तथा वेदशिराश्च यः
कपिलश्च मुनिश्रेष्ठश्शालिहोत्रपितामहः
आद्यकारस्तैत्तिरिश्च वैशम्पायनपूर्वजः
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः
प्रजापतिसुताश्चात्र सदस्याश्चाभवंस्त्रयः
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
सम्भृतास्सर्वसम्भारास्तस्मिन्राज्ञो महाक्रतौ
न तत्र पशुघातोऽभूत्स राजा विस्मितो ह्यभूत्
अहिंसारतिरक्षुद्रो निराशीः कर्मसंस्थितः
आरण्यकपदोद्गीता भागास्तत्र प्रकल्पिताः
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः
साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित्
स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान्
अदृश्येन हृते भागे देवेन हितमेधसा
बृहस्पतिस्ततः क्रुद्धस्स्रुचमुद्यम्य वेगितः
आकाशे स्रुक्स्रुवौ क्षिप्त्वा स रोषादभ्यवर्तत
उवाच चोपरिचरं मया भागोऽयमुद्यतः
ग्राह्यस्स्वयं हि देवेन मत्प्रत्यक्षं न संशयः
उद्यता यज्ञभागा हि साक्षात्प्राप्तास्सुरैरिह
किमर्थमिह न प्राप्तो दर्शनं मे हरिर्नृप
ततः स तं समुद्धूतं भूमिपालो महान्वसुः
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः
वसुः-
भीष्मः-
हुतस्त्वया वदानीह पुरोडाशस्य यावती
गृहीता देवदेवेन मत्प्रत्यक्षं न संशयः
इत्येवमुक्ते वसुना सरोषश्चाब्रवीद्गुरुः
बृहस्पतिः-
न यजेयमहं चात्र परिभूतस्त्वयाऽनघः
त्वया पशुर्वारितोऽयं कृतः पिष्टमयः पशुः
त्वं देवं पश्यसे नित्यं न पश्येयमहं कथम्
वसुः-
पशुहिंसा वारिता च यजुर्वेदादिमन्त्रतः
अहं निवारये हिंसां द्रक्ष्याम्येकान्तिको हरिम्
तस्मात्कोपो न कर्तव्यो भवता करुणा मयि
भीष्मः-
वसुमेवं ब्रुवाणं तु क्रुद्ध एव बृहस्पतिः
उवाच ऋत्विजश्चैव किं नः कर्मेति वारयन्
अथैकतो द्वितश्चैव त्रितश्चैव महर्षयः
ऊचुश्चैनमसम्भ्रान्ता न रोषं कर्तुमर्हसि
शृणु त्वं वचनं पुत्र अस्माभिस्समुदाहृतम्
नैष धर्मः कृतयुगे यत्त्वं रोषमिहाकृथाः
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः
न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते
यस्य प्रसादं कुरुते स हि तं द्रष्टुमर्हति
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः
गता निश्श्रेयसार्थं हि कदाचिद्दिशमुत्तराम्
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम्
एकपादस्थितास्सन्तः काष्ठभूतास्समाहिताः
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः
स देशो यत्र नस्तप्तं तपः परमदारुणम्
कथं पश्येमहि वयं देवं नारायणं प्रभुम्
अथ व्रतस्यावभृथे वागुवाचाशरीरिणी
अशरीरवाक्-
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना
यूयं जिज्ञासवो भूत्वा कथं द्रक्ष्यथ तं प्रभुम्
क्षीरोदधेरुत्तरतश्श्वेतद्वीपो महाप्रभः
तत्र नारायणपराः पुरुषाश्चन्द्रवर्चसः
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमाः
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्
अनिन्द्रिया निराहारा अनिष्पन्दास्सुगन्धिनः
एकं दिनं ते पुरुषाश्श्वेतद्वीपनिवासिनः
गच्छन्तु तत्र मुनयस्तत्राऽऽत्मा मे प्रकाशितः
एकतादयः-
अथ श्रुत्वा वचस्सर्वे तेजसा तस्य मोहिताः
ततो नो दृष्टिविषये तदा प्रतिगतोऽभवत्
न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम्
न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत्
व्रतावसाने सुशुभान्नरान्पश्यामहे वमय्
श्वेतांश्चन्द्रप्रभान्साध्यान्सर्वलक्षणलक्षितान्
नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान्
मानसो नाम स जपो जप्यते तैर्महात्मभिः
तेनैकाग्रमानसेन प्रीतो भवति वै हरिः
यावन्त्यो मुनिशार्दूल भास्सूर्यस्य युगक्षये
एकैकस्य प्रभा तादृक्साऽभवन्मानवस्य ह
तेजोनिवासस्स द्वीप इति वै मन्महे वयम्
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः
अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम्
सहसा दृष्टवन्तस्स्म पुनरेव बृहस्पते
सहिताश्चाभ्यधावन्तस्ततस्ते मानवा ध्रुवम्
कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः
ततो हि वदतां तेषामश्रौष्म विपुलं ध्वनिम्
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः
वयं तु तेजसा तस्य सहसा नष्टचेतसः
न किञ्चिदिह पश्यामो हतदृष्टिबलेन्द्रियाः
एकस्तु विततश्शब्दश्श्रुतोऽस्माभिरुदीरितः
आकाशं पूरयन्सर्वं शिक्षाक्षरसमन्वितः
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज
इति शब्दश्श्रुतोऽस्माभिश्शिक्षाक्षरसमन्वितः
एतस्मिन्नन्तरे वायुस्सर्वगन्धवहश्शुचिः
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तदा
यैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया
मारुते सन्निवृत्ते च बलौ च प्रतिपादिते
चिन्ताव्याकुलितात्मानो जातास्स्मोऽङ्गिरसां वर
मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु
अस्मान्न कश्चिन्मनसा चक्षुषा वाऽप्यपूजयत्
ते हि स्वस्था मुनिगणा एकं भावमनुव्रताः
नास्मासु दधिरे भावं ब्रह्मवाचमनुष्ठिताः
ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान्
उवाच स्वस्थं किमपि भूतं तत्राशरीरकम्
अशरीरवाक्-
दृष्टा वः पुरुषाश्श्वेताः पञ्चेन्द्रियविवर्जिताः
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः
गच्छध्वं मुनयस्सर्वे यथागतमितोऽचिरात्
न स शक्यो ह्यभक्तेन द्रष्टुं देवः कथञ्चन
कामं कालेन महता एकान्तित्वं समास्थितैः
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः
महत्कार्यं तु कर्तव्यं युष्माभिर्द्विजसत्तमाः
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च
वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः
सुराणां कार्यसिद्ध्यर्थं सहाया वा भविष्यथ
एकतादयः-
ततस्तदद्भुतं वाक्यं निशम्यैव सुराधिपात्
तस्य प्रसादात्प्राप्तास्स्मो देशमीप्सितमञ्जसा
एवं सुतपसा चैव हव्यकव्यैस्तथैव च
देवोऽस्माभिर्न दृष्टस्स त्वं कथं द्रष्टुमर्हसि
नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक्
भीष्मः-
एवमेवोक्तवाक्येन द्वितत्रितमतेन च
अनुनीतस्सदस्यैश्च बृहस्पतिरुदारधीः
समाप्य च ततो यज्ञं देवं तं समपूजयत्
समाप्तयज्ञो राजर्षिः प्रजां पालितवान्वसुः
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं तदा
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः
नारायणपरो भूत्वा नारायणपदं जपन्
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः
महीतलाद्गतस्स्थानं ब्रह्मणस्समनन्तरम्
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा